नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
१. हंस दूत प्रसंग व दमयन्ती का अनुराग (सर्ग ३-५)
सर्गः १ ] जीवातु-मदयन्तिकासहितम् २५ को नष्ट करने के लिए, धनुष पर बाण चढ़ाकर, धनुष की डोरी को अपने कानों का अतिथि बनाया ॥४४॥ अमुष्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन्। निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीविजयोर्जितान्यपि ॥४५॥ अमुष्येति। स स्मरः साहसी = साहसकरः। 'न साहगमनारुह्य नरो भद्राणि पश्यति' इति, न्यायावलम्बी सन्नित्यर्थः। अमुष्य धीरस्य = अविचलितस्य नलस्य, जयाय, शरासनज्यां = निजधनुर्मोर्वीं, विशिखैः = शरैः, सनाथयन् = सनाथं कुर्वन्; संयोजयन्नित्यर्थः। [त्रिलोकीविजयोर्जितान्यपि] त्रयाणां लोकानां समा- हारस्त्रिलोकी। 'तद्धितार्थ' इत्यादिना समासः। 'अकारान्तोत्तरपदो द्विगुः स्त्रिया- मिष्यते' इति स्त्रीलिङ्गत्वाद्द्विगोरिति ङीप्। तस्य विजयेनार्जितानि सम्पादितान्यपि। यशांसि, संशये, निमज्जयामास। किं पुनः सम्प्रति सम्पाद्यमित्यपिशब्दार्थः। वृद्ध्यपेक्षया अनुचितकर्मारम्भे मूलमपि नश्येदिति संशयितवानित्यर्थः। अत्र स्मर- स्योक्तसंशयाऽसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः ॥४५॥ साहसी कामदेव ने उन धैर्यशाली नल पर विजय पाने के लिए, अपने धनुष की प्रत्यञ्चा पर बाण रख कर, तीनों लोकों की विजय से प्राप्त हुई समूची कीर्ति को सन्देह में डाल दिया अर्थात् अपनी कीर्ति की बाजी लगा दी ॥४५॥ अनेन भैमीं घटयिष्यतस्तथा विधेरबन्ध्येच्छतया व्यलासि तत्। अभेदि तत्तद् दृगनङ्गमागंणैर्यदस्य पौष्पैरपि धैर्यकञ्चुकम् ॥४६॥ दैवसाहायात् पुष्पेपोरपि पुरुषकारः फलित इत्याह--अनेनेति। अनेन = नलेन सह, भैमीं, घटयिष्यतः = योजयिष्यतः, विधेः = विधातुः, अबन्ध्येच्छतया = अमोघसङ्कल्पत्वेन तत् = तस्मात्, तथा = तेन प्रकारेण; योऽग्रे वक्ष्यत इति भावः! व्यलासि = विलसितं; लसतेर्भावे लुङ्। यत् = यस्मात्, तत्=प्रसिद्धं, तादृक्= तथा, अभेद्यमित्यर्थः। अस्य = नलस्य [धैर्यकञ्चुकम्] धैर्यमेव कञ्चुकं, पौष्पैः= पुष्पमयैरपि, न तु कठिनैः, अनङ्गस्य=अशरीरस्य, न तु देहवतः, मार्गणैः= बाणैः, अभेदि=भिन्नम्। भिदेः कर्मणि लुङ्। दमयन्ती-नलयोर्दाम्पत्यघटनाय अनङ्ग- बाणैर्नलधैर्यकञ्चुकभेदनाद्विधेरबन्ध्येच्छुत्वं विज्ञायत इत्यर्थः; दैवानुकूल्ये किं दुष्करमिति भावः। तत्रानङ्गपौष्पयोः कञ्चुकं भिन्नमिति विरोधः; तस्य विलासेनाभासीकरणाद्वि- रोधाभासः। स च धैर्यकञ्चुकमिति रूपकोत्थापित इति तयोरङ्गाङ्गिभावेन सङ्करः ॥४६॥
२६ नैषधचरितम् । [ प्रथमः 'इन नल के साथ दमयन्ती का सङ्गम होगा'-यह विधाता के (दृढ़ सङ्कल्प का विलास था कि नल के धैर्यरूपी ( दुर्भेद्य ) कवच को,-फूलों के बने हुए बाणों से- अशरीरधारी कामदेव ने-छलनी कर दिया ॥४६॥ किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजमाश्रयत्यहो । स्मरं तनुच्छायतया तमात्मनः शशाक शङ्के स न लङ्घितुं नलः ॥४७॥ अथ विधिमपि जितवतः किं विध्यपेक्ष्येत्याशयेनाह-किमिति । किमन्यत् = अन्यत् किमुच्यते ? पितामहः = विधिः अपि [ यदस्त्रतापितः ] यस्य स्मर- स्यास्त्रैस्तापितः सन्तापितः, अद्यापि वारिजमाश्रयति, तस्य पद्मासनत्वादिति भावः । शिशिरोपचारश्च गम्यते । अहो ! = विधेरपि स्मरविधेयत्वमाश्चर्यम् । तं = पितामहतापिनं स्मरं = कामं स नलः आत्मनः, [ तनुच्छायतया ] तनोः छायेव छाया कान्तिर्यस्य तस्य भावस्तत्ता, तया तनुच्छायतया । तनोश्छाया अनातपस्तनुच्छायम् । तत्तयेति च गम्यते । 'छाया त्वनातपे कान्तौ' इति वैज- यन्ती । लङ्घितुं न शशाक इत्यहं शङ्के, न हि स्वच्छाया लङ्घितुं शक्या इति भावः। अत्र स्मरलङ्घने पितामहोऽप्यशक्तः किमुत नल इत्यर्थापत्तिस्तावदेकोऽलङ्कारः । “एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिर- लङ्क्रिया”इति लक्षणात् । तनोश्छायेव च्छायेत्युपमा, छाययोरभेदाध्यवसायादतिश- योक्तिः । एतत्त्रितयोपजीवनेनालङ्घ्यत्वे तनुच्छायतया हेतुत्वोत्प्रेक्षणादुत्प्रेक्षा सङ्कीर्णा; सा च शङ्क इति व्यञ्जकप्रयोगाद्वाच्येति ॥ ४७ ॥ इससे बढ़ कर और क्या होगा कि स्वयं ब्रह्मा जी कामदेव के बाणों से घायल होकर, अपना संताप मिटाने के लिए, आज तक कमल पर पड़े हुए हैं । ऐसे कामदेव का लंघन करने में नल समर्थ न हो सके-यह बड़े आश्चर्य की बात हुई । मेरा अनुमान है कि ( सौन्दर्य का अवतार ) कामदेव नल के शरीर की परछाहीं भर था और कोई भी व्यक्ति अपनी परछाहीं का लंघन नहीं कर सकता ॥ ४७ ॥ उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् । त्रपासरीद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥४८॥ उरोभुवेति । सा तन्वी = भैमी, [ त्रपासरीद्दुर्गं ] त्रपैव सरित्, सैव दुर्गं नलसम्बन्धि, तदपि प्रतीर्य नलस्य हृदयं विवेश इति यत् । तत्प्रवेशनं, यत्तदोर्नित्यसम्बन्धात् तत् वयःकृतेन नवोपहारेण = नूतननिर्माणेन, उरोभुवा
सर्गः १ ] जीवातु-मदयन्तिकासहितम् २७ तजन्येन कुम्भयुगेन = कुचयुगलाख्येनेति भावः । अत एव विषयनिगरणेन अभे- दाध्यवसायादतिशयोक्तिः। 'न लोका' इत्यादिना कृद्योगे, षष्ठीप्रतिषेधात् कर्त्तरि तृतीया । 'नपुंसके भावेऽप्युपसंख्यानम्' इतिषष्ठी तु शेषविवक्षायाम् । जृम्भितं = जृम्भणं किम् उत्प्रेक्षा ; सा चोक्तातिशयोक्तिमूलेति सङ्करः । दमयन्तीकुचकुम्भविभ्रमश्रवणान्न- त्रपां विहाय तस्यामासक्तचित्तोऽभूदित्यर्थः । तेन मनःसङ्गः उक्तः ॥ ४८ ॥ उस तन्वङ्गी ने यौवन द्वारा दो कुच-कलशों का नवीन उपहार पाकर, उन्हीं (तुम्बीरूपी ) उरोजों की सहायता से लज्जारूपी दुर्गम नदी को पार कर, नल के हृदय में प्रवेश किया ॥ ४८ ॥ अपह्नुवानस्य जनाय यन्निजामधीरतामस्य कृतं मनोभुवा । अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या शशाङ्ककोमला ॥४९॥ अथास्य जागरावस्थामप्याह-अपह्नुवानस्येति । निजामधीरतां = चपलत्वं, जनायापह्नुवानस्य = अपलपतः । 