नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 172, कुल 258 में से
संदर्भ में पढ़ें१५२ नलचम्पूः । श्रितकण्ठकन्दलावलम्बितमातङ्गमौक्तिकलताः स्फुरन्नक्षत्रवलयाः कृ- ष्णपक्षरात्रय इव कृतक्रीडाशरीरपरिग्रहाः, काश्चिदुभयश्रवणावसक्त- दन्तिदन्तपत्रप्रभाधवलितमुखमण्डलाः सुरसरित्सलिलसंवलितकालि- न्दीजलदेवता इव नर्मदेयामन्त्रिताः, काश्चित्परिधानीकृतरक्तपल्लवास्त- डि़ल्लतालेखामेखलाश्चलदम्बुवाहपङ्क्तय इव विन्ध्यस्कन्धानुबन्धिन्यः, काश्चिन्मातङ्गमदमण्डलमिलन्मधुकरकरालिताः सकलनीलोत्पलवन- लक्ष्म्य इवान्यजलाशयेभ्यो महानदीमवतरन्त्यः, काश्चिल्लोहिताशोकै- कुसुमस्तबककृतकर्णावतंसोत्तंसास्त्रिपुरपुरंध्रय इव हरशरानलज्वाला- कुलितशिरसो धूमश्यामलाः सलिलमनुसरन्त्यः, काश्चिल्ललितलीलास्मृ- गैरनुगम्यमानाः शरीरवत्योऽञ्जनशैलस्थलाधिदेवता इव तीर्थावगाह- नानुरागिण्यः, काश्चिज्जराजर्जरशबरकञ्चुकिकरावलम्बलीलागामिन्यः स्फुरदिन्द्रनीलशिलापुत्रिका इवेन्द्रजालिकैः संचार्यमाणाः कृष्णाञ्ज- निकाकुसुमकान्तयः, काँश्चिच्चिपिटनासाः कुन्दकान्तदन्तपङ्क्तयो मायू- रपिच्छगुच्छावनद्धकर्बुरकबरीकलापाश्चलद्वलयमुखरकरतलोत्तालता- लिकारम्भरमणीयरसिकरासकक्रीडानिर्भराः काँदम्बमधुपानघूर्णित- दृशो दृष्टिप्रथमवतेरुरपराह्णमज्जनागतास्तरुणकिरातकामिन्यः ॥ क ॥ ततश्च ताः सूक्ष्ममुक्ताफलधवलवालुकापुलिनपृष्ठे लब्धपरभागाः स्वैरं स्वैरमनुच्चचरणचलनक्रमात्केंकारितनूपुररवाकृष्टकलहंसकुलमना- कुलकलगीततरङ्गासन्नरञ्जितकुरङ्गमनङ्गभावभूयिष्ठमनुभूय तीरविहा- रसुखम्, अनन्तरमक्रूरजलचरमवेगवहत्सलिलमुत्फुल्लविविधविकसि- ण्यस्तेनालंकृतत्वात् । पन्नगाङ्गनासु नागानां वासुकिप्रभृतीनां मदं गर्वं हरन्ति मुञ्च- न्ति कृतक्रीडाशरीरपरिग्रहा मूर्ता रात्रयः सनक्षत्रा इव। मुक्तानां नक्षत्राणि स्त्रीणां रात्रय उपमानम् । दन्तपत्रप्रभाणां सुरसरित् स्त्रीणां कालिन्द्युपमानम् । रक्तपल्ल- वानां तडिल्लता स्त्रीणामम्बुवाहपङ्क्तिरुपमा । लोहिताशोककुसुमानां हरशरासन- ज्वाला स्त्रीणां च श्यामलेन धूम उपमा । कृष्णाञ्जनिका तापिच्छलता ॥ क ॥ ततश्चेति ॥ अम्बुजजातिभिर्जीविता जीवंजीवाः पक्षिविशेषा यत्र । 'शेषा- १ 'संकलित'; 'संमिलित'. २ 'नर्मदामन्विताः'. ३ 'तडिल्लेखा'; 'तडिल्लववेखा'. ४ 'अशोककुलकुसुम'. ५ 'धूमश्यामलाः'. ६ 'काश्चित्किंचिच्चिपि'. ७ 'मयूर'. ८ 'कादम्बरी'. ९ 'कृष्टहंस'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA