भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 40, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 40

२४ नैषधचरितम् । [ प्रथमः अशृणोत् Digitized by Sarayu Trust Foundation and eGangotri .गुम्फनसूत्रत्वरूपणाद्रूप- कालंकारः ॥४२॥ एक समय आया जब अपने सौन्दर्य-यश रूपी मोती-माला को अपने गुणरूपी डोरे से पोहने वाली और युवकों के चित्त को चञ्चल बनाने वाली दमयन्ती के सुषमा-सन्दोह के बारे में लोगों की मुँहजबानी नल ने भी सुना ॥४२॥ तमेव लब्ध्वावसरं ततः स्मरः शरीरशोभाजयजातमत्सरः । अमोघशक्त्या निजयेव मूर्त्या तया विनिर्जेतुमियेप नैषधम् ॥४३॥ अथास्य तस्यां रागोदयं वर्णयति--तमेवेति । ततः = गुणश्रवणानन्तरं, [शरीरशोभाजयजातमत्सरः] शरीरशोभाया देहसौन्दर्यस्य, जयेन जातमत्सरः उत्पन्नवैरः, स्मरस्तमेव, अवसरम् = अवकाशं, लब्ध्वा = प्राप्य, मूर्त्या = मूर्ति- मत्या, निजया अमोघशक्त्येव = अकुण्ठितसामर्थ्येनेवेत्युत्प्रेक्षा । तया = दमयन्त्या, नैषधं = नलं विनिर्जेतुम्, इयेष = इच्छति स्म । रन्ध्रान्वेषिणो हि विद्वेषिण इति भावः । एतेन रागोद्गम उक्तः ॥४३॥ तब अपने शरीर के सौन्दर्य जीत लिये जाने से, ईर्ष्या के कारण कामदेव ने अच्छा अवसर पाकर, अपनी मूर्तिमती अमोघ शक्ति के समान उस दमयन्ती के द्वारा ही, नल पर विजय पाने की अभिलाषा की ॥४३॥ अकारि तेन श्रवणातिथिर्गुणः क्षमाभुजा भीमनृपात्मजाश्रियः । तदुच्चधैर्यव्ययसंहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः ॥४४॥ अकारीति । तेन क्षमाभुजा = नलेन, [भीमनृपात्मजाश्रियः] भीमनृपा- त्मजायाः दमयन्त्याः, श्रियः गुणः = तदीयः सौन्दर्यादिः, श्रवणातिथिः = श्रोत्र- विषयः, अकारि = कृतः; श्रुत इत्यर्थः । करोतेः कर्मणि लुङ् । स [तदुच्चधैर्यव्यय- संहितेषुणा] तस्य नलस्य उच्चधैर्यव्ययाय उन्नतधैर्यनाशाय, संहितेषुणा स्मरेण च [स्वात्मशरासनाश्रयः] स्वात्मनः शरासनाश्रयः चापनिष्ठो गुणः = मौर्वी, श्रवण- तिथिरकारि = आकर्णं कृष्ट इत्यर्थः । दमयन्तीगुणश्रवणान्नलनमसि महान् मदन- विकारः प्रादुर्भूत इत्यर्थः । अत्रोक्तवाक्यार्थस्य पूर्ववाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ इधर उन महाराज नल ने भी भीमराजकुमारी दमयन्ती के (सौन्दर्यादि) गुणों को अपने कानों का अतिथि बनाया; उधर कामदेव ने भी नल के अलौकिक धैर्य