'श्लाघह्नुङ्स्था' इत्यादिना सम्प्रदानत्वाच्चतुर्थी । अस्य = नलस्य मनोभुवा = कामेन यत् = जागरप्रलापादिकं कृतं, तत् सर्वं [जागरदुःखसाक्षिणी ] जागरदुःखस्य साक्षिणी साक्षाद्द्रष्ट्री । 'साक्षाद्द्रष्टरि संज्ञायाम्' इति साक्षाच्छब्दादिनिप्रत्यये ङीप् । [ शशाङ्ककोमला ] शशाङ्केन कोमला रम्या, निशा = यामिनी, चाबोधि = बुद्धम् । 'दीपजन'इत्यादिना कर्त्तरि च्लेश्चिणादेशः । तथा शशाङ्कवत् कोमला मृदुला शय्या = चाबोधि । निशायां शय्यायां जागरणात्तयोस्तत्साक्षित्वमिति भाव ॥ ४६ ॥ लोगों से अपनी विकलता छिपानेवाले नल के साथ कामदेव ने जो कुछ किया उसे--चन्द्र के कारण रमणीक रात्रि तथा चन्द्रमा के समान कोमलशय्या ने ही- जाना ; क्योंकि ये दो उनकी जागरण-व्यथा की साक्षिणी थीं ॥४६॥ स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयामयाचत । त्यजन्त्यसूञ्शर्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम् ॥५०॥ ननु किमनेन निबन्धनेन, याच्यतां भीमभूपतिर्दमयन्तीम्, नेत्याह--स्मरे- त्यादि । भृशं = गाढं, स्मरोपतप्तः = कामसन्तप्तोऽपि प्रभुः = समर्थः स = नलः, विदर्भराजं = भीमनृपतिं, तनयां = दमयन्तीं, न अयाचत = न याचितवान् । 'दुहियाच्'इत्यादिना याचेर्द्विकर्मकता। मानिनः = मनस्विनोऽप्युच्चमनस्काः, असून् = प्राणान्, शर्म च = सुखञ्च त्यजन्ति । एतत्त्यागोऽपि वरं = मनाक् प्रियम्
२८ नैषधचरितम् । [ प्रथमः तु=किन्तु, एकम्=अद्वितीयम्, अयाचितव्रतम्=अयाञ्चानियमं तु न त्यजन्ति । मानिनां प्राणत्यागदुःखद्दुःसहं याच्ञाया ःखमिति भावः । सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासः ॥ ५० ॥ अत्यन्त काम-सन्तप्त होने पर भी सहनशील नल ने विदर्भ-नरेश से उनकी पुत्री दमयन्ती को नहीं माँगा ; क्योंकि मनस्वी पुरुष प्राण तथा सुख—इन दो को भले छोड़ दें, पर एक 'याच्ञा न करने' का व्रत नहीं छोड़ते ॥ ५० ॥ मृषाविषादाभिनयादयं क्वचिज्जुगोप निःश्वासततिं वियोगजाम् । विलेपनस्याधिकचन्द्रभागताविभावनाचापललाप पाण्डुताम् ॥५१॥ मृषेति । अयं = नलो वियोगजां = दमयन्तीवियोगजन्यां, निःश्वासततिं = निःश्वासपरम्परां, क्वचित् = कुत्रचिद्वस्त्वन्तरे विषये [ मृषाविषादाभिनयात् ] मिथ्याभूतदुःखस्याभिनयात् छलेन जुगोप = संववार । प्रियाविरहसन्तापसम्भूतं दीर्घनिःश्वासम्, आरोपितमनःपीडाव्यक्तीकरणादाच्छादयामासेत्यर्थः । तथा पाण्डुतां = विशदतां शरीरपाण्डिमानं च, सन्ततकान्ताचिन्तासमुत्पन्नं वर्ष्मशौक्ल्यं विलेपनस्य [ अधिकचन्द्रभागताविभावनाच्च ] चन्दनाधिकः चन्द्रभागः कर्पूरांशो यस्मिन् विलेपने । 'घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः । तस्य भावस्तत्ता यस्या विभावनादारोपणात् अपललाप = निह्नुते स्म ; शरीरवैवर्ण्यदृष्टृ- नपि चन्दने घनसाराधिक्यव्याजेन प्रतारयामासेत्यर्थः । अत्रापह्नवप्रभेदः ॥५१॥ किसी वस्तु के बारे में खेद का बहाना कर के, नल ने दमयन्ती विरहजन्य आहों की परम्परा छिपायी; और शरीर पीला होने का कारण यह कह कर छिपाया कि लेप किए जानेवाले चन्दन में कपूर की मात्रा अधिक हो गयी थी ॥५१॥ शशाक निह्नोतुमनैन तत्प्रियामयं बभाषे यदळीकवीक्षताम् । समाज एबालपितासु वैणिकैर्मुमुच्छ यत्पञ्चममूर्च्छनास्वपि ॥५२॥ शशाकेति । अयं = नलोऽलीकवीक्षितां = भ्रान्तिदृष्टां प्रियां = दमयन्तीं समाजे = सभायाम् एव यत् बभाषे = बभाण । [ वैणिकैः ] वीणा शिल्पमेषां तैर्वैणिकैः = वीणावादैः । 'शिल्पम्' इति ठञ् । आलपितासु = सूच्चरितासु, व्यक्तिं गतास्वित्यर्थः । 'रागव्यञ्जक आलाप' इति लक्षणात् [ पञ्चममूर्च्छनासु ] पञ्चमस्य पञ्चमाख्यस्य स्वरस्य, मूर्च्छनासु आरोहावरोहणेषु । 'क्रमात् स्वराणां सप्तानाम् आरोहिश्चावरोहिणं मूर्च्छनेत्युच्यते' इति लक्षणात् । पञ्चमग्रहणं तस्य
सर्गः १ ] जीवातु-मदयन्तिकासहितम् २९
- Digitized by Sarayu Trust Foundation and eGangotri - कोकिलालापकोमलत्वेन उद्दीपकत्वातिशयाविवक्षयेत्यनुसन्धेयम् । मुमूर्च्छेत्यापि यत्तदु- भयम् । अनेन प्रकारेण निह्नोतुम् = आच्छादयितुं शशाक । 'अये' इति पाठे, विषादे इत्यर्थः । “अये क्रोधे विषादे च'इति विश्वः । एतेन ह्रीत्यागोन्मादमूर्च्छा- वस्थाः सूचिताः ॥५२॥ नल ने भ्रान्ति के कारण देखी गयी प्रियतमा दमयन्ती से राजदरबार में जो कहा उसे इस प्रकार छिपाने में समर्थ हुआ:--वीणा बजानेवालों द्वारा पञ्चम स्वर राग-रागिनी के साथ गाये गये आलाप से मुग्ध दरबारी न सुन सके ॥५२॥ अवाप सापत्रपतां सम्भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः । असंवरै शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥५३॥ अवापेति । जितेन्द्रियाणां धुरि = अग्रे कीर्तितस्थितिः = ख्यातप्रतिष्ठः स भूपतिः = नलः तत्र = समाजे । न विद्यते संवरो यस्य तस्मिन् । असंवरै = संवर- णरहिते, संवरितुमशक्ये । 'गृधिवृषिनिश्रिगमश्च' इत्यप्रत्ययः । 'संवरणं संवरः शम- श्वेत्यपि ।' शम्बरवैरिविक्रमे = मनसिजविकारे क्रमेण स्फुटतामुपेयुषि = प्रकाशतां गते सति, सापत्रपतां = सलज्जताम् अवाप । धैर्यशालिनां तद्भङ्गस्त्रपाकर इति भावः ॥५३॥ जितेन्द्रिय-प्रवर लब्धप्रतिष्ठ नरपति नल राजसमाज में अपने कामविकार की बात को धीरे-धीरे प्रकट हुई जानकर, लज्जा के मारे गड़ गये ॥५३॥ अलं नलं रोद्धममी किलाभवन् गुणा विवेकप्रभवा न चापलम् । स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिंसर्ग ईदृशः ॥५४॥ ननु विवेकिनः कुत इदं चापलम् इत्यत आह-अलमिति । [ विवेक- प्रभवाः ] युक्तायुक्तविचारो विवेकः, तत्प्रभवा अमी गुणा धैर्यादयः, नलमिदं स्त्रीलाभरूपं चापलं रोद्धम् । 'दुह-याच्'इत्यादिना रुधेर्द्विकर्मकत्वम् । अलं= समर्था नाभवन् किल=खलु । तथाहि-स स्मर =कामः, जनमिति शेषः । रत्यां= रागे, अनिरुद्धं सृजति=अनीश्वरमवशं करोति । रत्यां=रतिदेव्यां अनिरुद्धाख्यं= कुमारं सृजति इति ध्वनिः । इति यत् अयं सर्गनिंसगः=सृष्टिस्वभावः, ईदृशः । 'रतिः स्मरप्रियायां च रागेऽपि च', 'अनिरुद्धः कामपुत्रे चारे चानीश्वरेऽपि च'इति विश्वः । अत्र स्मररागतुर्वारतायाः सर्वसृष्टिसाधारण्येन चापलदुर्व्वारतासमर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥५४॥
