नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 172, कुल 226 में से
संदर्भ में पढ़ें१२६ नैषधचरितम् । [ तृतीय धिक् चापले वत्सिम... तरलीभवन्त्या । समीरशङ्गादिव नीरभङ्ग्या मया तटस्थस्त्वमुपद्रुतोऽसि ॥५५॥ धिगिति । चापले = चपलकर्मणि, युवादिष्वादण् । [ वत्सिम- वत्सलत्वं, वत्सस्य भावः वत्सिमा शिशुत्वम् । पृथादित्वादिमनिच् । तेन निमित्तेन वत्सलत्वं वात्सल्यं, वाल्यत्वप्रयुक्तचापलमित्यर्थः । तत् धिक् कुतः ? [ यत्प्रेरणात् ] यस्य चापलवात्सल्यस्य, प्रेरणाद् उत्तरलीभवन्त्या = चपलायमानया मया समीरशङ्गात् = वाताहतेः, उत्तरलीभवन्त्या नीरभङ्ग्या = जलवीची इव तटस्थः = उदासीनः, कूलं गतश्च त्वमुपद्रुतः = पीडितोऽसि । अतः अधर्महेतुत्वाद्वालचापलं सोढव्यमिति भावः ॥ ५५ ॥ ( तुम्हें पकड़ने की ) चञ्चलता पर, लड़कपन के कारण स्नेह होने को धिक्कार है; क्योंकि उस ( बाल-चापल्य से प्रेम होने ) की प्रेरणा से ही चञ्चल होकर, मैंने तुम्हारे जैसे तटस्थ (उदासीन) मनुष्य का उत्पीड़न किया; जैसे हवा के सम्पर्क (झोंके) से चञ्चल हुई लहरें, तट-स्थ (तट पर स्थित) व्यक्ति को कष्ट पहुँचाती हैं ॥ आदर्शतां स्वच्छतया प्रयासि सतां स तावत् खलु दर्शनीयः । आगः पुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते ॥५६॥ आदर्शतामिति । स्वच्छतया = नैर्मल्यगुणेन, [ आदर्शतां ] आ दृश्यते पुरोगतवस्तुरूपमस्मिन्निति आदर्शो दर्पणः, तत्तां प्रयासि । कुतः ? यस्य = स्वच्छस्य, ते = तव सम्बन्धिाने, सागसं = सापराधं, मां पुरस्कुर्वति = पूजयति, अग्रे कुर्वाणे च । आत्मनि = बुद्धौ, स्वरूपे च । 'पुरस्कृतः पूजिते स्यादभियुक्तेऽग्रतः कृते । आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवष्मणी'ति चामरः । इदं = मदीयम् आगः = अपराधः, प्रतिबिम्बितं = प्रतिफलितं । पुरोवर्ति धर्माणामात्मनि संक्रम- णादादर्शोऽसीत्यर्थः । ततः किमतः आह—सः=आदर्शः, सतां = साधूनां तावत्= प्रथमं, दर्शनीयः । अथवा पूज्यश्चेति तावच्छन्दार्थः । खलु । 'रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरुमग्निं तथा सूर्यं प्रातः पश्येत् सदा बुधः' इति शास्त्रादिति भावः ॥ ५६ ॥ तुम (स्वर्णमय एवं सुन्दर होने के कारण ) वस्तुतः दर्शनीय जीव हो । स्वच्छ ( निष्कपट ) हृदय होने के कारण तुम तो सभी सत्पुरुषों के आदर्श ( दृष्टान्त ) रूप हो। तथापि तुम्हारे पीछे पड़कर, मैंने तुम्हें व्यर्थ