भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

१५२ नलचम्पूः । श्रितकण्ठकन्दलावलम्बितमातङ्गमौक्तिकलताः स्फुरन्नक्षत्रवलयाः कृ- ष्णपक्षरात्रय इव कृतक्रीडाशरीरपरिग्रहाः, काश्चिदुभयश्रवणावसक्त- दन्तिदन्तपत्रप्रभाधवलितमुखमण्डलाः सुरसरित्सलिलसंवलितकालि- न्दीजलदेवता इव नर्मदेयामन्त्रिताः, काश्चित्परिधानीकृतरक्तपल्लवास्त- डि़ल्लतालेखामेखलाश्चलदम्बुवाहपङ्क्तय इव विन्ध्यस्कन्धानुबन्धिन्यः, काश्चिन्मातङ्गमदमण्डलमिलन्मधुकरकरालिताः सकलनीलोत्पलवन- लक्ष्म्य इवान्यजलाशयेभ्यो महानदीमवतरन्त्यः, काश्चिल्लोहिताशोकै- कुसुमस्तबककृतकर्णावतंसोत्तंसास्त्रिपुरपुरंध्रय इव हरशरानलज्वाला- कुलितशिरसो धूमश्यामलाः सलिलमनुसरन्त्यः, काश्चिल्ललितलीलास्मृ- गैरनुगम्यमानाः शरीरवत्योऽञ्जनशैलस्थलाधिदेवता इव तीर्थावगाह- नानुरागिण्यः, काश्चिज्जराजर्जरशबरकञ्चुकिकरावलम्बलीलागामिन्यः स्फुरदिन्द्रनीलशिलापुत्रिका इवेन्द्रजालिकैः संचार्यमाणाः कृष्णाञ्ज- निकाकुसुमकान्तयः, काँश्चिच्चिपिटनासाः कुन्दकान्तदन्तपङ्क्तयो मायू- रपिच्छगुच्छावनद्धकर्बुरकबरीकलापाश्चलद्वलयमुखरकरतलोत्तालता- लिकारम्भरमणीयरसिकरासकक्रीडानिर्भराः काँदम्बमधुपानघूर्णित- दृशो दृष्टिप्रथमवतेरुरपराह्णमज्जनागतास्तरुणकिरातकामिन्यः ॥ क ॥ ततश्च ताः सूक्ष्ममुक्ताफलधवलवालुकापुलिनपृष्ठे लब्धपरभागाः स्वैरं स्वैरमनुच्चचरणचलनक्रमात्केंकारितनूपुररवाकृष्टकलहंसकुलमना- कुलकलगीततरङ्गासन्नरञ्जितकुरङ्गमनङ्गभावभूयिष्ठमनुभूय तीरविहा- रसुखम्, अनन्तरमक्रूरजलचरमवेगवहत्सलिलमुत्फुल्लविविधविकसि- ण्यस्तेनालंकृतत्वात् । पन्नगाङ्गनासु नागानां वासुकिप्रभृतीनां मदं गर्वं हरन्ति मुञ्च- न्ति कृतक्रीडाशरीरपरिग्रहा मूर्ता रात्रयः सनक्षत्रा इव। मुक्तानां नक्षत्राणि स्त्रीणां रात्रय उपमानम् । दन्तपत्रप्रभाणां सुरसरित् स्त्रीणां कालिन्द्युपमानम् । रक्तपल्ल- वानां तडिल्लता स्त्रीणामम्बुवाहपङ्क्तिरुपमा । लोहिताशोककुसुमानां हरशरासन- ज्वाला स्त्रीणां च श्यामलेन धूम उपमा । कृष्णाञ्जनिका तापिच्छलता ॥ क ॥ ततश्चेति ॥ अम्बुजजातिभिर्जीविता जीवंजीवाः पक्षिविशेषा यत्र । 'शेषा- १ 'संकलित'; 'संमिलित'. २ 'नर्मदामन्विताः'. ३ 'तडिल्लेखा'; 'तडिल्लववेखा'. ४ 'अशोककुलकुसुम'. ५ 'धूमश्यामलाः'. ६ 'काश्चित्किंचिच्चिपि'. ७ 'मयूर'. ८ 'कादम्बरी'. ९ 'कृष्टहंस'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १५३ ताम्बुजजातिजीवितजीवंजीवकमुक्तकूजितकुररमारसितसारसमुन्मद्- हासिहंसावतंसमुरःप्रमाणाच्छोदकमतिरमणीयं ह्रदमवातरन् ॥ क ॥ अवतीर्य च ताः काश्चित्पन्नगपतिपुरंध्रय इवोद्गीर्णविषगण्डूषाः, काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिपिश्यसनिन्यः, काश्चिद्गोपालाङ्गना इव गृहीतपुण्डरीकाक्षाः, काश्चित्कार्तिकेयशरपङ्क्तय इव विश्लेषितक्रौ- ञ्चाः, काश्चित्कुरुसेना इव धार्तराष्ट्रशकुनिमार्गेणानुधावमानाः, काश्चि- द्रात्रय इव विघटितचक्रवाकमिथुनाः, काश्चिच्चकोराङ्गना इव चञ्चूकृ- तदीर्घकमलनालैः शशधरकरनिर्मलजलमास्वादयन्त्यः, काश्चित्करिण्य इव सरसविसाग्राणि प्रसमानाः काश्चिज्जलयन्त्रपुत्रिका इव संपुटित- मुखपाणिपल्लवयुगलाग्ररन्ध्रोन्मुक्तसूक्ष्मवारिधाराः, काश्चिद्भीरुनार्य इव प्रियवारितरणाः, स्तनगण्डशैलशिखरास्फालनोल्लसत्तरङ्गान्तरतरत्तरु- णतामरसरससुरभिसलिलमवगाहमानाश्चिरं चिक्रीडुः ॥ ख ॥ अवनिपतिरपि विस्मयविस्मृतनिमेषोन्मेषनयनस्ताश्चिरमवलोक्यं चिन्तयांचकार ॥ ग ॥ 