३० नैषधचरितम् । [ प्रथमः नल के विवेक-जन्य (धैर्य आदि) गुण भी उनकी कामचपलता को रोकने में समर्थ नहीं हुए; क्योंकि कामदेव (प्रद्युम्न) रति (अनुराग) होने पर, अ-निरुद्ध बना ही देता है। यही सृष्टि का धर्म (नियम) है ॥५४॥ अनङ्गचिह्नं स विना शशाक नो यदासितुं संसदि यत्नवानपि । क्षणं तदारामविहारकैतवान्निषेवितुं देशमियेष निर्जनम् ॥५५॥ अथास्य मनोरथसिद्धयौपयिकं दिव्यहंससंवादनिदानभूतं वनविहारं प्रस्तौति— अनङ्गेति । स=नैषधो नलो यत्नवानपि, अनङ्गचिह्नं=मूर्च्छाप्रलापादिस्मरविकारं विना, संसदि क्षणमप्यासितुं यदा नो शशाक, तदा आरामविहारकैतवाद्= उपवनविहरणव्याजात्, निर्जनं देशं निषेवितुम् इयेष=देशान्तरं गन्तुमैच्छदिति- त्यर्थः । एतेन चापलाख्ये सञ्चारिणि भ्रमणलक्षणोऽनुभाव उक्तः ॥५५॥ जब नल यत्न करने पर भी कामविकार के चिह्न प्रकट किए बिना संसद-भवन में क्षणभर बैठने में समर्थ न हुए तो उपवन-विहार के बहाने निर्जन स्थल में जाने के लिए तत्पर हुए ॥५५॥ अथ श्रिया भत्सितमत्स्यकेतनः समं वयस्यैः स्वरहस्यवेदिभिः । पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः ॥५६॥ अथेति । अथ=अनन्तरं, श्रिया=सौन्दर्येण भत्सितमत्स्यकेतनः=तिरस्कृत- स्मरः स नलः, स्वरहस्यवेदिभिः=निजभैमीरागमर्मज्ञैः । वयसा तुल्या वयस्याः स्निग्धाः । 'स्निग्धो वयस्यः सवयाः' इत्यमरः । तैः [वयस्यैः] समं=सह पुरोपकण्ठो- पवनं=नगरसमीपारामम् ईक्षिता = द्रष्टा । तृन्नन्तमेवैतत् । अत एव 'न लोके' इत्यादिना षष्ठीप्रतिषेधः । किल इत्यलीके । निदेशकारिणः=आज्ञाकरान्, यानाय= यानमानेतुमित्यर्थः । 'क्रियार्थ' इत्यादिना चतुर्थी । दिदेश=आज्ञापयामास ॥५६॥ इसके बाद अपने सौन्दर्य से कामदेव को अंगूठा दिखाने वाले नल ने—अपना रहस्य जाननेवाले हमजोली मित्रों के साथ—नगर के पास उपवन देखने की इच्छा से, नौकरों को सवारी लाने की आज्ञा दी ॥५६॥ अमी ततस्तस्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकम् । उपाहरन्नश्वमजस्रचञ्चलैः खुराञ्चलैः क्षोदितमन्दुरोदरम् ॥५७॥ अमी इति । ततः=आज्ञापनान्तरं, अमी=निदेशकारिणः तस्य विभूषितम्= अलङ्कृतं, जवेऽपि=वेगेऽपि, मानेऽपि=प्रमाणेष्वपि [पौरुषाधिकं] पौरुषात् पुरुषगति-
सर्गः १ ] जीवातू-मदयन्तिकासहितम् ३१ Digitized by Sarayu Trust Foundation and eGangotri वेगात् पुरुषप्रमाणात् चाधिकं । ‘ऊर्द्ध्वविस्तृतदोःपाणिन्माने पौरुषं त्रिषु'इत्यमरः । 'पुरुषहस्तिभ्यामण् च'इत्यण्प्रत्यय । अजस्रचञ्चलैः = अजस्रं चञ्चलैः चटुलस्वभावैः खुराञ्चलैः=शफाग्रैः क्षोदितं मन्दुरोदरं=चूर्णीकृताश्वशालाभ्यन्तरं । ‘वाजिशाला तु मन्दुरा'इत्यमरः । एतेनोत्तमाश्वलक्षणयुक्तं; सितं=श्वेतम् अश्वम् उपाहरन्= निन्युरित्यर्थः ॥५७॥ तब नौकर लोग उनका—सफेद, आभूषणों से अलङ्कृत, क़द में और वेग में पुरुष-प्रमाण से अधिक बली—घोड़ा ले आये। वह घोड़ा निरन्तर अपनी चञ्चल टापों से अस्तबल का फर्श खोदता रहता था ॥५७॥ अथान्तरेणावटुगामिनाध्वना निशीथिनीनाथमहःसहोदरैः । निगालगाद् देवमणेरिवोत्थितैर्विराजितं केसरकेशरश्मिभिः ॥५८॥ अथ सप्तभिः कुलकमाह—अथेत्यादि । अथ=आनयनानन्तरं, स नलः हयमारुरोहेत्युत्तरेणान्वयः । कथंभूतम् ? आन्तरेण = आभ्यन्तरेण अवटुगामिना =कृकाटिकाख्यमस्तकपृष्ठभाजा । 'अवटुर्घार्टा कृकाटिका'इत्यमरः । अध्वना=मार्गेण निगालगात् = गलोदेशात् । 'निगालस्तु गलोदेशः'इत्यमर । [देवमणेः] देवमणिः आवर्त्तविशेषः । 'निगालजो देवमणि'इति लक्षणात् । दिव्यमाणिक्यं च गम्यते । तस्माद् उत्थितैरिव = स्थितैरिव इत्युत्प्रेक्षा । निशीथिनीनाथमहःसहोदरैः = चन्द्रांशुसहशैरित्युपमा । [केसरकेशरश्मिभिः] केसरकेशा एव रश्मय इति रूपकं, तैर्विराजितम् ॥ ५८ ॥ उस घोड़े की गर्दन पर के बाल—चन्द्रमा की किरणों के समान चमकीले और देवमणि के समान घुंघराले बाहर की ओर निकले हुए मालूम पड़ते थे ॥५८॥ अजस्रभूमी तटकुट्टनोद्गतैरूपास्यमानं चरणेषु रेणुभिः । रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥५९॥ अजस्रेति । [अजस्रभूमी तटकुट्टनोद्गतैः] अजस्रेण भूमितटकुट्टनेन, उद्गतै- रुत्थितैः, रेणुभिः । [रयप्रकर्षाध्ययनार्थं] रयप्रकर्षस्य वेगातिशयस्य, अध्यय- नार्थम् अभ्यासाय, आगतैः, अणिमाङ्कितैः = अणुलत्वपरिमाणविशिष्टैः, जनस्य = लोकस्य चेतोभिरिव, इत्युत्प्रेक्षा । चरणेषु = पादेषु उपास्यमानं=सेव्यमानम् । अणुपरिमाणं मन इति तार्किकाः ॥ ५९ ॥ CC-0. Prof. Satya Vrat Shastri Collection. निरन्तर फर्श खोदने से उठी हुई धूल के कण—उसके चरणों की सेवा
३२ नैषधचरितम्। [ प्रथम करते थे जो ऐसा मालूम पड़ता था कि मानों उससे द्रुतगति सीखने के लिए आए हुए अणुपरिमाण रूप में लोगों के चित्त हों ॥ ५६ ॥ चलाचलप्रोथतया महाभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् । अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् ॥६०॥ चलाचलेति । पुनः, चलाचलप्रोथतया = स्वभावतः स्फुरमाणघोणतया 'चरिचलिपतिवदीनामुपसंख्यानम्' इत्यनेन चलेर्द्विर्वचनं दीर्घश्च । 'घोणा तु प्रोथम- स्त्रियाम्' इत्यमरः । महाभृते=नलाय, स्ववेगदर्पान् = वेगातिरेकान् वक्तुमुत्सुकम् = उद्युक्तम्, इव इत्युत्प्रेक्षा ! अथावचने हेतुमुत्प्रेक्षते-अलमिति । गिरा=उक्त्या, अलं कुतः ? अयं = नलः, स्वयं हयस्य = अश्वस्य आशयम् = अभिप्रायं वेद = वेत्ति, किल । 'विदो लटो वा' इतिणलादेशः । इति हेतोरित्येतदनुषङ्गः । मौनं = तूष्णीम्भावं च, आस्थितं = प्राप्तम् । 'अश्वहृदयवेदी नल' इति प्रसिद्धिः ॥६०॥ चलने के समय अपने नथुनों को फुलाता हुआ वह घोड़ा ऐसा मालूम होता था मानों अपने वेग के बारे में दर्पभरी बात कहने को उत्सुक हो; पर वाणी से क्या कहें ? क्योंकि नल स्वयं घोड़े के अभिप्राय को जानते हैं—इस लिए मौन धारण कर लिया ॥ ६० ॥ महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशःसितम् । रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमवतां रवेः ॥