नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 171, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १५१ किमु न स्मरति देवो दिविं विश्रुतमर्थसारं स्वर्लोकादवतीर्य पुरा गीतं गन्धर्वगायनैर्गीतगोष्ठीस्थितस्याग्रे युगलमिदमार्ययोर्देवस्य ॥ क ॥ कचिदपि कार्यारम्भेऽकल्पः कल्याणभाजनं भवति । न तु पुनरधिकविषादान्मन्दीकृतपौरुषः पुरुषः ॥ ५५ ॥ अपहस्तितान्तरायानर्थानुररीकृतान्प्रसाधयतः । विधिरपि बिभेति तस्मान्निरतिशयं साहसं यस्य ॥ ५६ ॥ एवमनेकधा प्रस्तुतपुराणपुरुषाख्यानप्रपञ्चप्रक्रमेणातिक्रान्ते भूम्नि दिवसे मङ्गलोद्गार इव वाञ्छितार्थसिद्धेः, तर्जनहुंकार इवान्तरायाणा- म्, ओंकार इवोत्साहस्मृतेः, पुण्याहध्वनिरिव हृदयप्रसादप्रासादस्य, पुनर्नवीकृतानुरागस्तम्भोत्तम्भनस्य तस्य नरपतेः शिश्राय श्रुतिं श्रुतशी- लेन श्रावितमिममेवार्थं समर्थयन्निव मध्याह्नशङ्खध्वनिः ॥ ख ॥ राजा तु तमाकर्ण्य विसर्जितपरिजनस्तत्रैव पुलिनमध्ये मध्याह्नसम- यसमुचितव्यापारमकरोत् ॥ ग ॥ अनन्तरमतिक्रान्तेषु केषु चिन्मुहूर्तेषु गगनमध्यतलाद्विलम्बमाने मनाङ्मार्तण्डमण्डले चण्डवात्याहतशुष्कपत्रमिव दण्डप्रान्तप्रचलित- कुलालचक्रमिव तेन पुरंदरादेशभ्रमेण भ्रान्तमात्मनो मनः क्वाप्येका- न्तकमनीयनर्मदाप्रदेशदर्शनविनोदेन स्वस्तीकर्तुमिच्छन्निच्छानुकूलक- तिपयाप्तपरिजनपरिवृतः श्रुतशीलस्कन्धावष्टम्भविहारो विहाय दूरमिव शिविरसंनिवेशम्, इतस्ततस्तरुणतमालमण्डपमण्डलितमयूरहारिणा चलचकोरचक्रवाकचक्रवालवलयितेन स्नानागततापसपदपङ्क्तिखर्वि- तदूर्वाङ्कुरेणापसरतपयःपूरतरङ्गितवालुकेन पुलिनप्रान्तेन प्राचीं दिशम- यासीत् ॥ घ ॥ तत्र च चटुलचञ्चरीककुलाकुलितविविधवीरुधां तलेषु विचरतोऽस्य । रसातलविनिर्गताः पन्नगाङ्गना इव नागमदहारिण्यस्तमालकन्दलीकोम- लाङ्गयष्टयः श्रोणीभारालसगमनास्त्रिवलीतरङ्गिततनुमध्यलतिकाः, का- क्वचिदिति ॥ कल्पोऽनिर्विण्णः । तु पुनरिति शब्दौ संभूयवाचकत्वात्पुनर- र्थमेव द्योतयतः यथापिचेति समुच्चयः ॥ ५५ ॥ तत्र चेति ॥ चटुलालिकुलाकुलितवीरुन्मूलेषु विचरतो नृपतेर्दृष्टिपथमवतीर्णा किरातकामिन्यश्चिरं चिक्कीडुरिति संबन्धः । कथंभूताः । नागमदेन गजमदजलेन हारि- १ 'दिवि श्रुत'. २ 'गन्धर्वगीयमानं गीत'; 'गन्धर्वैः समापन्नैः'. ३ 'स्मृतिरिव'. ४ 'तस्येति नास्ति'. ५ 'प्रियाय'. ६ 'ध्वनिरुदियाय'. ७ 'तरङ्गितधवलवालुकेन'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA