भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 161, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 161

पञ्चम उच्छ्वासः । १४१ उन्मीलन्नवनीलनीरजधिया पक्ष्मान्तरे नेत्रयोर्यासां हस्तलैताहता अपि परिभ्राम्यन्ति भृङ्गाङ्गनाः ॥ ३८ ॥ इतोऽप्यवलोकयतु देवः । बालोन्मीलत्कुवलयवनं विस्तरद्गन्धरुद्ध- भ्राम्यद्भृङ्गैरनुकृतपयःपूर्णमेघान्धकारम् । हर्षात्पश्यत्ययमतितरां तीरचारी मयूरो मुग्धः पार्श्वे भ्रमति च॑ भयाच्चक्रवच्चक्रवाकः ॥ ३९ ॥ इदं च कुररभरसहं सहंसमालं मुदितमयूरचकोरचक्रवाकम् । क इह सुरुचिरं चिरं विलोक्य प्रवरमते रमते नरो न रोधः ॥ ४० ॥ इतश्च । बककृतनिनदं नदं न दम्भा- त्कृतसवनं सवनं भजन्त एते । निरुपमविभवं भवं स्मरन्तः प्रशमधना मुनयो नयोपपन्नाः ॥ ४१ ॥ विधूतपाप्मानः खल्वमी महानुभावाः ॥ क ॥ तथाहि । बालेति ॥ विस्तरता प्रसरता गन्धेन रुद्धाः । अतएव भ्राम्यन्तो भृङ्गास्तैर- नुकृतः पयःपूर्णमेघोऽन्धकारश्च येनेति वनविशेषणम् । मेघाद्धि मयूरस्य हर्षः । अन्धकाराच्च रात्रिशङ्कया चक्रवाकस्य भयम् ॥ ३९ ॥ कुररेति ॥ प्रवरा मतिर्यस्य तत्संबोधनम् । इह रोधस्तटं विलोक्य को नरो न रमते क्रीडत्येव सर्वः । कथंभूतम् । कुरराणां भरमतिशयं सहते । तथा सह हंसमालया तथा मुदिता मयूराश्चकोराश्चक्रवाकाश्च यत्र । यतः सुष्ठु रुचिरम्॥४०॥ बकेति ॥ प्रशम एव धनं येषां ते मुनयो नययुक्ताः । अनुपमसामर्थ्यं भव- मीश्वरं स्मरन्तो बकैः कृतशब्दम् । तथा न दम्भात्कपटादपि तु धर्मवासनया कृतं सवनं स्नानं यत्र तम् । तया सह वनैः सवनं वनयुक्तम् । नदं जलाधारविशेषम् । एते भजन्ते ॥ ४१ ॥ १ 'तलाहता'. २ 'तु'.