नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 36, कुल 226 में से
संदर्भ में पढ़ें२० नैषधचरितम्। [ प्रथमः दमयन्ती ने अपनी लावण्य-श्री के योग्य तथा बहुत बार सुने हुए नल में, कामदेव के आज्ञाकारी मन को विशेषतया लगाया ॥ ३३ ॥ उपासनामेत्य पितुः स्म रज्यते दिने दिने साऽवसरेषु वन्दिनाम्। पठत्सु तेषु प्रति भूपतीनलं विनिद्ररोमाऽजनि शृण्वती नलम् ॥३४॥ अथास्याः श्रवणानुरागमेव चतुर्भिर्वर्णयति-उपासनामित्यादि । सा = भैमी, दिने दिने = प्रतिदिनं 'नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः । वन्दिनां = स्तुतिपाठकानाम् अवसरेषु पितुः उपासनां=सेवाम् एत्य = प्राप्य, तेषु = वन्दिषु, भूपतीन् प्रति = भूपतीनुद्दिश्य, पठत्सु, सत्स्विति शेषः। नलं शृण्वती अलं रज्यते स्म = अनुरक्ताभूदित्यर्थः । दञ्दैवादिकाल्लट् । अत एव विनिद्ररोमा = रोमाञ्चिता, अजनि इति सात्त्विकोक्तिः । जनेः कर्त्तरि लुङ् । 'दीपजन' इत्यादिना च्लेश्चिणादेशः । नलगुणश्रवणजन्यो रागस्तस्या रोमाञ्चेन व्यक्तोऽभूदिति भावः ॥ राजकुमारी प्रतिदिन विरुदावली के समय पिता की शुश्रूषा के लिए आकर, वन्दियों द्वारा कथित राजाओं का विरद् बखान सुनते-सुनते, नल के सम्बन्ध में प्रशंसा सुनकर, इतना अनुरक्त हो जाती थी—उसके शरीर पर पुलकावली छा जाती थी ॥३४॥ कथानुषङ्गेषु मिथः सखीमुखात् तृणेऽपि तन्व्या नलनामनि श्रुते। द्रुतं विधूयान्यदभूयतानया मुदा तदाकर्णनसज्जकर्णया ॥३५॥ कथेति । मिथः = अन्योन्यं, रहसि वा। कथानुषङ्गेषु = विस्रम्भगोष्ठी- प्रसङ्गेषु, सखीमुखात्, नलनामनि = नलाख्ये, तृणे । "नलः पोटगले राज्ञि' इति विश्वः। श्रुते सति अनया, तन्व्या = दमयन्त्या, द्रुतमन्यत् = कार्यान्तरं, विधूय = निराकृत्य, मुदा = हर्षेण, [ तदाकर्णनसज्जया ] तदाकर्णने नलशब्दाकर्णने, सज्जकर्णया दत्तकर्णया, अभूयत = अभावि । भुवो भावे लङ् । अर्थान्तरे प्रयुक्तोऽपि नलशब्दो नृपस्मारकतया तदाकर्णकोऽभूदिति रागातिशयोक्तिः ॥ ३५ ॥ वह तन्वङ्गी एकान्त में सखियों के साथ बातचीत में सखी की मुँहजबानी नल नामक तृण के बारे में भी यदि सुन लेती थी, तो झट दूसरे कामों को छोड़ कर, हर्ष के साथ नल का हाल सुनने के लिए, अपना कान लगा देती थी ॥ ३५ ॥ स्मरात् परासौरानमेपलोचनाद्विषेमि तद्भिन्नमुदाहरेति सा। जनेन यूनः स्तुवती सदास्पदं निदर्शनं नैषधमभ्यषेचयत् ॥ ३६ ॥