नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 167, कुल 226 में से
संदर्भ में पढ़ेंसर्गः ३ ] जीवातु-मदयन्तिकासहितम् १५१ तीसरे व्यक्ति से नहीं कहती; इसी प्रकार तुम भी जो गुप्त बात कहोगी उसे नल के अतिरिक्त किसी अन्य से नहीं कहूँगा—यह विश्वास रखो ) ॥ ४४ ॥ नलाश्रयेण त्रिदिवोपभोगं तवानवाप्यं लभते बतान्या । कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्स्नोत्सवं दुर्लभमम्बुजिन्याः ॥४५॥ अथ श्लोकद्वयेन अस्या नलानुरागमूद्दीपयति—नलेत्यादि । तवानवाप्यं नलपरिग्रहाभावात् त्वया दुरापम् । 'कृत्यानां कर्त्तरि वा' इति षष्ठी तृतीयार्थे । [त्रिदिवोपभोगं] त्रिदिवः स्वर्गः । पृषोदरादित्वात् साधुः । तस्य उपभोगं, तादृग् भोगमित्यर्थः । तस्येन्द्रसदृशैश्वर्यत्वादिति भावः । अम्बुजिन्या दुर्लभं = इन्दुपरिग्रहाभावात्तया दुरापं ज्योत्स्नोत्सवं = चन्द्रिकाभोगं, [इन्दुपरिग्रहेण] इन्दोः कर्त्तुः परिग्रहेण, कुमुदान्यस्यां सन्तीति कुमुद्वती = कुमुदिनी इव । 'कुमुद- नडवेतसेभ्यो डमतुप्' । 'मादुपधायाश्च' इत्यादिना मकारस्य वकारः । [नलाश्रयेण] नलस्य कर्त्तुराश्रयेण नलस्वीकरणेन, अन्या लभते । 'बत' इति खेदे । ईदृग्भोगो- पेक्षिणी त्वं बुद्धिमान्द्यात् न शोचसि, इति भावः ॥४५॥ अन्य युवती---नल के ( पतिरूप ) आश्रय के कारण तुमसे ( नल के आश्रय के अभाव के कारण ) दुष्प्राप्य—( हमारे जैसे दिव्य पक्षियों के पङ्खा झलने आदि के ) स्वर्गीय सुखोपभोग को उसी प्रकार लूट रही है; जिस प्रकार कुमुदिनी नायिका—निशानायक चन्द्र द्वारा पत्नीरूप में स्वीकार कर लिये जाने के कारण— कमलिनी को दुर्लभ, प्रकाश ( चन्द्रिका ) रूप आनन्द को लूटती है । यह बड़े खेद की बात है ( अतः तुम नल को पतिरूप में स्वीकार कर लो ) ॥ ४५ ॥ तन्नैषधानूढतया दुरापं शर्म त्वयास्मत्कृतचाटुजन्म । रसालवल्ल्या मधुपानुविद्धं सौभाग्यमप्राप्तवसन्तयेव ॥ ४६ ॥ तदिति । किञ्च, तत्=प्रसिद्धम्, [अस्मत्कृत-चाटु-जन्म] अस्माभिः कृतेभ्यः प्रयुक्तेभ्यश्चाटुभ्यः प्रियवाक्येभ्यो जन्म यस्य तस्य तत्तज्जन्यमित्यर्थः । चाटुग्रहणं पूर्वोक्तनिजपक्षवीजनाद्युपलक्षणम् । शर्म = सुखं, त्वया [अवाप्त- वसन्ततया] अप्राप्तो वसन्तो यया तया, वसन्तानधिष्ठितयेत्यर्थः। रसालवल्ल्या = सहकारश्रेण्या, मधुपानुविद्धं सौभाग्यं - रामणीयकम् इव [ नैषधानूढतया ] नैषधेन नलेन, अनूढतया, अपरिणीतत्वेन हेतुना, दुरापं = दुष्प्रापम् । तस्मात्ते नल- परिग्रहाय यत्नः कार्य इति भावः ॥ ४६ ॥