नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 38, कुल 226 में से
संदर्भ में पढ़ें२२ नैषधचरितम् । [ प्रथमः [ त्रिजगज्जयिश्रियो ] त्रीणि जगन्ति समाहृतानि त्रिजगत् । समाहारो द्विगोरेक- वचनम् । तस्य जयिनी लोकत्रयजित्त्वरी, श्रीः शोभा, ययोस्तादृशौ । क्वापि 'पुमान् स्त्रिया' इत्येकशेषः । प्रियं प्रियाञ्च तौ, कामिनावित्यर्थः । अधिलीला- गृहभित्ति = विलासवेश्मकुड्ये । विभक्त्यर्थेऽव्ययीभावः । लिख इत्युक्तौ कारु- वरेण = शिल्पिविशेषेण प्रयोज्येन लेखितं नलस्य च स्वस्य च सख्यं = रूप- साम्यम् । ईक्षते स्म लिखितादिव्यवधानेन गुणकीर्तनलक्षणः प्रलापाख्यो रत्यनुभावः । हे चित्रकार ! जिस प्रेमी और प्रेमिका ने तीनों लोकों के सौन्दर्य को जीत लिया हो उसका चित्र क्रीडाभवन की दीवाल पर बनाओ—ऐसा कहकर, वह चित्रकार से लिखे गये चित्र में अपने और नल के स्वरूप की समता देखती थी ॥ मनोरथेन स्वपतीकृतं नलं निशि क्व सा न स्वपती स्म पश्यति । अदृष्टमप्यर्थमदृष्टवैभवात् करोति सुप्तिर्जनदर्शनातिथिम् ॥३९॥ द्विविधं दर्शनम्, साक्षाच्चित्रादौ च । तत्र साक्षादलाभाच्चित्रदर्शनमुक्तम् । अथ द्वाभ्यां स्वप्नदर्शनमाह—मनोरथेनेति । मनोरथेन = सङ्कल्पेन, स्वपतीकृतं = स्वभर्त्तृकृतं । 'अभूततद्भावे च्विः,' 'च्वौ' इति दीर्घः । नलम् . स्वपती = निद्रावती सती सा = दमयन्ती, क्व निशि = कुत्र रात्रौ, न पश्यति स्म = सर्वस्यामपि रात्रौ दृष्टवती । तथा हि—सुप्तिः = स्वप्नः, अदृष्टम् = अत्यन्ताननुभूतम्, अप्यर्थं । किमुत दृष्टमिति भावः । अदृष्टवैभवात् = प्राक्तनभाग्यबलात् । जनदर्शनातिथिं = लोकदृष्टिगोचरं, करोति । तद्वदत्रापि निमित्ताददृष्टात् तादृक् स्वप्नज्ञानमुत्पन्नमित्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥३६॥ ऐसी कोई रात नहीं जाती थी जिसमें दमयन्ती अपने मनमें वरण किए हुए पति—नल—को स्वप्न में न देखती रही हो । भाग्यवशात् अदृष्टवस्तु को भी स्वप्न, दृष्टिगोचर कर देता है ॥३६॥ निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्येन्द्रियमौनमुद्रितात् । अदर्शि संगोप्य कदाप्यवीक्षितो रहस्यमस्याः स महन्महीपतिः ॥४०॥ निमीलितादिति । निद्रया प्रयोजिकया, निमीलितात् = मुकुलिताद्, उपरतव्यापारादित्यर्थः । अक्षियुगाच्च । तथा [ बाह्येन्द्रियमौनमुद्रितात् ] बाह्ये- न्द्रियाणां चक्षुरादीनां मौनेन व्यापारराहित्येन, मुद्रितात् प्रतिष्टब्धात्, मनसो बहिरस्वातन्त्र्यादिति भावः । अस्याः दमयन्त्याः अपि संगोप्य = गोपयित्वेत्यर्थः ।