नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 37, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवातू-मदयन्तिकासहितम् २१ Digitized by Sarayu Trust Foundation and eGangotri म्मरादिति। परासोः = मृतात्, अत एव अनिमेषलोचनात् = निश्चलाक्षा- देवादेरिति च गम्यते उभयथापि भयहेतूक्तिः। स्मराद्बिभेमि। तद्भिन्नं = ततोऽन्य- मुदाहर तत्सदृशं निदर्शय, इत्येवं सा=दमयन्ती, यूनः स्तुवता जनेन=प्रयोगकर्त्रा तदास्पदे = स्मरस्थाने, निदर्शनं = दृष्टान्तं नैषधं = निषधानां राजानं नलं। 'जनपदशब्दात् क्षत्रियादञ्।' अभ्यषेचयत्। स्मरस्य स्थाने तत्सदृश एवाभिषेक्तुं युक्तः। स च नलादन्यो नास्तीति तस्मिन् नल उदाहृते सहर्षे शृणोतीति रागाति- रेकोक्तिः। 'उपसर्गात् सुनोति' इत्यादिना अङ्व्यवायेऽपि षत्वम् ॥ ३६ ॥ जब सखियाँ कामदेव की उपमा देकर युवकों की प्रशंसा करती थीं तो दमयन्ती कहती थी कि मैं विगत-प्राण तथा निश्चल नयनवाले मदन से डरती हूँ, इसलिए किसी अन्य का दृष्टान्त उपस्थित करो--ऐसा कहकर वह उस (कामदेव) के स्थान पर, मानो नलका वर्णन करने के लिए ध्यान आकर्षित करती थी॥३६॥ नलस्य पृष्टा निषधागता गुणान् मिषेण दूतद्विजवन्दिचारणाः। निपीय तत्कीर्तिकथामथानया चिराय तस्थे विमनायमानया ॥३७॥ नलस्येति । [ निषधगता ] निषधेभ्य आगताः, [ दूत-द्विज-बन्दि- चारणाः] दूताः सन्देशहराः, द्विजा ब्राह्मणाः, वन्दिनः स्तावकाः चारणा देशभ्रमण- जीविनः। ते सर्वे, मिषेण = केनचिद् व्याजेन, नलस्य, गुणान् पृष्टाः । पृच्छे- तेर्दुहादित्वात् प्रधाने कर्मणि क्तः। अथ = प्रक्षानन्तरम्, अनया = भैम्या, तत्कीर्तिकथां = नलस्य यशःकथामृतं, निपीय = नितरां श्रुत्वेत्यर्थः। चिराय, विमनायमानया = विमनीभवन्त्या । 'भृशादित्वात् क्यङि सलोपश्च । 'अकृत्सार्व- धातुकयोः' इतिदीर्घः । ततो लटः शानजादेशः। तदा तस्थे = स्थितम् । तिष्ठतेर्भावे लिट्। अयञ्च दूतादिव्यवधानेन गुणकीर्त्तनलक्षणः प्रलापाख्यो रत्यनुभवः ॥३७॥ निषध देश से आने वाले दूतों, ब्राह्मणों, भाटों और स्तुतिपाठकों से किसी बहाने से नल के गुणों के बारे में पूछती और उनकी कीर्तिकथा का पानकर, बहुत देर तक अन्यमनस्का बनी रहती ॥३७॥ प्रियं प्रियां च त्रिजगज्जयिश्रियौ लिखन्धिलीलागृहभित्ति कावपि । इति स्म सा कारुवरेण लेखित नलस्य च स्वस्य च सख्यमीक्षते ॥३८॥ प्रतिकृतिस्वमदर्शनाद्विधौ विरहिणी विनोदसमास्तीति अवस्थाकथनमुखेन दर्शना- नुरागं चास्या दर्शयन्, प्रतिकृतिदर्शनं तावदाह-प्रियमिति । सा = भैमौ,