नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 185, कुल 226 में से
संदर्भ में पढ़ेंसर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६९ अनैषधायैव जुहोति किं मां तातः कृशानौ न शरीरशेषाम् । ईष्टे तनूजन्मतनोस्तथापि मत्प्राणनाथस्तु नलः स एव ॥ ७९ ॥ एवं निजेच्छया नलान्यशङ्कां निरस्य पित्राज्ञायापि तां निरस्यति-अनैषधायेति । तातः = मम जनकः । 'तातस्तु जनकः पिता' इत्यमरः । मामनैषधाय = नैषधा- त्रलादन्यस्मै एव, जुहोति = ददातीति काकुः । तदा शरीरशेषां = मृतां तत्रापि कृशानौ न किं मा = न तु जीवन्तीं नाग्नेरन्यत्र जुहोतीत्यर्थः । तदङ्गीकर्तव्य- मेवेति भावः । कुतः ? स = जनकः तनूजन्मतनोः = आत्मजशरीरस्य ईष्टे = स्वामी भवतीत्यर्थः । 'अधीगर्थदयेशां कर्मणि' इति शेषे षष्ठी । तथापि = शरीरस्य पितृस्वामिकत्वेऽपीत्यर्थः । मत्प्राणनाथस्तु नल एव, प्राणानामतज्जन्यत्वादिति भावः । अतो मय्यविश्वासं मा कुर्वित्यर्थः ॥ ७६ ॥ यदि पिता मुझे नल के अतिरिक्त किसी अन्य पुरुष को- ('अङ्गादङ्गात्स- म्भवसि०' के अनुसार सन्तति के अङ्ग के स्वामी होने के कारण ) स्वेच्छा से दें तो ( मेरे आत्महत्या कर लेने पर, प्राणों के चले जाने पर ) शरीर मात्र शेष बचे हुए (अर्थात् निष्प्राण शरीर ) को अनल में दे दें, यही उचित होगा । पिता तो जन्म देने के कारण, अपनी सन्तान के शरीर के स्वामी होते हैं और ( पति तो प्राण-नाथ होते हैं इसलिए ) मेरे प्राणों के नाथ तो वे -नल-ही हैं ॥७६॥ तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधित्सुता ते । अहेलिना किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण ॥ ८० ॥ फलितमाह--तदेकेति । [ तदेकदासीत्वपदात् ] तस्य नलस्यैकस्यैव दासीत्वं तदेव पदमधिकारस्तस्मात् , उदग्रे = अधिके, मदीप्सिते = पत्नीत्वरूपे विषये, ते=तव, विधित्सुता = चिकीर्षुतैव साधु = साध्वी; अविचारेण मन्म- नोरथपूरणमेव ते युक्तमिति भावः । साध्विति सामान्योपक्रमान्नपुंसकत्वम् । 'शक्यं श्वमांसेनापि क्षुन्निवर्तयितुम् ' इति भाष्यकारप्रयोगात् । ननु किमत्राभिनिवेशेन गुणवत्तर चेद्युवान्तरस्वीकारे को दोषस्तत्राह - अहेलिनेति । नलिनी सुधाकरेण = अमृतदीधितिनापि अहेलिना = असूर्येण, सुधाकरेण = चन्द्रेण किं विधत्ते ? किं तेन तस्या इत्यर्थः । तद्वन्ममापि किं युवान्तरेणेति भावः । दृष्टान्तालङ्कारः ॥८०॥ उन ( नल ) के एकमात्र दासीरूप पद से भी उत्तम--मेरा मनोरथ कोई हो तो उसे पूरा करने की तुम्हारी इच्छा है (जैसा कि श्लोक ७३ में तुम कह