'जातिर्यत्र न तत्र रूपरचना नेत्रोत्सवारम्भिणी रूपश्रीरपि यत्र तत्र सुलभः श्लाघ्यो न जन्मोदयः । इत्येकस्थसमस्तसुन्दरगुणप्रद्वेषमभ्यस्यतो धातस्तात वृथाश्रमस्य भवतः सृष्टिकमो दह्यताम् ॥ ५७ ॥ द्विभाषा' इति कप् । अम्बुजजातिरेव जीवितं येषामिति वा । अतिप्रियत्वात् । उरःप्रमाणं वक्षोदघ्नमुदकं यत्र । अगाधे हि पयसि न जलक्रीडा ॥ क ॥ अवतीर्येति ॥ विषं जलं, गरञ्च । पक्षोत्पलं रक्ताब्जं, रक्तेनोत्कृष्टं पलं मांसं च। गृहीतपुण्डरीके अवलोकितसिताम्बुजे अक्षिणी यासाम्। चक्षुषो हि ग्रहण- मवलोकनमेव । यथा श्रोत्रपानमाकर्णनम् । अथवा शैल्यान्नेत्रन्यस्ताब्जाँः । अन्यत्र पुण्डरीकाक्षः कृष्णः क्रौञ्चः पक्षी गिरिश्च । धृतराष्ट्रो दुर्योधनस्य पिता, शकुनिर्मा- तुलः। पक्षे धृतराष्ट्रो हंसः । यद्विश्वः—'धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियभेद- योः' । शकुनिः पक्षी । अचञ्चूनि चञ्चूनि कृतानि चञ्चूकृतानि । अन्यत्र चञ्च्वां कृतानि धृतानि यानि दीर्घकमलनालानि तैः शशधरकरनिकरवन्निर्मलं जलम् । अन्यत्र किरणनिकर एव निर्मलजलम् । चकोर्यो हि चन्द्रकरान्पिवन्ति । प्रियं वारिणो जलस्य तरणं यासाम् । अन्यत्र वारितो निषिद्धो रणो यकाभिः । ता वारितरणाः, प्रियाणं वारितरणाः प्रियवारितरणाः ॥ ख ॥

  • यद्वा गृहीत आत्तः पुण्डरीकाणामक्षो बीजकोशो याभिस्ता इति बृहट्टीका ॥ १ 'नागपति', २ 'गोपाङ्गना इव'. ३ 'धृतराष्ट्र'. ४ 'पुत्तिकाः'. ५ 'लोक्य चिरं'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५४ नलचम्पूः । तथाहि । ग्रीवालम्बितपद्मनाललतिकाः कर्णावतंसीकृत- प्रत्यग्रोन्मिषितासितोत्पलदलैः संदिग्धनेत्रद्वयाः । कस्यैता जलदेवता इव कुचप्राग्भारभुंग्रोर्मयः स्नानासक्तपुलिन्दराजवनिताः कुर्वन्ति नोत्कं मनः ॥ ५८ ॥ अपि च । एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठ- द्दुग्धाभगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि । दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं को वान्य‍ोऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥५९॥ इयं तु निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् । दष्टाधरा तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ६० ॥ अनयापि अविरतमिदमम्भः स्वेच्छयोच्छालयन्त्या विकचकमलकान्तोत्तानहस्तद्वयेन । परिकलित इवार्घः कामबाणातिथिभ्यः सलिलमिव वितीर्णं बाल्यलीलासुखाय ॥ ६१ ॥ अस्याश्च कर्णमूलविषये मृदु गुञ्जन्पाणिपल्लवहतोऽपि हठेन । एष षट्पदयुवा हरिणाक्ष्याश्चुम्बति प्रिय इवास्यसरोजम् ॥६२॥ इतोऽप्येषा भ्रमकरं मकरं मकरन्दिनीं कमलिनीमलिनीमलिनीकृताम् । तरलयन्तमवेक्ष्य महाभया- दुदतरत्सरितस्त्वरितैः पदैः ॥ ६३ ॥

एतस्या इति ॥ मौक्तिकसरो मुक्तादाम ॥ ५९ ॥ भ्रमकरमिति ॥ मकरन्दोऽस्त्यस्यां मकरन्दिनीम् । तथा अलिनीभिर्भृङ्गी- भिर्मलिनीकृतां कमलिनीं तरलयन्तं क्षिपन्तं भ्रमकरमावर्तकरं मकरं यादोवि-

१ 'भग्नो' । २ 'बाल' ।

पञ्चम उच्छ्वासः । १५५ एताश्च मन्दायते दिनमिदं मदनोऽपि सज्ज- स्तत्किं न गच्छत गृहानिति पद्मिनीभिः । मीलत्सरोजगतभृङ्गरुतैरिवोक्ताः स्नात्वा शनैरनुसरन्ति तटं तरुण्यः' ॥ ६४ ॥ एवमनेकविधविलासासक्तशबरसुन्दरीदर्शनाह्लादपुलकिते विवि- धवितर्ककारिणि पङ्कनिमग्नरजत्करेणुकायमाननिःस्पन्ददृशि तत्काल- मुत्पन्नया मनाङ्जन्मथव्यथया धीरतया च स्पृहया च विचिकित्स- या च जिघृक्षया च जिहासया च समकालमाकुलितहृदये संकीर्ण- भावभाजि राजनि, राजीववनविराजिते तस्मिन्नर्मदाह्रदे सलिलक्रीडा- सुखमतिचिरमनुभूय तीरभुवि सेव्यसितसैकतस्थलीमलं कुर्वाणासु च तासु शवरराजसुन्दरीषु श्रुतशीलश्चिन्तितवान् ॥ क ॥ 'उन्मादि यौवनमिदं शवराङ्गनानां देवोऽप्ययं नववयाः कमनीयकान्तिः । रेवातटं चलचकोरमयूरहारि किं स्यान्न वेद्मि जयिनी च मनोभवाज्ञा ॥ ६५ ॥ तथाहि । विकलयति कलाकुशलं, हसति शुचिं, पण्डितं विडम्बयति । अधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ ६६ ॥ अपि च । मध्ये त्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् । छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ६७ ॥ तद्वस्तु प्रस्तुतसानुनयेनैव प्रभूणां मतयो निवर्त्यन्ते निषिद्धनिषे- वणात्, न प्रतिकूलतया' इत्यवधारयन्नवनिपेन्तिमवादीत् ॥ ख ॥ शेषं विलोक्य यदुत्पन्नं महाभयं तस्मात्त्वरितैरुत्तालैः पादक्रमैरसौ शबरसुन्दरी सरित उत्तीर्णा ॥ ६३ ॥ विकलयतीति ॥ अधरयति विधुरयतीत्यर्थः ॥ ६६ ॥ तदस्त्विति ॥ निषिद्धस्य निषेवणं सेवनमाग्रहस्तस्मात्सकाशात् प्रभूणां मतयः प्रकृतरसानुमत्तैव व्यावयंन्ते, न प्रतिकूलतया हठात् निषिद्धस्यानभि- जातसंगमादेराग्रहं कुर्वाणः प्रभुः सहायसंपदानुजीविना निवार्यः । परं तदभि- १ 'मत्तिभुवि', २ 'मध्यत्रिव', ३ 'अवन्तिपाल'.

१५६ नलचम्पूः । 'देव, रमणीयः खल्वयं प्रदेशः ॥ क ॥ तथाह्यत्र आह्लादयन्ति मृदवो मृदितारविन्द- निष्पन्दमन्दमकरन्दकणान्किरन्तः । एते किरातवनितास्तनशैल¹गण्ड- संघट्टजर्जररुचः सरितः समीराः ॥ ६८ ॥ एताश्च उपनदि पुलिने पुलिन्दवध्वः स्तनपरिणाहविनिर्जितेभकुम्भाः । शिथिलितसलिलार्द्रकेशबन्धाः किमपि मनोभववैभवं वहन्ति ॥ ६९ ॥ इतश्चावलोकयतु देवः । सरसिजमकरन्दामोदमत्तालिगीत- श्रवणसुखनिमीलच्चक्षुषः किंचिदेते । अपि दिवसमशेषं निश्चलाङ्गाः कुरङ्गाः पुलिनभुवि विहाराहारवन्ध्या वसन्ति ॥ ७० ॥ इतोऽपि पद्मान्यातपवारणानि नलिनीपत्राणि पर्यङ्किका दोलान्दोलनदोहदोऽपि³ च चलद्वीचीचयैः पूर्यते । आहारो बिसपल्लवं⁴, पुलिनभूर्लीलाविहारास्पदं रेवा²वारिणि राजहंसशिशवस्तिष्ठन्ति धन्याः सुखम् ॥७१॥ इहापि चिरविरचितचाटुश्चन्द्ररेखायमाणः प्रथमरसबिसाग्रग्रासलीलार्पणेन । इह रमयति हंसीं राजहंसो रिरंसुः पुलकयति च चञ्चूकोटिकण्डूयनेन ॥ ७२ ॥ मतं प्राक् पुरस्कृत्य दोषं च दर्शयित्वा । सहसा निवार्यमाणो हि पराभवमिव मन्येत ॥ ख ॥ सरसिजेति ॥ अपिर्भिन्नक्रमे ततोऽशेषमपि दिवसमित्यर्थः ॥ ७० ॥ पद्मानीति ॥ अत्रातपत्रप्रभृतयो राजधर्मा राजहंसशिशुषूद्भावनीयाः ॥७१॥ १ 'स्तनगण्डशैल'. २ 'रवाः'; 'ऱ्याः'; 'जवाः'. ३ 'दोहदोऽपि विचल'. ४ 'पल्लवाः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १५७ अपि च । इह चरति चकोरः कोरकं पङ्कजाना- मिह चलदलिचक्राच्चक्रवाको बिभेति । इह रमयति जीवंजीवको जीवितेशा- मिह वहति विकारं हारि हारीतकोऽपि ॥ ७३ ॥ एवमसौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वमपररमणीयप्रदेशान्तरद- र्शनव्याजेनान्तरितशवरसुन्दरीदिदृक्षाग्रहो गृहान्प्रति प्रत्यावृत्तः ॥क॥ चिन्तितवांश्च 'कथं नु सा दमयन्ती पुरंदरप्रमुखेषु लोकपालेष्वर्थिषु मया मनु- ष्यजन्मना लब्धव्येति । निवारयिष्यन्ति च तां खलु दिव्यसंबन्धा- र्थिनो बान्धवाः । तत्किमिह शरणम्' इति विमुक्तदीर्घनिःसहनिःश्वा- समसकृच्चिन्तयति राजनि 'राजन्, रामाजनः पद्म इव वारितः सुत- रां प्रवर्तते । नालमस्य दीर्घमनुरक्तस्य जायतेऽपरागो नाप्यलीकाभिनि- वेशोऽस्य हीयते । किंचान्यदन्यपरिग्रहवर्तिनीनामपि स्त्रीणामन्यत्रापि रागाग्रहो भवति । यतः पश्य वरुणप्रतिग्रहेऽपि प्रतीचियं मयि रागि- णी भविष्यति' इत्येवमिममाश्वासयन्निव भगवान्भानुरुत्तुङ्गतशिख- इह चरतीति ॥ प्रतिष्टमानभृङ्गवृन्दाच्चक्रवाको बिभेतीति तपस्विनीत्रान्वेति शेषः । जीवंजीवकः पक्षी जीवितेशां प्रियां रमयतीति संबन्धः ॥ ७३ ॥ कथं नु सेति ॥ इन्द्रादिवरेषु सत्सु मयि विषये कीदृगनुरागः, बन्धवो- ऽप्येनां दिव्यसंबन्धार्थित्वात्तेष्वेव प्रोत्साहयिष्यन्ति, इति चिन्तयति राज्ञि शनैः क्रमे- णाम्बरादवतीर्य भगवान्भानुः . पश्चिमामगात् । किं कुर्वन् । इमं नृपमित्यमुना प्रकारेणाश्वासयन्निव । तमेव प्रकारमाह-अहो राजंस्त्वया चेतसि नैतच्चिन्तनीयम् यद्दिव्यसंबन्धार्थिनो बन्धव एतां निवारयिष्यन्तीति तदेषास्मत्तो विरहतीति । यतो रामाजनो वारितो निषिद्धोऽतीव प्रवर्तते । तथाऽस्य स्त्रीजनस्य दीर्घमनुरक्तस्य बहुकालं सानुरागस्य सतोऽलमप्यर्थे न रागापायः स्यात् । तथास्यालीकोऽप्यभिनि- वेशो न हीयते । किं पुनर्यादृक्तव्यभिनिवेशः । यथा पद्मोऽब्जं वारितो जला- त्प्रवर्तते । तथास्य रक्तस्य सतो नालं काण्डं दीर्घमनु सह परागो मकरन्दः स्यात् । तथाली भृङ्गी कं जलं तयोरभिनिवेशः प्रवेशः सोऽप्यस्य न हीयते न हीनः स्यात् । किं चान्यदुच्यते । स्वीकृतानामपि स्त्रीणां पुरुषान्तरे रागानुबन्धः । यस्मात्संप्र- १ 'कथं सा दम'. २ 'स्यात्'. ३ 'वरुणपरिग्रहोऽपि'. ४ 'मय्यनुरागिणी'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५८ नलचम्पूः । राणि करैः पतनभयादिवावलम्बमानः शनैर्गगनतलादवतीर्य प्रतीचीं दिशमयासीत् ॥ क ॥ अम्बरान्तःप्रसारितकरे रागिणि रक्तया परियुक्ते तु पश्चिमककु- भाऽम्भोजिनीजीवितेश्वरे ॥ ख ॥ पूर्वाऽहं विहितोदयाहमसकृत्तन्मां विहायाधुना यस्यामस्तमुपैति तां कथमयं रागी जघन्यामगात् । इत्येवं श्लथितांशुके दिनपतौ याते दिशं पश्चिमा- मीर्ष्यारोषनिषादिनीव तमसा प्राची ककुल्लक्ष्यते ॥ ७४ ॥ विश्लेषाकुलचक्रवाकमिथुनैरुत्पीडमाक्रन्दिते कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्रे गते । शोकेनेव दिगङ्गनाभिरभितः श्यामायमानैर्मुखै- र्निःश्वासानलधूमवर्तय इवोद्गीर्णास्तमोराजयः ॥ ७५ ॥ तथाविधे च वेलाव्यतिकरे राज्ञः संध्यावसरमावेदयितुमस्यासन्न- विहारी हरिलीलाकिंनरमिथुनमिदमगायत्— ‘रक्तेनाक्तं विनिहितमधोवक्त्रमेतत्कपालं तारामुद्राः किमु कलयता कालकापालिकेन । संध्यावध्वाः किमु विलुलिता कौङ्कुमी शुक्तिरेवं शङ्कां कुर्वञ्जयति जलधावर्धममार्कबिम्बम्’ ॥ ७६ ॥ त्यपि पश्य त्वं वरुणस्वीकृतापि पश्चिमाशा ममापि विषये रागिणी *भविष्यतीति । पद्मशब्द उभयलिङ्गः ॥ क ॥ अम्बरान्तरिति ॥ नभोन्तःप्रसारितांशौ रक्ततान्विते रक्तया पश्चिमया दिशा युक्ते सत्यम्भोजिनीजीवितेश्वरे रवौ प्राच्या चिन्तितम् ॥ ख ॥ तदाह—पूर्वेति ॥ आद्याहम् । तथासकृद्विहितोदयाहं तस्माद्यस्यामस्तमेति जघन्या च निकृष्टा तामिमां रागी आरक्तः सन् रविर्र्मां विहाय कथमगात् । पश्चि- मां दिशं गते शिथिलांशावंशुमति विषये य ईर्ष्यारोषोऽसूयाकोपस्तस्माद्विषादिनी च सती पूर्वा दिक् तमसान्धकारेण लक्ष्यते । अन्यामपि प्रथमां कृतोदयां विहाय अस्तंकारिणीं निकृष्टां च यदा रागी विलासी याति, तदा तस्मिञ्शिथिलितवाससि पूर्वा स्त्रीर्ष्याविषादिनी तमसा तमोभावेन प्राप्यते ॥ ७४ ॥ विश्लेषेति ॥ उत्कृष्टा पीडा यत्रेत्युत्पीडमित्याक्रन्दक्रियाविशेषणम् ॥ ७५ ॥ रक्तेनेति ॥ अधस्तादुक्तं यस्य तदधोवक्त्रमधोमुखम् । तथा रक्तेन रुधिरेणाक्तं लिप्तम् । तत्तथाभूतं कपालं काल एव कापालिकस्तेन तारा नक्षत्राण्येव मुद्रा रुच- १ 'तां मां'. २ 'लभ्यते'. ३ 'रुत्पक्ष'. ४ 'कुत्रचिन्नास्ति'.

पञ्चम उच्छ्वासः । १५९ अथ क्रमेण गगनमन्दाकिनीतीरतापसैर्विकीर्यमाणेषु¹ संध्यार्घ्याञ्ज- लिजलविन्दुबुद्बुदेष्विव किंचिदुन्मीलत्सु विरलतरतारास्तवकेषु², वासर- विरामवादितवाद्येष्वमरसदनेषु, दह्यमानबहलधूपधूममञ्जरीष्विव वि- यति विहरन्तीषु तनुतिमिरवल्लरीषु, स्वप॑त्पतत्रिकुलकोलाहलेन³ वासार्थि- श्रान्तागताध्वगस्वागतालापमिव कुर्वाणासु वनराजिषु, अन्यत्र परिभ्र- मणपरिहारार्थमिव पद्मिनीनां कोशपानमाचरत्सु चञ्चलचञ्चरीकेषु, रत्युत्सवोत्साहावेशमहामन्त्राक्षरेष्विव श्रूयमाणेषु महोसरित्कूलकुला-⁴ यनिलीनजलकुक्कुटकुहरितेषु, रामायणव्यतिकरेष्विव मन्दोदरीप्रहस्त- प्रबोधितोत्सिक्तदशाननेषु संध्याप्रदीपेषु जाते जरत्कुम्भकारकुक्कुट- कुटुम्ब॑पक्षपिच्छविच्छा ये⁵ मनाक्तमोविद्धे संध्यारागे राजा विषाद्- विस्मृतसंध्याह्निकः परिजनानुबन्धात्संध्यां ववन्दे ॥ क ॥ ततश्च क्रमेण रजनिमवनिनाथः सांध्यकर्मावसाने हरचरणसरोजद्वन्द्वसेवां विधाय । मृदु कलितविपञ्चीपञ्चमप्रायगीत- श्रवणसुखविनोदैस्तां स तस्मिन्ननैषीत् ॥ ७७ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो- जाङ्काया पञ्चम उच्छ्वासः समाप्तः ॥ काष्ठ्यानि हस्तपादादीनामस्थ्याभरणानि कलयता युञ्जानेन किमु न्यस्तम् । किम्बि- ति वितर्के । किंवा संध्यैव या वधूस्तस्याः संबन्धिनी कौङ्कुमी शुक्तिर्विपरीतमधो- मुखी लुठिता । एवमित्थं शङ्कामुत्पादयत्समुद्रेऽर्धममार्कबिम्बं जयत्यधुना ॥ ७६॥ अथेति । कोशः कणिका शपथविशेषश्च । वयमन्यत्र न यास्याम इत्यर्थे पद्मि- नीनां समीपे कोशयानं कुर्वत्सु भृङ्गविलासिषु । क्षामोदरीप्रकृष्टपाणिज्वलिततैल- सिक्तवर्तिमुखेषु दीपेषु । रामायणसंपर्केषु तु मन्दोदरीनाम्न्या पत्न्या प्रहस्तेन सेनान्या प्रकर्षेण बोधित उत्सिक्तः उद्रिक्तः सन् दशाननो रावणो येषु तथा- भूतेषु । कुम्भकारः कुक्कुटः पक्षिविशेषः ॥ क ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे पञ्चम उच्छ्वासः समाप्तः ॥ १ 'विकीर्णेषु'. २ 'विचलं'. ३ 'स्वपतत्पतत्रि'; 'आपतत्पतत्रि'. ४ 'महेति नास्ति'. ५ 'कुटुम्बपिच्छच्छाये'.

१६० नलचम्पूः । षष्ठ उच्छ्वासः । अथ द्विजजननिकायकीर्णसंध्याञ्जलिजलैरिव क्षाल्यमाने मनाग्वि- मलतां व्रजति तिमिरमलिनेऽम्बरे, मालाकारेणेव प्रभातप्रमोद्भेदेनाव- चीयमानेषु गगनपुष्पवाटिकाकुसुमेष्विव नक्षत्रेषु, निद्रापहारहुङ्कार इवोत्थिते प्रभातभेरीध्वनौ, नरपतेः प्रबोधनार्थमदूरे वैतालिकः पपाठ ॥ क ॥ उदयगिरिगतायां प्राक्प्रभापाण्डुताया- मनुसरति निशीथे शृङ्गमस्ताचलस्य । जयति किमपि तेजः सांप्रतं व्योममध्ये सलिलमिव विभिन्नं जाह्नवं यामुनं च ॥ १ ॥ अपिच । यात्यस्ताचलमन्धकारपटले जातेऽरुणस्योदये तापिञ्छच्छदपद्मरागमहसोर्मध्यं ककुब्भागयोः । अथ द्विजेति ॥ अथ निशातिवाहनानन्तरम् । अम्बरं व्योम वस्त्रं च । व्यो- म्नः स्वभावस्वच्छस्यापि मालिन्यक्षालने भाक्ते । वस्त्रपक्षे तिमिरवन्मलिनम् ॥ क ॥ उदयेति ॥ उदयाद्रिगतप्रथमप्रभापाण्डिम्नि निशीथे चान्धकारेऽस्ताचलशृङ्गं गन्तुं प्रवृत्ते किमपि सर्वोत्कृष्टं तेजो जयति । तत्र कविरुत्प्रेक्षते—सांप्रतमिदानीं नभोमध्ये जाह्नवं गाङ्गं, यामुनं च कालिन्दीयं, सलिलं विभिन्नं संगतमित्यर्थः । व्योम्नि जाह्नव्येवासीत् । यमुनायाः संभेदः सांप्रतमेव । अत एवास्मिन्वृत्ते ‘यमु- नात्रिविक्रमः’ इति नाम कविरवापत् । तथाच—‘प्राच्याद्विष्णुपदीहेतोरपूर्वोऽयं त्रिविक्रमः । निर्ममे विमलं व्योम्नि यत्पदं यमुनामति’ । प्रभया पाण्डुता प्रभाकृ- त उद्योतः प्रकाश इति यावत् । नतु प्रभायाः पाण्डुतेति समासः । उदये प्रभाया आरक्तत्वात् । प्रकाशस्तु इन्द्रनीलादीनामपि पाण्डुरेव । जाह्नवी देवताधिष्ठात्री यस्येति देवतार्थेऽण् । अन्यथा शैषिकश्छः स्यात् ॥ १ ॥ यातीति ॥ अस्तगिरिं गच्छति तमःसमूहे पश्चिमायाः कृष्णायाः, संप्रत्तारुणो- दयायाः पूर्वस्याश्च लोहिताया दिशोर्मध्ये पाण्डु पिञ्जरं श्यामं वा किमपि दुर्लक्षं मनाक् स्तोकोदयं तेजोऽर्थात्प्रकाशात्मकं वो युष्मान्पातु । प्रकाशारुणोदयतमःशे- षसमुदायरूपत्वात् पाण्डु पिञ्जरं श्यामं चेत्युक्तम् । तदित्यनेन क्षिप्तं यच्छब्दवा- च्यमुपमानमाह—अन्तरित्यादि । दिग्भागयोर्विष्णुविरञ्चौ, प्रकाशात्मनश्च तेज- सो लिङ्गोद्भव उपमानम् । अथवा सत्त्वं पाण्डु तदेव विष्णुः, रजः पिञ्जरं तदेक १ 'भेरीशङ्खध्वनौ'. २ 'निशान्थे', ३ 'निमग्नम्'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

षष्ठ उच्छ्वासः । १६१ अन्तर्विष्णुविरञ्चयोरिव मनाग्लिङ्गोद्भवभ्रान्तिकृ- त्तेजः पाण्डुरपिञ्जरं च किमपि श्यामं च तद्वोऽवतात् ॥२॥ अनन्तरमुत्तिष्ठतोत्तिष्ठतानयत गजवाजिंवेगसरीः, संयोजयत शक- टानि, वेष्टयत पटकुटीः, मुकुलयत मण्डपिकाः, संवृणुत काण्डपटान्, उन्मूलयत कीलकान्, उद्वहत वेगाद्वहनीयभाण्डम्, भारयत करभ- कलभान्, उत्क्षिपत क्षीणोक्षकान्, उत्तरत सरितम्, अपसरत पुरतः, कुरुत संचारसहं मार्गम्, इत्यनेकविधप्रयाणाकुललोककोलाहले समु- च्छलति, नदत्सु प्रस्थानवादित्रेषु, समुत्थाय नरपतिरावश्यकशौचाव- साने नर्मदाम्भोभिषेकपूततनुरॆनुवन्द्य सांध्यविधिम्, अधिकृत्य भग- वन्तमुदयगिरिशिरःशिखरभाजं भास्करम्, इमं श्लोकमपठत् ॥ क ॥ 'जयत्यम्भोजिनीबन्धुर्बन्धूकारुणरश्मिकः । वैद्रुमो वासरारम्भकुम्भः पल्लववानिव' ॥ ३ ॥ अभ्यर्च्य च पञ्चोपचारैः सुरासुरगुरुं गौरीपतिं तत्प्रियस्य भगवतो नारायणस्यापि वाञ्छितार्थसिद्धये स्तुतिमकरोत् ॥ ख ॥ 'जयत्युदधिनिर्गतस्मरविलोscreen... 'जयत्युदधिनिर्गतस्मरविलोscreenललक्ष्मीर्लस- द्विलासरसमन्थरस्फुटकटाक्षलक्षीकृतः । अमन्दरयमन्दरभ्रमणघृष्टहेमाङ्गदः सुरारिवधनाटकप्रथमसूत्रधारो हरिः ॥ ४ ॥ स्रष्टा, तमः श्यामं तदेव च हरः, एतत्रयीमयश्च रविरित्यागमिकसमयः । तदु- क्तम्—'सत्वं शुभ्रं स हरिर्लोहितपीतं रजः स जगत्कर्ता । कृष्णं तु तमः स भवो भानुश्चैतत्रयीमूर्तिः' । अभिधानकारोऽप्याह—'द्वादशात्मा त्रयीतनुः' । एतेन पाण्डु तेज इत्युक्ते सत्त्वस्य, पिञ्जरमित्युक्ते रजसः, श्याममित्युक्ते तमः प्रतीति- रीति । ततश्च तमोन्विताया अपाच्या अरुणाान्वितायाश्च प्राच्या मध्ये मनागीप- ल्लक्ष्यं किमप्यद्भुतवैभवं तदुत्कृष्टं पाण्डु पिञ्जरं श्यामं च तेजोऽर्थात् सत्वरजस्त- मस्त्रयीमयं त्रयीतनुलक्षणं वो युष्मानवतु । अमुमेवार्थं सत्वरजस्तमसां संज्ञान्तरेण विष्णुविरञ्चिलिङ्गोद्भव लक्षणेन द्रढयन्नाह—अन्तरित्यादि । 'पुरा स्वमाहात्म्यार्थं विवदमानयोर्द्रुहिणनारायणयोः शिवेन स्वस्य लिङ्गोद्भवस्योर्ध्वाधोमानविज्ञानं मह- त्वहेतुः पण उक्तः' इत्यागमः ॥ २ ॥ अनन्तरमिति ॥ वेगसरी बेसरी । काण्डपटो गुणलयनी ॥ क ॥ जयत्युदेति ॥ सुरारिवधनाटकस्य प्रथमे प्रस्तावनायां सूत्रधारः ॥ ४ ॥ १ 'वेसरी'. २ 'मात्रं'. ३ 'कर्माव'. ४ 'अनुबन्ध्य'. ५ 'तार्थी सिद्धये'. ६ 'बलद्वि'. ७ 'अथमिश्रष्ट'.

