नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 41, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवातु-मदयन्तिकासहितम् २५ को नष्ट करने के लिए, धनुष पर बाण चढ़ाकर, धनुष की डोरी को अपने कानों का अतिथि बनाया ॥४४॥ अमुष्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन्। निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयोर्जितान्यपि ॥४५॥ अमुष्येति। स स्मरः साहसी = साहसकरः। 'न साहगमनारुह्य नरो भद्राणि पश्यति' इति, न्यायावलम्बी सन्नित्यर्थः। अमुष्य धीरस्य = अविचलितस्य नलस्य, जयाय, शरासनज्यां = निजधनुर्मोर्वीं, विशिखैः = शरैः, सनाथयन् = सनाथं कुर्वन्; संयोजयन्नित्यर्थः। [त्रिलोकीविजयोर्जितान्यपि] त्रयाणां लोकानां समा- हारस्त्रिलोकी। 'तद्धितार्थ' इत्यादिना समासः। 'अकारान्तोत्तरपदो द्विगुः स्त्रिया- मिष्यते' इति स्त्रीलिङ्गत्वाद्द्विगोरिति ङीप्। तस्य विजयेनार्जितानि सम्पादितान्यपि। यशांसि, संशये, निमज्जयामास। किं पुनः सम्प्रति सम्पाद्यमित्यपिशब्दार्थः। वृद्ध्यपेक्षया अनुचितकर्मारम्भे मूलमपि नश्येदिति संशयितवानित्यर्थः। अत्र स्मर- स्योक्तसंशयाऽसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः ॥४५॥ साहसी कामदेव ने उन धैर्यशाली नल पर विजय पाने के लिए, अपने धनुष की प्रत्यञ्चा पर बाण रख कर, तीनों लोकों की विजय से प्राप्त हुई समूची कीर्ति को सन्देह में डाल दिया अर्थात् अपनी कीर्ति की बाजी लगा दी ॥४५॥ अनेन भैमीं घटयिष्यतस्तथा विधेरबन्ध्येच्छतया व्यलासि तत्। अभेदि तत्तद् दृगनङ्गमागंणैर्यदस्य पौष्पैरपि धैर्यकञ्चुकम् ॥४६॥ दैवसाहायात् पुष्पेपोरपि पुरुषकारः फलित इत्याह--अनेनेति। अनेन = नलेन सह, भैमीं, घटयिष्यतः = योजयिष्यतः, विधेः = विधातुः, अबन्ध्येच्छतया = अमोघसङ्कल्पत्वेन तत् = तस्मात्, तथा = तेन प्रकारेण; योऽग्रे वक्ष्यत इति भावः! व्यलासि = विलसितं; लसतेर्भावे लुङ्। यत् = यस्मात्, तत्=प्रसिद्धं, तादृक्= तथा, अभेद्यमित्यर्थः। अस्य = नलस्य [धैर्यकञ्चुकम्] धैर्यमेव कञ्चुकं, पौष्पैः= पुष्पमयैरपि, न तु कठिनैः, अनङ्गस्य=अशरीरस्य, न तु देहवतः, मार्गणैः= बाणैः, अभेदि=भिन्नम्। भिदेः कर्मणि लुङ्। दमयन्ती-नलयोर्दाम्पत्यघटनाय अनङ्ग- बाणैर्नलधैर्यकञ्चुकभेदनाद्विधेरबन्ध्येच्छुत्वं विज्ञायत इत्यर्थः; दैवानुकूल्ये किं दुष्करमिति भावः। तत्रानङ्गपौष्पयोः कञ्चुकं भिन्नमिति विरोधः; तस्य विलासेनाभासीकरणाद्वि- रोधाभासः। स च धैर्यकञ्चुकमिति रूपकोत्थापित इति तयोरङ्गाङ्गिभावेन सङ्करः ॥४६॥