भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 196, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 196

१८० नैषधचरितम् । [ तृतीयः होता है; क्योंकि उसे अपने शत्रु शिव जी के प्रति स्पर्द्धा है। (इससे वह समझता है कि मैंने शिवजी के गण उन्मत्त नामक भैरव को पकड़ लिया है ) ॥६८॥ तथाभिधात्रीमथ राजपुत्रीं निर्णय तां नैषधबद्धरागाम् । अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः ॥९९॥ तथेति । अथ = अनन्तरं, तथा अभिधात्रीं = वक्त्रीं तां राजपुत्रीं = भैमीं [नैषधबद्धरागां] नैषधे नले, बद्धरागां निर्णय । तेन विहायसा = विहगेन विहस्य भूयः = पुनः [चञ्चूपुटमौनमुद्रा] चञ्चूपुटस्य मौनमुद्रा निर्वचनत्वम्, अमोचि = अवादीदित्यर्थः ॥ ६६ ॥ तदनन्तर पूर्वोक्त प्रकार से बोलनेवाली, राजकुमारी दमयन्ती को, निषधाधिपति नल के प्रति बद्धानुरागवाली (अनुरक्त) जानकर, वह हंस पहले तो हँस पड़ा और फिर अपने चञ्चुपुट पर लगी हुई मौन रूपी मुहर का परित्याग किया (अर्थात् कहने लगा) ॥ ६६ ॥ इदं यदि क्ष्मापतिपुत्रि ! तत्त्वं पश्यामि तन्न स्वविधेयमस्मिन् । त्वामुच्चकैस्तापयता नलं च पञ्चेषुणैवाजनि योजनेयम् ॥१००॥ इदमिति । हे क्ष्मापतिपुत्रि ! इदं = त्वदुक्तं, तत्त्वं यदि = सत्यं यदि, तत् = तर्हि, अस्मिन् = विषये स्वविधेयं = मत्कृत्यं न पश्यामि । किन्तु, त्वां नृपं च उच्चकैः = अत्यन्तं तापयता पञ्चेषुणेव इयं योजना = युवयोः सङ्घटना, अजनि = जाता । जनेः कर्मणि चिणो लुक् ॥१००॥ हे नरेन्द्रकुमारी ! यदि यह बात (जो आपने कही है) वस्तुतः सत्य है तो इस (आपकी प्रार्थना-पूर्ति) के सम्बन्ध में, मुझे अपनी ओर से, कुछ करना नहीं दीख पड़ता; क्योंकि आपको तथा नल को अतिशय सन्ताप देकर, पञ्च-बाण कामदेव ने ही यह योजना पूरी कर दी है ॥१००॥ त्वद्बद्धबुद्धेर्बहिरिन्द्रियाणां तस्योपवासिव्रतिनां तपोभिः । त्वामद्य लब्ध्वामृततृप्तिभाजां स्वं देवभूयं चरितार्थमस्तु ॥१०१॥ त्वदिति । किन्तु, त्वद्बद्धबुद्धेः = त्वदायत्तचित्तस्य, त्वामेव ध्यायत इत्यर्थः । अत एव तस्य = नलस्य, उपवासिव्रतिनां = त्वदासङ्गाद्विषयान्तरव्यावृत्तानां, तपोभिः = उक्तोत्कृष्टसाधनात्तपःसदृशैर्दर्शनमुखेन लब्धप्रायां निश्चित्य, साक्षात्कृत्येति च गम्यते । अत एव [अमृततृप्तिभाजां] अमृतेन या तृप्ति-