नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 160, कुल 258 में से
संदर्भ में पढ़ें१४० नलचम्पूः । माद्यद्दन्तिकपोलपालिविगलद्दानाम्बुसिक्तद्रुमाः क्रीडत्क्रोडकुलार्थचर्वितपतन्मुस्तारसामोदिताः । अन्तः सुस्थितपान्थसन्थरमरुल्लोलल्लतामण्डपाः कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः ॥३४॥ इतश्च पश्यतु देवः । एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सङ्गरङ्गत्तरङ्गा संभोगश्रान्ततीराश्रयशबरवधूशर्मदा नर्मदा च । यस्याः सान्द्रद्रुमालीगलिततलमिलत्सुन्दरीसंनिरुद्धैः सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ३५ अपिच । अन्तरेऽप्यस्याः मज्जत्कुञ्जरकुम्भमण्डलगलद्दानाम्बुनः सौरभा- द्भ्राम्यद्भृङ्गकुलावलीः कुवलयश्रेणीः समाविभ्रतः । कल्लोलाः कलिकालकल्मषमुषः प्रोल्लोललीलाकृतः खःसोपानपरंपरा इव वियद्वीथीमलंकुर्वते ॥ ३६ ॥ इतश्चास्यास्तीरे अंससंसिजलार्द्रजर्जरजटाजूतैर्मनाङ्कन्थरा- स्तिम्यत्तारवतन्तुनिर्मितकुथत्कौपीनमात्रच्छदाः । शीतोत्कण्टकितास्थिशेषतनवः स्नात्वोत्तरन्तः शनै- रेते पश्य पतन्ति पिच्छिलशिलाजाले जरत्तापसाः ॥३७॥ इतोऽपि पश्यैताः करिकुम्भसंनिभकुचद्वन्द्वोल्लसद्वीचयः क्रीडन्त्यब्जविकाशभासि पयसि स्वैरं पुलिन्दस्त्रियः । माद्यदिति ॥ मुस्तायाः कन्दविशेषस्य रसेन निर्यासेनामोदिताः । अन्त- र्मध्ये सुस्थिताः पान्था यासु । तथा मन्थरमरुता मन्दानिलेन लोलन्तश्चलन्तो लता मण्डपा यासु । पश्चात्कर्मधारयः ॥ ३४ ॥ मज्जदिति ॥ भृङ्गकुलानां कुवलयान्युपमानम् । विभ्रत इति कल्लोलविशेषणं जसन्तम् । ‘नाभ्यस्ताद्–’ इति नुमभावः ॥ ३६ ॥ अंसेति ॥ तरुषु जातास्तारवाः । ते च ते तन्तवश्च । पिच्छिलं मसृणं कर्द- मिलम् ॥ ३७ ॥ १ ‘विन्ध्यशैलस्थल’। २ ‘यस्याः’। ३ ‘गण्ड’। ४ ‘मृत’। ५ ‘तीरेषु’। ६ ‘विकास’ ।