१६२ नलचम्पूः । जयत्यमलकौस्तुभद्युतिविराजितोरःस्थलः सहेलहतदानवो नवतमालनीलद्युतिः विनम्रसुरमस्तकच्युतविकासिपुष्पावली- विकीर्णमधुसीकरस्नपितपादपीठो हरिः ॥ ५ ॥ जयत्युदरनिःसरद्वरसरोजपीठीपठ- च्चतुर्मुखमुखावलीविहितरम्यसामस्तुतिः । अलब्धमहिमावधिर्मधुवधूविलासान्तकृ- ज्जगत्त्रितयसंभवो भवभयापहारी हरिः ॥ ६ ॥ जयत्यसुरसुन्दरीनयनवारिसंवर्धित- प्रतापतरुरुल्लसत्तरुणकेकिण्कण्ठच्छविः । दलत्कनककेतकीकुसुमपत्रपीताम्बरः सुराधिपनमस्कृतः सकललोकनाथो हरिः ॥ ७ ॥ जयत्यखिललोकजिन्नरककालकेतूद्रमो मदान्धदशकन्धरद्विरददुष्टपञ्चाननः । हिरण्यकशिपुप्रियामुखसरोजचन्द्रोदयः सुरेन्द्ररिपुसिंहिकासुतशिरःकुठारो हरिः ॥ ८ ॥ जयत्यमरसारथिर्मदनतप्तलक्ष्मीलस- त्पयोधरयुगस्थलीसरसचन्दनस्थासकः । अचिन्त्यगुणविस्तरः सकलके²शिकं³साङ्गना- कपोलफलकोल्लसत्तिलकभङ्गहारी हरिः ॥ ९ ॥ जयत्यसमसाहसः सकललोकशोकान्तकृ- त्सहस्रकरभासुरस्फुरितचारुचक्रायुधः । विहङ्गपतिवाहनः कलुषकन्दनिर्मूलनः समस्तभुवनावलीभवनशिल्पधोरी हरिः ॥ १० ॥ जयत्यमलभावनावनतलोककल्पद्रुमः पुरंदरपुरःसरत्रिदशवृन्दचूडामणिः । अरातिकुलकन्दलीवनविनाशदावानलः समस्तमुनिमानसप्रवरराजहंसो हरिः ॥ ११ ॥ जयतीति ॥ नरको भौमासुरः ॥ ८ ॥ जयतीति ॥ अमराणां सारथिर्नेता अग्रणीरिति यावत् ॥ ९ ॥ १ 'विधिः'. २ 'केलि'. ३ 'सिद्ध'. ४ 'कारो'. ५ 'चिन्ता'.

षष्ठ उच्छ्वासः। १६३ एवमभिवन्द्य देवं देवम्, समारुह्य विजयिवारणेन्द्रस्कन्धम्, अग्रतः प्रधावितानेककरितुरग परिजनः, पुरैः परोधसा निर्वर्तिते महानदीयागे युगसहस्रपरिवर्तवृत्तान्तसाक्षिणीम्, अनवरततपस्यद्ब्रह्मर्षिप्रतिष्ठितशि- वलिङ्गरुद्धरोधसम्, अनेकसुरैसुन्दरीसेविततीरसंकेतलतामण्डपाम्, अनवरतमज्जद्दनगजमदामोदसुरभिततरङ्गाम्, अपरगङ्गाम्, अपरसा- गरराजमहिषीम्, अपरमार्कण्डेयतपःसिद्धिसखीम्, समुत्तीर्य भगवतीं मेकलकन्याम्, उत्फुल्लपल्लविताङ्कोल्लसल्लकीसरलसालसर्जार्जुननिम्बक- दम्बजम्बूस्तम्बोदुम्बरखदिरकरञ्जा'जनाशोकंसौभाञ्जनकप्रायैस्तरु- भिराकीर्णम्, अभिमतं मतङ्गानाम्, अनुभूतसारं सारङ्गैः, शिशिरतरं तरङ्गानि लैः, स्वर्गवनसमं समञ्जरीकैर्लताजालकैरुलङ्घय दक्षिणं नर्म- दातीरैपुण्यारण्यम्, अग्रतो, गगनवीथिमिव सिंहराशिरानितामुत्पतङ्गा- मुत्थितवृश्चिकामाविर्भूतसार्द्ररोहिणीमूलां च, छन्दोजातिमिव शार्दूल- विक्रीडितमनोहरां हारिहरिणीमन्दाक्रान्तामनवरतवसन्ततिलकोद्भासि- तामतिविचित्रचम्पकमालां च, सीतामिव बहुकोटरावणवृतामुत्पन्नकु- शलवां च, लङ्कामिव संचरद्विगुणपञ्चाननविभीषणां चारुपुष्पकामका- एवमिति ॥ समुत्तीर्य भगवतीं मेकलकन्याम् । उत्फुल्लेत्यादौ लकारानुप्रासाद्धेतोः केचित् 'अङ्कोल' इति पठन्ति, तच्च प्राकृते । संस्कृते लङ्कोठ इति । तथा उल्लङ्घय- दक्षिणभागस्थितं मतङ्गानां गजानामभिमतं नर्मदातीरं पुण्यारण्यम्, अग्रतो विविधविन्ध्याटवीमवगाहमान इति संबन्धः । कथंभूतां विन्ध्याटवीम् । सिंहराशि- र्मृगेन्द्रवृन्दं ज्योतिषोक्तः पञ्चमो राशिश्च । तेन राजिताम् । तथा पतङ्गः शलभः सूर्यश्च । वृश्चिकोऽली अष्टमराशिश्च । पुनः किंभूताम् । आविर्भूता सह .