नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 39, कुल 226 में से
संदर्भ में पढ़ें“अन्तर्द्धौ येनादर्शनमिच्छति” इत्याक्ष्ययुगमनसारपादानत्वम् । अदर्शन चात्र मनसो बाह्येन्द्रियमौनमुद्रितादिति विशेषणसामर्थ्यादिन्द्रियार्थसंप्रयोगजन्यज्ञानविरह एवेति ज्ञायते; स्वप्नज्ञानं तु मनोजन्यमेव । तदजन्यज्ञानमत्रेत्याह—कदाप्यवीक्षित इति । अत्यन्तादृष्टचर इत्यर्थः । महद्रहस्यम् = अतिगोप्यं वस्तु, स महीपतिः = नलः, अस्याः = भैम्याः, अदर्शि = दर्शयाञ्चक्रे । दृशेर्ण्यन्तात् कर्मणि लुङ् । यथा काचिच्चेटी कस्यैचित् कामिन्यै कञ्चन कान्तं संगोप्य दर्शयति, तद्वदिति ध्वनिः ॥४०॥ निद्रा (रूपी सखी) ने—उसके बन्द हुए दोनों नयनों के द्वारा, और बाह्येन्द्रिय विषय ग्रहण न करने के कारण शून्य हुए मन से भी छिपाकर, कभी न देखे हुए महाराज नल को, अति गोपनीय वस्तु की तरह (गुप्तरीति से) दमयन्ती को दिखा दिया ॥४०॥ अहो अहोभिर्महिमा हिमांगमेऽप्यति प्रपेदे प्रति तां स्मरार्दिताम्। तपर्तुपूतावपि मेदसां भरा विभावरीभिर्बिभराम्बभूविरे ॥४१॥ अथास्याश्चिन्ताजागरावाह—अहो इति । हिमांगमे = हेमन्तेऽपि, स्मरार्दितां = कामपीडितां, तां = दमयन्तीं प्रति, अहोभिः = दिवसैः, अतिमहिमा = अति- वृद्धिः, प्रपेदे । तदा तपर्तुपूत्तावपि = ग्रीष्मान्तेऽपि, विभावरीभिः = निशाभिः, मेदसां भरा = मांसलताऽतिशयः, स्थूलत्वमिति यावत् । बिभराम्बभूविरे = बभ्रिरे । भृञः कर्मणि लिट् । आम्प्रत्ययः । अहो = आश्चर्यं, शास्त्रविरोधादनुभव- विरोधाच्चेति भावः । विरहिणां तथा प्रतीयत इत्यविरोधः । एतेनास्या निरन्तरचिन्ता जागरश्च गम्यते । अहोशब्दस्य 'ओत्' इति प्रगृह्यत्वात् प्रकृतिभावः ॥४१॥ बड़े आश्चर्य की बात है कि कामविह्वला दमयन्ती के लिए हेमन्त ऋतु के छोटे दिन बहुत बड़े हो गये और ग्रीष्मऋतु की छोटी रात बहुत बड़ी हो गयी॥४१॥ स्वकान्तिकीतित्रजमौक्तिकस्रजः श्रयन्तमन्तर्घटनागुणश्रियम् । कदाचिदस्या युवधैर्यलोपिनं नलोऽपि लोकादशृणोद्गुणोत्करम् ॥४२॥ अथ नलस्यापि, श्रवणानुरागमाह—स्वेत्यादि । नलोऽपि । कदाचित् [स्वकान्तिकीतित्रजमौक्तिकस्रजः] स्वस्य कान्त्या सौन्दर्येण, याः कीर्त्तयः तासां व्रजः पुञ्ज एव, मौक्तिकस्रक् मुक्ताहारः, तस्याः । अन्तः = अभ्यन्तरे, घटनागुणश्रियं = गुम्फनसूत्रलक्ष्मीं, श्रयन्तं = भजन्तं, युवधैर्यलोपिनं = तरुणचित्तस्थैर्यपरिहारिणम्, अस्याः = दमयन्त्याः, गुणोत्करं = सौन्दर्यसन्दोहं, लोकाद् = आगन्तुकजनात्,