६१॥ महारथस्येति । महान् रथो यस्य तस्य महारथस्य । 'आत्मानं सारथिञ्चाश्वं रक्षन् युद्ध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ।' इत्युक्तलक्षणस्य रथिकविशेषस्येत्यर्थः । अन्यत्र, महारथो नलस्तस्य महारथस्य । [चक्रवर्तिनः] चक्रं राष्ट्रं वर्त्तयतीति चक्रवर्त्ती सार्वभौमः, तस्य नलस्य । 'हरिश्चन्द्रो नलो राजा पुरुः कुत्सः पुरूरवाः । सगरः कार्त्तवीर्य्यश्च षडेते चक्रवर्त्तिनः' इत्यागमात् । अन्यत्र, चक्रेणैकेन वर्त्तनशीलस्येत्यर्थः । अध्वनि=मार्गे, [परानपेक्षोद्वहनाद् यशःसितम् ] नापेक्षित इत्यनपेक्षं । 'पचाद्यच्' । परेषामनपेक्षं, तस्मादुद्वहनादसहायोद्वहनाद्धेतोः, यशःसितं कीर्त्तिविशदं, अत एव अनीदृशाम् = ईदृग्यशोरहितानाम् । 'सप्त युञ्जन्ति रथमेकचक्रम्' इति समानां सम्भूयोद्वहनश्रवणादिति भावः । रवेः=सूर्यस्य, अवताम् = अश्वानाम्, अन्तर्बलम् = अन्तःसारं, [रदावदातांशुमिषात्] रदानां दन्तानां, ये अवदाताः सिताह०तांशुभिषेण, हसन्तं = हसन्तमिव स्थितमित्यर्थः ।
सर्गः १ ] ३३ अत्र मिषशब्देनांशूनामसत्यत्वमापाद्य हासत्वोत्प्रेक्षणात् सापह्नवोत्प्रेक्षेयं गम्या च व्यञ्जकाप्रयोगात् । 'रदना दशना दन्ता रदाः' इत्यमरः ॥ ६१॥ वह घोड़ा-महारथी, चक्रवर्ती नल को-मार्ग में, बिना किसी दूसरे घोड़े की सहायता के--ले जाने के यश से सफेद था; और अपने दाँतों की निर्मल चमक के बहाने, मानों सूर्य के घोड़ों के आन्तरिक बल का उपहास करता था ॥६१॥ सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च । स्फुटं चलच्चामरयुग्मचिह्नकैरनिह्नुवानं निजवाजिराजताम् ॥ ६२॥ सितत्विष इति । पुनः कथम्भूतं ? सितत्विषः = विशदप्रभस्य, चञ्चलता- मुपेयुषः = चञ्चलस्येत्यर्थः । पुच्छस्य = लाङ्गूलस्य, केसरस्य = सटासमूहस्य च मिषेण = च्छलेन [चलच्चामरयुग्मचिह्नकः] चलत्श्चामरयुग्मस्य, चिह्नकैः लक्षणैः । स्फुटां = प्रसिद्धां, [ निजवाजिराजताम् ] निजां, वाजिराजताम् = अश्वेश्वरत्वम्, अनिह्नुवानं = प्रकाशयन्तमिव । अराजः कथं चामरयुग्ममिति भावः । पूर्ववद- लङ्कारः ॥ ६२ ॥ सफेद चमकवाली चञ्चल पूँछ और गर्दन पर के सफेद चञ्चल बाल के बहाने- राजचिह्नरूपी दो चँवरों से मानों वह अपने को 'अश्वराज' प्रकट कर रहा था ॥६२॥ अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया । उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥६३॥ अपीति । पुनः कथम्भूतं स्थितं ? रयस्मये = वेगप्रयुक्ताहङ्कारे, प्रसभं = प्रसह्य, जितस्य = प्रागेव निर्जितस्य, गरुत्मतः, [मुखानुषक्तायतवल्गुवल्गया] मुखानुषक्ता वक्त्रलग्ना, आयता दीर्घा, वल्गू रम्या च या वल्गा मुखरज्जुः तया, तन्मिषेणेत्यर्थः । [ द्विजिह्वाभ्यवहारपौरुषे ] द्विजिह्वानाम् अहीनाम्, अभ्यवहारे आहारे यत् पौरुषे सर्पभक्षणपुरुषकारेऽपि, प्रतिमल्लतां = प्रतिद्वन्द्विताम्, उपेयि- वांसं = प्राप्तम् इवेत्यर्थः । तथा च गम्योत्प्रेक्षेयं 'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः ॥६३॥ अपनी चाल की गर्व में, बलात् जीते गये गरुड के सर्पों के खाने के पौरुष में, वह घोड़ा-मुँह में लगी हुई सुन्दर और लम्बी लगाम (रूपी सर्प) से-गरुड की प्रतिद्वन्द्विता करता था ॥६३॥
An accurate, line-by-line transcription of the Sanskrit/Hindi text from the image:
३४ नैषधचरितम् । [ प्रथमः स सिन्धुजं शीतमहःसहोदरं हरन्तमुच्चैःश्रवसः श्रियं हयम् । जिताखिलक्ष्माभृदनल्पलोचनस्तमारुरोह क्षितिपाकशासनः ॥६४॥ स इति । [ जिताखिलक्ष्माभृत् ] जिता अखिलाः क्ष्माभृतो भूपा भूधराश्च येन सः । अनल्पलोचनः=विशालाक्षः, अन्यत्र बहुनेत्रः, सहस्राक्ष इति यावत् । स क्षितिपाकशासनः=क्षितीन्द्रो नलः, देवेन्द्रश्च । सिन्धुजं=सिन्धुदेशोद्भवं, समुद्रोद्भवञ्च । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । शीतमहः- सहोदरं=चन्द्रसवर्णमित्यर्थः, अन्यत्र चन्द्रभ्रातरम्, एकयोनित्वादिति भावः । उच्चैःश्रवसः=इन्द्राश्वस्य, श्रियं हरन्तं, तत्स्वरूपमित्यर्थः । तं हयम् । आरुरोह । अत्रोच्चैःश्रवसः श्रियं हरन्तमिवेत्युपमा । सा च श्लिष्टविशेषणात् श्लेषसङ्कीर्णा । क्षितिपाकशासन इत्यतिशयोक्तिः ॥ ६४ ॥ सिन्धु ( सिन्धुदेश, सागर ) में उत्पन्न हुए, चन्द्रमा के वर्ण ( सफेद, चन्द्र- भ्राता ) तुल्य और उच्चैःश्रवा की शोभा को मात करनेवाले घोड़े पर—अखिल राजोच्छेत्ता, विशाल नेत्रवाले, पृथ्वीतल के इन्द्र—नल सवार हुए ॥६४॥ निजा मयूखा इव तिग्मदीधितिं स्फुटारविन्दाङ्कितपाणिपङ्कजम् । तमश्ववारा जवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥६५॥ निजा इति । निजाः = आत्मीयाः, ॰प्रकाशरूपाः उज्ज्वलाकाराः, भास्वर- रूपाश्च । अश्वान् वारयन्तीत्यश्ववाराः=अश्वारोहाः । स्फुटारविन्दाङ्कितपाणिपङ्कजं = पद्मरखाङ्कितहस्तम् ; अन्यत्र पद्महस्तं । [ जवनाश्वयायिनं ] जवनो जव- शीलः । 'जुचङ्क्रम्य'इत्यादिना युच् । तेनाश्वेन, अन्यत्र तैरश्वैर्यातीति तथोक्तम् । [ मनुजेशं ] मनुजा मनोजार्ता मनुजा नरास्तेपामीशं राजानञ्ज, तं = नलं तिग्म- दीधितिं = सूर्यं मयूखा इव, अन्वयुः = अन्वगच्छन् । यातेर्लिट् झेर्जुसादेशः ॥ कमलरखाङ्कित कर-कमलवाले और वेगवान् घोड़े पर जानेवाले महाराज नल के पीछे, दीप्तिशाली घुड़सवार इस प्रकार चले—जैसे सूर्य के पीछे सूर्य की किरणें जाती हैं ॥ ६५ ॥ चलन्नलंकृत्य महारयं हयं स वाहवाहूचितवेषपेशलः । प्रमोद्दनिप्पन्दतराक्षिपक्ष्मभिर्व्यलोकि लोकैर्नगरालयैर्नलः ॥६६॥ चलन्निति । वाहवाह्योचितवेषपेशलः = अश्वावरोहोचितनेपथ्यचारुः । 'चारौ दक्षे च पेशलः' इत्यमरः । स नलो महारयम् = अतिजवं हयम् = अश्वम्,
