नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 214, कुल 226 में से
संदर्भ में पढ़ें१९८ नैषधचरितम्। [ तृतीयः राज) नल को (विभु कामदेव का) निशाना जानिए। आप अपने (शरीर) को (विभु। कामदेव की) सुन्दर धनुष-वल्लरी जानिए। (आप के शरीर रूपी धनुर्बल्लरी के) बीच का छेद --नाभि--है, जिस बिल में गुलिका रखी जाती है और (आप के वक्षःस्थल से लेकर नीचे की ओर जाने वाली रोमावली) रोओं की पंक्तियाँ उस धनुर्वल्लरी की सदा बीच में रहने वाली डोरी (गुण) की सारी शोभा (विलास-लीला) को धारण करती हैं (अर्थात् नल को जीतने के लिए आप ही कामदेव की उपयुक्त हथियार हैं) ॥१२७॥ पुष्पेपुश्चिकुरेषु ते शरचयं स्वं भालमूले धनु र्रौद्रे चक्षुषि यज्जितस्तनुमनु भ्राष्ट्रं च यन्निक्षिपे । निर्विद्याश्रयदाश्रमं स वितनुस्त्वां तज्जयायाधुना पत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते ॥१२८॥ पुष्पेपुरिति । यः पुष्पेपुः = कामो यज्जितः = येन नलेन, सौन्दर्यात्परा- भूतः। अत एव निर्विद्य = ईर्ष्यया जीवनवैय्यर्थ्य मत्वेत्यर्थः । 'तत्त्वज्ञानोदितेर्ष्यादे- र्निर्विदो निष्फलत्वधीः' इति लक्षणात् । ते = तव, चिकुरेषु = केशेषु, स्वं = स्वकीयं, शरचयं, त्वद्धृतकुसुमव्याजादिति भावः । भालमूले = ललाटभागे, धनुः, भ्रूव्याजादिति भावः । तथा रौद्रे = रुद्रसम्बन्धिनि, चक्षुष्येव । अनु- भ्राष्ट्रम् = अम्भरीषे । विभक्त्यर्थेऽव्ययीभावः । 'क्लीवेऽम्बरीषं भ्राष्ट्रो ना' इत्यमरः । तनुं = शरीरं च चिक्षिपे = क्षितवान् । पूर्वमेव दग्धतनुव्याजादिति भावः । स्वरितेत्त्वात्तङ् । स = पुष्पेपुर्वितनुः = अनङ्गः सन्, अधुना तज्जयाय = नल- विजयार्थं, त्वाम् एवाश्रमं = तपोवनम् आश्रयत् = आश्रितवान् ; तपश्चर्यार्थ- मिति शेषः । अन्यथा, कथं तं जेष्यतीति भावः । अत एव [त्वदुरोज-शैल- निलया ] त्वदुरोज एव शैलो निलयो यस्याः सा, तन्निष्ठेत्यर्थः । पत्रालिः = पत्ररचना पर्णचयश्च, [ तत्पर्णशालायते ] तस्य कामस्य पर्णशालायते । सेव आचरति, उपमानात् कर्तुः क्यङ् । अत्र पूर्वार्द्धे शरचापादीनां पूर्वोक्तपुष्पादि- विषयनगरणेन तदभेदाध्यवसायाद्भेदे अभेदरूपातिशयोक्तिः । तत्पर्णशालायत इत्युपमा चोत्थापितेन त्वमाश्रममिति रूपकेण सङ्कीर्णा व्यञ्जकाप्रयोगाद्रम्या । कामस्याश्रमाश्रयणोत्प्रेक्षेति सङ्करः ॥१२८॥ उस पुष्प-धन्वा कामदेव ने, नल से (सुन्दरता में) पराजित हो, ईर्ष्या के