सर्गः १ ] नैषधमहाकाव्यम् ३५ भलङ्कृत्य चलन्=स्वयं हयस्य भूषणीभूय गच्छन्नित्यर्थः । [ प्रमोदनिष्पन्दत- राक्षिपक्ष्मभिः ] प्रमोदेन निष्पन्दतराणि अत्यन्तनिश्चलानि, अक्षिपक्ष्माणि येषां तैः= अनिमेषदृष्टिभिरित्यर्थः । नगरालयैः = नगरनिवासिभिरित्यर्थः । लोकैः = जनैः व्यलोकि = विस्मयहर्षाभ्यां विलोकित इत्यर्थः । वृत्यनुप्रासोऽलङ्कारः ॥ ६६॥ घुड़सवारी के वेश से मनोहर और हवा से बात करनेवाले घोड़े पर जाते हुए नल को—नागरिक जनता हर्ष के कारण निर्निमेष दृष्टि से देख रही थी ॥६६॥ क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना । सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥६७॥ क्षणादिति । अथ = अनन्तरं क्षणदापतिप्रभः = चन्द्रद्युतितुल्यस्तथा पुरु- हूतपौरुषः = इन्द्रस्येव पौरुषं कर्म तेजो वा यस्य तादृश एष = नलः । [ प्रभञ्ज- नाध्येयजवेन ] प्रभञ्जनेन वायुना, अध्येयः शिक्षणीयः, जवो वेगो यस्य तथाविधेन, ततोऽप्यधिकवेगेनेत्यर्थः । वाजिना = अश्वेन, क्षणात् ताभिः = पूर्वोक्ताभिः, [जन- दृष्टिवृष्टिभिः ] जनानां दृष्टिवृष्टिभिः दृक्पातैः सह, जनैर्दृश्यमान एव इत्यर्थः । बहिःपुरः = पुराद्वहिः, बहिःस्थित अभूत् । बहिर्योगे पञ्चमी । पूर्वे पुरे दृष्टः, क्षणादेव पुराद्बहिर्दृष्ट इति वेगातिशयोक्तिः ॥ ६७ ॥ फिर निशानायक चन्द्र के समान कान्तिवाले और इन्द्र के समान पराक्रम- शाली नल—पवन भी जिस की तीव्रगति से शिक्षा ले सकता था ऐसी तेज चाल- वाले—घोड़े पर सवार होकर, मिनटों में लोगों की नज़र पड़ते-पड़ते, नगर के बाहर निकल गये ॥ ६७ ॥ ततः प्रतीक्ष प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृषामृधं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥६८॥ तत इति । ततः = पुराद्बहिर्गमनानन्तरं, प्रतीच्छ = गृहाण, प्रहर = जहि इति भाषिणी = भाषमाण इत्यर्थः । [ परस्परोल्लासितशल्यपल्लवे ] परस्पर- मन्योन्योपरि, उल्लसितानि प्रसारितानि, शल्यपल्लवानि तोमराग्राणि याभ्यां ते तथोक्ते । 'शल्यं तोमरम्' इति अमरः । नलस्य नासीरगते = नासिकाग्रवर्तिनि । 'सेना- मुखं तु नासीरम्'इत्यमरः । सादिबले=तुरङ्गसैन्ये, कुतूहलात् ,मृषामृध=मिथ्या- युद्धं, युद्धनाटकमित्यर्थः वितेनतुः = चक्रतुः । 'मृधमाहवं समानीकं' इत्यमरः ॥६८॥ वहाँ पहुँच कर 'लो मारो, मेरी भी मार सहो'—ऐसा कह कर उस सेना ने
३६ नैषधचरितम् । [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri एक दूसरे पर भाले की नोक चलायी ; इस प्रकार नल की सेना के अगले मोर्चे पर स्थित घुड़सवारों की दो टुकड़ियों ने-कुतूहल से नकली लड़ाई का अभ्यास किया ॥ प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव बाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥६९॥ प्रयातुमिति । इयं धरा = भूः, समुद्रातिरिक्तेति भावः । अस्माकं प्रयातुं = प्रस्थातुं कियत्पदं = गन्तव्यं स्थानं न किञ्चित् पर्याप्तमित्यर्थः । [ तदम्भोधि- रपि ] तस्माद् समुद्रोऽपि स्थलायतां = स्थलवदाचरतु, भूरेव भवत्वित्यर्थः । 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् प्रत्ययः । इतीव = इति मत्वेत्यर्थः । इतिनैव गम्यमानार्थ- त्वादप्रयोगः, अन्यथा पौनरुक्त्यात् । क्रियानिमित्तोत्प्रेक्षा । [ निजवेगदर्पितैः ] निजवेगेन दर्पितैः सञ्जातदर्पः, बाहैः = नलाश्वैः पयोधिरोधक्षमं = समुद्रच्छादन- पर्याप्तं, रज उत्थितम् = उत्थापितं, तथा सान्द्रमिति भावः ॥ ६६ ॥ 'हमारे चलने पर, यह पृथ्वी रह ही कितनी कदम जायगी--इस लिए समुद्र भी स्थल हो जाय।' ऐसा विचारकर, अपने वेग पर गर्व करनेवाले घोड़ों ने, मानों समुद्र को पाटने के लिए पर्याप्त, धूलि उड़ायी ॥ ६६ ॥ हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । त्रपा हरीणामिति नम्रिताननैर्न्यवर्ति तैरर्धनभःकृतक्रमैः ॥७०॥ हरेरिति । यत् खम् = आकाशं हरेः = विष्णोः, एककेन = एकाकिना 'एकादाकिनिच्चासहाये' इति चकारात् कन्प्रत्ययः । पदा = पादेन । 'पदङ्घ्रि- श्चरणोऽस्त्रियाम्' इत्यमरः । 'पद्दन्' इत्यादिना पदादेशः । अक्रामि = अलङ्घि, तस्य = खस्य चतुर्भिः पदैः क्रमणे = लङ्घने, कृते सत्यपीति शेषः । हरीणां = वाजिनां, विष्णूनां चेति गम्यते । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुका- हिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । उभयत्रापि नः = अस्माकं त्रपा इति वा इत्यर्थः । गम्यार्थत्वादिवशब्दस्याप्रयोगः । अत एव गम्योत्प्रेक्षा । [नम्रिताननैः] नम्रीकृतानिः, निम्रीकृतानि आननानि यै स्तैः=हरिभिः । [अर्धनभःकृतक्रमैः] अर्धे नभसि कृतक्रमैः कृतलङ्घनैः सद्भिः न्यवर्त्ति = निवर्त्तितम्, भावे लुङ् । यदन्येन पुंसा लघूपायेन साधितं तस्य गुरूपायेन करणं समानस्य लाघवाय भवेदिति भावः । एतेन प्लुतगतिरुक्ता, तत्र गगनलङ्घनस्य सम्भवादिति भावः ॥७०॥ CC-0. Prof. Satya Vrat Shastri Collection जिस आकाश को विष्णु ने (वामनावतार में) एक पग से आक्रान्त किया
सर्गः १ ] जीवातू-मदयन्तिकासहितम् । ३७ था, उसी (आकाश) को हम चार पैरों से आक्रान्त करेंगे—ऐसा सोचकर, घोड़े नीचा मुँह कर, आकाश में आधी दूर जाकर, रुक गये ॥७०॥ चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः । विहारदेशं तमवाप्य मण्डलीमकारयन् भूरि तुरङ्गमानपि ॥७१॥ चमूचरा इति । तस्य नृपस्य, चमूचराः=सेनाचराः । 'चरेष्टन्' । सिन्धु- देशभवाः सैन्धवाः = अश्वाः । 'हयसैन्धवसप्तयः' इत्यमरः । 'तत्र भवः' इत्यण्- प्रत्ययः । तत्सम्बन्धिनोऽपि सैन्धवाः 'तस्येदम्' इत्यण् । ते सादिनः = अश्वसादिन इत्यर्थः । जिनोक्तिषु श्राद्धतया इव = जैनदर्शनश्रद्धालुतयैवेत्युत्प्रेक्षा । 'श्रद्धा- चाँवृत्तिभ्योऽणः'इतिमत्वर्थीयोऽणप्रत्ययः । तं विहारदेश = सञ्चारभूमि, सुगाताल- यञ्च । 'विहारो भ्रमणे स्कन्धे लीलायां सुगतालये'इति विश्वः । अवाप्य तुरङ्गमान् भूरि = बहुलं मण्डलीमपि = मण्डलाकारं च, अकारयन् । अपिशब्दोऽवाप्ति- समुच्चयार्थः । अन्यत्र मण्डलीं मण्डलासनमित्यर्थः । बौद्धाः स्वकर्मानुष्ठाने प्रायेण मण्डलानि कुर्वन्ति इति प्रसिद्धिः ॥७१॥ उस राजा के सिन्धुदेशीय घोड़ों के सवार सैनिकों ने—जिस प्रकार बुद्ध के उपदेश पर श्रद्धा करनेवाले अपने विहार (बौद्धमठ) में आकर, मण्डलाकार खड़े हो जाते हैं—उसी प्रकार विहार (विहारभूमि) में पहुँचकर, घोड़ों को मण्डला- कार खड़ा कराया ॥७१॥ द्विषद्विरेवास्य विलङ्घिता दिशो यशोभिरेवान्धिरकारि गोष्पदम् । इतीव धारामवधीर्य मण्डलीक्रियाश्रियामण्डि तुरङ्गमैः स्थली ॥७२॥ द्विषद्विरिति । अस्य = नलस्य द्विषद्विरेव, पलायमानैरिति भावः । दिशो विलङ्घिताः, अस्य यशोभिरेवान्धिः । गोः पदं गोष्पदमकारि = गोष्पदमात्रः कृतः । 'गोष्पदं सेवितासेवितप्रमाणार्थे'इति सुडागमषत्वयोर्निपातः । इतीव = इति मत्वा इवेत्युत्प्रेक्षा; अन्यसाधारणं कर्म नोत्कर्षाय भवेदिति भावः । तुरङ्गमैः धारां= गतिं । जातावेकवचनं; पञ्चापि धारा इत्यर्थः । 'आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् । गतयोऽमूः पञ्च धाराः'इत्यमरः । अवधीर्य = अनादृत्य मण्डली- क्रियाश्रिया = मण्डलीकरणलक्ष्म्या, मण्डलगत्यैवेत्यर्थः । स्थली = कृत्रिमा भूः । 'जानपद'इत्यादिना कृत्रिमार्थे ङीप् । अमण्डि = अभूषि । मडि भूषणायमिति धातोर्ण्यन्तात् कर्मणि लुङ्-०, इदित्त्वान्नुमागमः ॥७२॥
३८ नैषधचरितम् । [ प्रथमः इनके शत्रुओं ने माँगकर, दिशाओं का उल्लङ्घन किया है, इनके यश ने सागर को गौ के खुर के समान (गड़ही) बना दिया है-ऐसा विचारकर, घोड़ों ने अपनी (टेढ़ी-मेढ़ी) चाल छोड़कर, उस स्थल को मण्डलाकार खड़े होकर, अलंकृत किया ॥ अचीकरच्चारुहयेन या भ्रमीर्निजातपत्रस्य तलस्थले नलः । मरुत् किमद्यापि न तासु शिक्षते वितत्य वात्यामयचक्रचंक्रमान् ॥७३॥ अचीकरदिति । नलः [ चारुहयेन ] चारु यथा भवति तथा हयेन प्रयो- ज्येन कर्त्रा । निजातपत्रस्य, तलस्थले = अधःप्रदेशे । 'अधः स्वरूपयोरस्त्री तलम्' इत्यमरः । याः भ्रमीः = मण्डलगतीः अचीकरत् = कारितवान् ; करोतेर्णौ चङ् । तासु = भ्रमीषु विषये मरुन् अद्यापि । [ वात्यामयचङ्क्रमान् ] वातानां समूहो वात्याः, वातादिभ्यो यः । अत्र तन्मयो लक्ष्यन्ते । तन्मयान् तद्रूपान्, चक्र- चंक्रमान् मण्डलगतीः, वितत्य = विस्तीर्य न शिक्षते किं ? = नाभ्यस्यते किमित्यु- त्प्रेक्षा । शिक्षितश्चेत् तथा सोऽपि गतिं कुर्यादित्यर्थः । वायोरप्यसम्भाविता गतीरची- करदिति भावः ॥७३॥ नल ने अपने राजछत्र के नीचे सुन्दर घोड़े द्वारा जो मण्डल गति करायी, उसको पवन अब भी आँधीके रूपमें गोल-गोल घूमकर क्या नहीं सीख रहा है ? ॥ विवेश गत्वा स विलासकाननं ततः क्षणात् क्षोणिपतिर्धृतीच्छया । प्रवालरागच्छुरितं सुषुप्सया हरिर्घनच्छायमिवाम्भसां निधिम् ॥७४॥ विवेशेति । ततः स क्षोणीपतिः क्षणाद्गत्वा धृतीच्छया = सन्तोष- काङ्क्षया । [ प्रवालरागच्छुरितं ] प्रवालाः पल्लवाः; अन्यत्र विद्रुमाः । 'प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे' इत्यमरः । तेषां रागेणारुण्येन, छुरितं रूपितं । घनच्छायं = सान्द्रानातपम्, अन्यत्र मेघकान्तिम् । 'छाया त्वनातपे कान्तौ'इति विश्वः । विलासकाननं = क्रीडावनम्; अन्यत्र वबयोरभेदात्, बिलासकानां बिलेश- यानां सर्पाणाम् , आननं प्राणनं । सुषुप्सया = स्वप्तुमिच्छया, हरिः = विष्णुः, अम्भसां निधिम् = अब्धिम्, विवेश ॥७४॥ जिस तरह विष्णु--मूँगे के रङ्ग से व्याप्त और मेघ की कान्तिवाले सागर में सर्पराज की पीठ पर शयन की अभिलाषा से जाते हैं,उसी तरह राजा नल सन्ताप दूर करने के लिए लाल-लाल पल्लवों की कोरों से रञ्जित और घनी छायावाले विलास-कानन में क्षणमात्र में जाकर पहुँचे ॥७४॥
सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ३९ वनान्तपर्यन्तमुपैत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे । न्यवर्त्ति दृष्टिप्रकरैः पुरौकसामनुव्रजद्वन्धुसमाजबन्धुभिः ॥७५॥ वनान्तेति । अनुव्रजद्वन्धुसमाजबन्धुभिः = स्नेहादनुगच्छद्बन्धुसङ्घसदृशैरित्यर्थः । अत एवोपमालङ्कारः । पुरौकसां = नगरनिवासिनां दृष्टिप्रकरैः = दृष्टिसमूहैः कर्तृभिः । वनान्तपर्यन्तं = काननोपान्तसीमाम्; उदकप्रान्तपर्यन्तञ्चेति गम्यते । 'वने सलिलकानने' इत्यमरः । सस्पृहं = साभिलाषं यथा तथा उपेत्य = गत्वा; क्रमेण तस्मिन् = नले अवतीर्णदृक्पथे = अतिक्रान्तदृष्टिविषये सति । न्यवर्त्ति = निवृत्तं । भावे लुङ् । यथा बन्धुभिः 'उदकात् प्रियं पान्थमनुव्रजेत्' इत्यागमात् प्रवसन्त- मनुव्रज्य निवर्त्त्यते तद्वदित्यर्थः ॥७५॥ तब पीछे पीछे जानेवाले आत्मीयजनों के तुल्य नगर-निवासियों की आँखें— प्रेमपूर्वक वन की छोर तक जाकर, नल के नजरों से ओझल होने पर—क्रमशः लौटीं ॥ ७५ ॥ ततः प्रसूने च फले च मञ्जुले स सम्मुखीनाङ्गुलिना जनाधिपः । निवेद्यमानं वनपालपाणिना व्यलोकयत् काननरामणीयकम् ॥७६॥ तत इति । ततः = वनप्रवेशानन्तरं, स जनाधिपः = नलः, मञ्जुले = मनोज्ञे प्रसूने = कुसुमे च फले च विषये, [सम्मुखीनाङ्गुलिना] सम्मुखीना सन्दर्शिनी, सम्मुखावस्थितवस्तुप्रकाशिकेति यावत् । 'यथामुखसम्मुखस्य दर्शनः खः'इति खप्रत्य- यान्तो निपातः । तादृशी अङ्गुली यस्य तेन । वनपालपाणिना निवेद्यमानम् ; इदमिदमित्यङ्गुल्या पुष्पफलादिनिर्देशेन प्रदर्श्यमानमित्यर्थः । काननरामणीयकं = वनसौन्दर्यम् । 'योपधाद्गुरूपोत्तमद्वुञ्' इति वुञ्प्रत्ययः । व्यलोकयत् =अपश्यदिति स्वभावोक्तिः ॥७६॥ फिर नल ने सुन्दर फूलों और फलों से लदे हुए उपवन की शोभा देखी—जिसे माली ने सामने अंगुलि करके दिखाया ॥७६॥ फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते । स्थितैः समाधाय महर्षिवाङ्मुखाद्वने तदातिथ्यमशिक्षि शाखिभिः॥७७॥ फलानीति । [ वयोऽतिपातोद्गतवातवेपिते ] वयोऽतिपातेन पक्षिपातेन, बाल्याद्यपगमेन च, उद्गतेन उत्थितेन, वातेन वायुना वातदोषेण च, वेपिते कम्पिते । 'खगबाल्यादिनोर्वयः' इत्यमरः । पल्लवे एव करे इति समस्तं रूपकं । फलानि
४० नैषधचरितम्। [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri पुष्पाणि च समाधाय = निधाय स्थितैः = तिष्ठद्भिः वने शाखाभिः = वृक्षैः, वेदशाखाध्यायिभिश्च । ‘शाखाभेदे द्रुमे शाखा वेदेऽपि’ इति वैजयन्ती । तदातिथ्यं = तस्य नलस्यातिथ्यम् अतिथ्यर्थं कर्म । ‘अतिथेर्यः’ इति ण्यप्रत्ययः । [ महर्षि- वार्द्धकात् ] महर्षीणां वार्धकाद्वृद्धसमूहात्, तत्रत्यवृद्धमहर्षिसङ्घादित्यर्थः । शिवभाग- वतवत्समासः । ‘वृद्धसङ्घे तु वार्द्धकम्’ इत्यमरः । ‘वृद्धाच्चेति वक्तव्यम्’ इति समूहार्थे वुञ् प्रत्ययः । अशिक्षि=शिक्षितमभ्यस्तम्; अन्यथा कथमिदमाचरितमिति भावः । कर्मणि लुङ् । उत्प्रेक्षेयं, सा च व्यञ्जकप्रयोगाद्गम्या । पूर्वोक्तरूपकश्लेषाभ्यामुत्थापिता चेति सङ्करः ॥७७॥ वन में स्थित वृक्षों ने-(वन में स्थित) महर्षि-वृद्धों से, पक्षियों के उड़ने से उत्पन्न हुई वायु से हिले हुए (अवस्था ढलने के कारण वातरोग से काँपते हुए), पल्लव रूपी हाथ (पल्लव के समान दृढ हाथ) में फल और फूल रख कर, मानों उस नल का अतिथि सत्कार करना सीखा ॥७७॥ विनिद्रपत्रावलिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनाज्जितम् । दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम्॥७८॥ विनिद्रेति । विनिद्रपत्रावलिगतालिकैतव त् = विकचदलावलिस्थितभृङ्ग- मिषात् । [ मृगाङ्कचूडामणिवर्जनाज्जितम् ] मृगाङ्कचूडामणेरीश्वरस्य कर्तुः, वर्ज- नेन परिहारेण, अर्जितं सम्पादितं । ‘न केतकया सदाशिवम्’ इति निषेधादिति भावः । आशासु, चरिष्णु=सञ्चरणशीलं । ‘अलङ्कृञ्’ इत्यादिना चरेरिष्णुच्प्रत्ययः । दुर्यशः = अपकीर्त्तिं, दधानं केतक = केतकीकुसुमं, तत्र = वने स = नलः कौतुकी सन् ददर्श । अर्हस्य महापुरुषस्य बहिष्कारो दुष्कीर्त्तिकर इति भावः । अत्राऽलिकैतवा- दित्यह्निवापह्नवेन तेषु दुर्यशस्त्वारोपादपह्नुत्यलङ्कारः । ‘निषेध्य विषये साम्यादन्या- रोपेऽपह्नुतिः’ इति लक्षणात् ॥ ७८ ॥ उपवन देखने की उत्कण्ठा वाले नल ने, वहाँ विकसित पत्तों की कतार पर बैठे हुए भौरों के बहाने, मृगाङ्कचूडामणि शिवजी के ऊपर न चढ़ने वाले और चारो दिशाओं में फैलने वाली अपनी बदनामी को धारण करने वाले, केतकी के फूल को देखा ॥७८॥ वियोगभाजां हृदि कण्टकैः कटैर्निधीयसे कर्णिकारः स्मरेण यत् । ततो दुराक्रपत्तया तदन्तकृद्दिगीयसे मन्मथदेहदाहिना ॥७९॥
An exact line-by-line transcription of the text from the image:
सर्गः १ ] जीवातू-मदयन्तिकासहितम् । ४१ Digitized by Sarayu Trust Foundation and eGangotri अथ त्रिभिः केतकोपालम्भमाह - वियोगेत्यादि । हे केतक !, यत् = यस्मात् त्वं स्मरेण वियोगभाजां हृदि, कण्टकैः = निजतीक्ष्णावयवैः । कटुः = तीक्ष्णः, केतकविशेषणस्यापि कर्णीशरत्वं विशेषणविवक्षया पुंल्लिङ्गनिर्देशः, किन्तु उद्देश्य- विशेषस्य विधेयविशेषणत्वं क्लिष्टम् । कर्णवत् कर्णि प्रतिलोमशल्यं, तद्वान् शरः कर्णीशरः सन् निधीयसे । कण्टककटोः केतकस्य कर्णीशरत्वरूपणाद्रूपकालङ्कारः । ततः कर्णीशरत्वादिवद्दुराकर्षतया = दुरुद्धारतया, तदन्तकृत् = तेषां वियोगिनां मारकं, मन्मथदेहदाहिना = स्मरहरेण, विगीयसे = विगर्ह्यसे । द्वेष्यवत् द्वेष्योप- करणमप्यसह्यमेव, तदपि हिंस्रं चेत् किमु वक्तव्यमिति भावः । अत्रेश्वरकर्तृकस्य केतकी- विगर्हणस्य तद्गतवियोगिहिंस्रताहेतुकत्वोत्प्रे क्षणाद्धेतूत्प्रेक्षा, व्यञ्जकाप्रयोगाद्गम्या; सा चोक्तरूपकोत्थापितेति सङ्करः ॥ ७६ ॥ अरी केतकी ! जो तू कामदेव के द्वारा, वियोगियों के हृदय में नुकीले बाण की तरह, अपने काँटों से भीषण रूप में चुभा दी जाती हो और अन्त में काम-बाण न निकल सकने. के कारण वियोगियों की प्राणान्तकारिणी हो जाती हो तभी तो काम- देव के नाश करने वाले शिवजी तुम्हारी निन्दा करते हैं ॥ ७६ ॥ त्वदग्रसूचीसचिवः स कामिनोर्मनोभवः सीव्यति दुर्यशःपटौ । स्फुटञ्च पत्रैः करपत्रमूर्तिभिर्वियोगिहृद्दारुणि दारुणायते ॥८०॥ त्वदिति । [ त्वदग्रसूचीसचिवः ] तवाग्राण्येव सूच्यः सचिवाः सहकारिणो यस्य स तथोक्तः । स = प्रसिद्धो मनोभवः [ कामिनोः ] कामिनी च कामी च कामिनौ तयोः । 'पुमान् स्त्रिया'इत्येकशेषः । [ दुर्यशःपटौ ] दुर्यशांसि अपकीर्त्त- यस्ताः पटाविति रूपकं । तानि सीव्यति=कण्टकच्यूतं करोतीत्यर्थः । किञ्चेति चार्थः । स्फुटं = स्पष्टं करपत्रमूर्त्तिभिः = क्रकचारैः । 'क्रकचोऽस्त्री करपत्रम्'इत्यमरः । पत्रैस्तैः, [ वियोगिहृद्दारुणि ] वियोगिनां हृद्येव दारुणि । दारयतीति दारुणो विदारको भेत्ता । स इवाचरतीति दारुणायते । 'कत्तुः क्यङ् सलोपश्च'इति क्यङ- न्तात् लट् । दारुणायत इत्युपमा; सा च हृद्दारुणीति रूपकानुप्राणितेति सङ्करः ॥ ( अरी केतकी ) तुम्हारे काँटे रूपी सूई के सहारे, वह कामदेव कामी तथा कामिनी के दुर्यशरूपी दो वस्त्रों को बुनता है और तुम्हारे स्पष्ट आरे के तुल्य पत्तों से वियोगियों के हृदयरूपी काठ पर आरा चलाया करता है ॥ ८० ॥ धनुर्मधुस्विम्वकरीडति भीमजापरं परागैस्तव धूलिहस्तयन् ।
४२ नैषधचरितम् । [ प्रथमः प्रसूनधन्वा शरसात्करोति मामिति क्रुधाऽक्रुश्यत तेन केतकम् ॥८१॥ धनुशिति । हे केतक ! प्रसूनं धनुर्र्यस्येति प्रसूनधन्वा पुष्पचापः । 'वा संज्ञा- याम्' इत्यनङादेशः । अत एव [ धनुर्मधुस्विन्नकरः ] धनुषो मधुना मकरन्देन, स्विन्नकरः आर्द्रपाणिः सन्, अत एव तव परागैः=रजोभिः, धूलिहस्तयन् = पुनः पुनः धूत्युद्भावितहस्तमात्मानं कुर्वन्; अन्यथा धनुस्संसनादिति भावः । तत्करोतेर्ण्य- न्ताल्लटः शत्रादेशः । अति भीमजापरम् = अतिमात्रं दमयन्त्यासक्तं, मां शरसात् शराधीनं करोति । 'तदधीने च'इति सातिप्रत्ययः । अन्यथा स्रस्तचापः मां किं कुर्या- दिति भावः । इतीत्थं श्लोकत्रयोक्तिरिति । तेन = राज्ञा इति क्रुधा केतकमा- क्रुश्यत = अपराधोद्घाटनेन आक्रोश्यातेत्यर्थः ॥ ८१ ॥ ( अरी केतकी ) पुष्पवाणधारी कामदेव-पुष्पमय धनुष में से रिसते हुए रस से गीले हाथवाला होकर भी, तुम्हारी ( फूल की) धूलि के समान पराग से हाथ मलकर, दमयन्ती के प्रति अत्यन्त आसक्त हुए मुझे अपने बाण का निशाना बनाता है। इस प्रकार क्रोधपूर्वक नल ने केतकी के फूल की लानत-मलामत की ॥८१॥ विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवाऽपश्यदलं तपस्यतः । फलानि धूमस्य धयानधोमुखान् स दाडिमे दोहदधूपिनि द्रुमे ॥८२॥ विदर्भेति । स = नलः । 'तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादितं द्रव्यं दोहदं स्यात्तु तत्क्रिया'इति शब्दार्णवे । [ दोहदधूपिनि ] दोह- दश्चासौ धूपश्च । तदुक्तं-मेषामिपाम्बुसंसेकस्तत्केशामिप्रधूपनम् । श्रेयानयं प्रयोगः स्यात् दाडिमीफलवृद्धये । मत्स्याज्यत्रिफलालेपैर्मासैराजाविकोद्भवैः । लेपिता धूपिता सूते फलं तालीव दाडिमी । आविक्राथेन संसिक्ता धूपिता तत्रोमभिः । फलानि दाडिमी सूते सुबहूनि पृथुनि च इति । तद्वति दाडिमे द्रुमे फलानि [ विदर्भसु- भ्रूस्तनतुङ्गताप्तये ] विदर्भसुध्रुवो दमयन्त्याः, स्तनयोर्या तुङ्गता, तदाप्तये ताह- गौन्नत्यलाभायेत्यर्थः । अलम् = अत्यर्थं तपस्यतः = तपश्चरतः । 'कर्मणो रोमन्थ- तपोभ्यां वर्त्तिचरोः'इति क्यङ्प्रत्यये 'तपसः परस्मैपदञ्च' वक्तव्यं । धूमस्य = दोहदधूमस्य धयन्तीति धयान् = पातॄन् , धेट्पाने अत्र'आतश्चोपसर्गे' इति उपसर्गग्रहणं नानुवर्ति पश्चात् 'पा घ्रा' इत्यादिनाऽनुपसृष्टादपि धेटः शप्रत्यय इति गतिः । अत एव काशिकायां 'केचिदुपसर्ग इति नानुवर्त्तयन्ति'इति अधोमुखान् घटान् इव । अपश्यत् , इत्युत्प्रेक्षा, महोदरेण इत्थं उग्रं तपस्यन्तीति भावः ॥ ८२ ॥
सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ४३ जिस में फल अधिक आने के लिए धूप दी जाती थी-ऐसे अनार के पेड़ में नल ने फल लगे हुए देखे । जो ऐसे प्रतीत होते थे मानों विदर्भकुमारी दम- यन्ती के स्तनों का औन्नत्य प्राप्त करने के लिए, धुँआ पीकर और नीचे की ओर मुँह कर के, घड़े (कलश) तपस्या कर रहे हों ॥ ८२ ॥ वियोगिनीमैक्षत दाडिमीमसौ प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् । फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥८३॥ वियोगिनीमिति । असौ=नलः प्रियस्मृतेः=दमयन्तीस्मरणादिव स्पष्टं व्यक्तम् । उदीतेति ईङ्गताविति धातोः कर्त्तरि क्तः । [ उदीतकण्टकम् ] उदीरिताः उद्गताः कण्टकाः स्वावयवसूचय एव कण्टका रोमाञ्चा यस्यास्तामिति श्लिष्टरूपकम् । 'वेणौ- द्रुमाङ्गे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः' इति वैजयन्ती । फलस्तनस्थानविदीर्णरागि- हृद्विशच्छुकास्यस्मरकिंशुकाशुगां = फलान्येव स्तनौ तावेव स्थानं, तत्र विदीर्णो रागो यस्यास्तीति रागि, रक्तवर्णमनुरक्तञ्च, यत्तस्मिन् हृदि, विशत् बीजभक्षणान्तः- प्रविशत् शुकास्यरूपं शुकतुण्डमेव, स्मरस्य किंशुकं पलाशकुङ्मलमेवाशुगो बाणो, यस्यास्तां । दाडिमीमेव वियोगिनीं = विरहिणीम्, ऐक्षत = अपश्यत् । रूपका- लङ्कारः । विः पक्षी, तद्योगिनीमिति च गम्यते ॥ ८३ ॥ जिस प्रकार वियोगिनी नायिका अपने प्रियतम की सुधि कर के, रोमाञ्चित हो जाती है और उससे स्तनस्थल के बीच में चुभने का अनुभव करती है, उधर कामदेव रागि (अनुरक्त) हृदय में लाल टेसू के बाण से विदीर्ण करता है ; उसी प्रकार नल ने (वियोगिनी नायिका की भाँति दाडिमी (अनारप्रेयसी) को देखा- जिसके शरीर कण्टकित थे ( मानो अपने प्रियतम की सुधि कर के रोमाञ्चित हो रही हो), जिस के गोल आकार मानो उरोज थे, जिस के रागि (प्रियतम पर अनुरक्त) हृदय (भीतर के लाल-लाल दाने) को सुग्गे अपनी चोंच से विदीर्ण कर रहे थे (मानो कामदेव ने अपने टेसू के बाणों से उसे विदीर्ण किया हो) ॥८३॥ स्मरार्द्धचन्द्रेषुनिभे कृशीयसां स्फुटं पलाशोऽध्वजुषां पलाशनात् । स बृन्तमालोकत् खण्डमन्वितं वियोगिहृत्खण्डिनि कालखण्डजम्॥८४॥ स्मरार्द्धेति । स = नलः [स्मरार्द्धचन्द्रेषुनिभे] स्मरस्य योऽर्द्धचन्द्रः, अर्द्ध- चन्द्राकार इषुस्तन्निभे तत्सदृशे, नित्यसमासत्वादस्वपदविग्रहः । अत एवामरः- 'स्युरुत्तरपदे त्वमी-निभ-सङ्काश-नीकाश-प्रतीकाशोपमादयः' इति । [ वियोगि-
४४ नैषधचरितम् । [ प्रथमः हृत्खण्डिनि ] वियोगिनां हृत्खण्डिनि हृदयवेधिनि, क्रशीयसां = कृशतराणाम् अध्वजुषां = अध्वगामिनाम् । पलाशनात् = मांसभक्षणात्, पलाशो पलमश्नन्तीति व्युत्पत्त्या पलाशसंज्ञाभाजि, किंशुककलिकायामित्यर्थः । अन्वितं = सम्बद्धं स्फुटम् वृत्तं = प्रसवबन्धनं, तदेव कालखण्डजं खण्डं यकृत्खण्डमिति व्यस्तरूपकम् । आलोकित = आलोकितवान् । 'कालखण्डं यकृत्समम्' इत्यमरः । तच्च दक्षिणपार्श्वस्थः कृष्णवर्णो मांसपिण्डविशेषः ॥ ८४ ॥ नल ने कामदेव के अर्द्धचन्द्र बाण के समान एवं वियोगियों के हृदय को टुकड़े-टुकड़े करनेवाले 'पलाश' में वृत्त देखा । (जिसके देखने से) स्पष्ट हो रहा था कि वह अतीव दुर्बल विरही बटोहियों के यकृत् (जिगर) में चिपका हुआ मांस खण्ड है (इसीसे उसका पलाश नाम पल = मांस, का अशन करनेवाला हुआ)॥८४॥ नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुङ्मला दरादराभ्यां दरकम्पिनी पपे ॥८५॥ नवेति । गन्धवहेन = वायुना चुम्बिता = स्पृष्टा; अन्यत्रानुलिप्तेन पुंसा वीक्षिता। मकरन्दसीकरैः = पुष्परसकणैः । करम्बिताङ्गी = व्यामिश्रितरूपा; अन्यत्र स्विन्ना- ङ्गीति च गम्यते । [स्मितशोभितकुङ्मळा] स्मितशोभिनः विकासम्यः, कुड्मला मुकुला रदनाश्च यस्याः सा मन्दहासमधुरदन्तमुकुला च गम्यते। दरकम्पिनी = वायु- स्पर्शादीषत्कम्पिनी; सात्त्विकवेपथुमती च । नवा, लता = वल्ली, तत्सदृशी कान्ता च गम्यते । नृपेण = कर्त्रा । दृशा करणेन । दरादराभ्यां = भयसृष्णाभ्यां उपलक्षितेन सता । पपे = पीता; गाढं दृष्टा इत्यर्थः । उद्दीपकत्वात् दरः, प्रियासादृश्यादादरश्च। 'दरोऽस्त्री शङ्काभीगर्त्तष्वल्पार्थे त्वव्ययम्' इति वैजयन्ती । अत्र प्रस्तुतविशेषणसाम्या- दप्रस्तुत नायिकाप्रतीतेः समासोक्तिरलङ्कारः । 'विशेषणस्य तौल्येन यत्र प्रस्तुतवर्णनात् । अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यते' इति लक्षणात् ॥ ८५ ॥ वायु (इत्र, कपूर सुगन्ध लगाये हुए नायक) से चुम्बित (स्पृष्ट, चुम्बन की गयी) पुष्परस के कणों से व्याप्त अङ्ग वाली (पसीने से लथपथ शरीरवाली), मन्द मुस्कि राहट के समान सुन्दर कली वाली (मन्द मुस्कराहट से सुन्दर दाँत वाली) और ज़रा-ज़रा हिलनेवाली (नायक स्पर्श के कारण काँपने वाली) नव लता (न बालता = तरुणी) को राजा नल ने दर (डर) और आदर के साथ नेत्रों द्वारा पान किया॥८५॥ विचिन्वती पान्थपतङ्गहिंसनेरपुण्यकर्माण्यलिकज्जलच्छलात् ।