आद्रेण शृङ्गवेरेण, रोहिणी ओषधिविशेषो, मूलो मूलकश्च यस्याम् । पक्षे आर्द्रा-रोहिणी मूलानि ताराः । शार्दूलविक्रीडितेन सिंहविलसितेन मनोहरा । तथा हारिणीमिश्रा- रुभिर्हरिणीभिर्मन्दमाक्रान्ताम् । सर्वदा वसन्तैस्तिलकैश्च तरुविशेषैर्भूषिताम् । तथा अतिविचित्रा चम्पकानां माला श्रेणी यस्याम् । पक्षे शार्दूलविक्रीडितं हरिणी मन्दा- क्रान्ता वसन्ततिलका चम्पकमाला च छन्दांसि । तथा बहुभिः कोटरावणैर्वृतां छन्नाम् । कोटराणां वनमिति कृत्वा 'वनगियोः संज्ञायाम् -' इति सूत्रेण पूर्वपदस्य दीर्घः । 'वनंपुरगा-' इति सूत्रेण णत्वम् । कुशो दर्भः । लवो लेशः । सीतां तु बहुकोटेन प्राज्यकौटिल्येन रावणेन रक्षसा प्रार्थिताम् । तथा उत्पन्नौ कुशलवौ खसुतौ यस्याः । तथा संचरद्भिर्द्विगुणैर्विंरज्जुभिः पञ्चाननैः सिंहैर्विशेषेण भीषणाम् । १ 'नन्द्य'. २ 'देवता:'. ३ 'पुरःसरपुरोध'. ४ 'सुरसिद्ध'. ५ 'सालेति नास्ति'. ६ 'अशोकसौभाञ्जनकेति नास्ति'. ७ 'तीरं पुण्या'. ८ 'मत्तमयूराक्रान्ताम्'. ९ 'राव- णैवृताम्', 'रावणान्विताम्'

१६४ नलचम्पूः । ण्डाडम्बरितमेघनादां च, गीतविद्यामिव ततावनद्धघनसुषिरवंशस्वनम- नोहरामनेकतालबेदां निषादऋषभमध्यमग्रामयुक्तां च, चित्रविद्यामि- वानेककण्टकपत्रलतास्थानकविषमामृज्वागततापसां च, कलियुगशिव- शासनस्थितिमिव महाव्रतिकान्तःपातिभिः कालमुखैर्वानरैः संकुलामने- तथा चारुपुष्पमर्थात् मनोहरसरोजं कं जलं यस्याम् । अतएवानवसरेऽपि आड- म्बरितो विस्तृतो मेघनादस्तण्डुलीयको यस्याम् । लङ्का तु द्वौ गुणौ येषां पञ्चानां ते द्विगुणा दशेत्यर्थः । तत्संख्यान्यानानानि यस्य स दशमुखो, विभीषणश्च तन्द्वाता संचरन्यस्याम् । पुष्पकं विमानम् । मेघनादो रावणात्मजः । गीतविद्यामिवेति । तता विस्तीर्णा अवनद्धाः सुश्लिष्टा घनसुषिरा बहुविवरा वंशा वैणवस्तेषां स्वनेन रम्याम् । तालस्तरुरविशेषाः । निषादाः शवराः । मध्ये भवो मध्यमः । ग्रामः खेटकम् । पक्षे ततेन तन्त्रीगतेन अवनद्धेन पौष्करेण च घनेन कांस्यकृतेन सुषिरसंज्ञकवंशस्वनेन च मनोज्ञाम् । यद्यपि 'ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्क- रम् । घनं कांस्यकृतं प्रोक्तं सुषिरं वांश्यमेव च' इति भरतः । तथाप्यत्रानेकविष- यत्वाद्दंशस्वनोपादानमसंदेहार्थमुचितमेव । अनेकतालभेदाश्चञ्चत्पुटादयो यस्याम् । तथा निषादेन स्वरेण मध्यमसंज्ञकग्रामेण युक्ताम् । चित्रविद्यामिवेति । कण्टकैः सूत्रैः पत्रैः पर्णैः, लताभिर्वल्लीभिः, शाखाभिर्वा स्थानकैश्चालवालैर्विषमाम् । तथा ऋज- वोऽकुटिला आगताः स्वापार्थे प्राप्तास्तापसा मुनयो यस्याम् । चित्रविद्यापक्षे क- लिका-कण्टक-शाखा-त्रिभङ्गि-संज्ञाभिश्चत्वारः पत्रावयवाः । एतैर्मिलित्वा शिशु- सकल-स्वस्तिक-वर्धमान-सर्वतोभद्राख्याणि पञ्च पत्राणि निष्पद्यन्ते । तदत्र शाखापर्यायो लताशब्दः । तथा स्थानकानि पार्श्वगत-ऋजु-ऋज्वागत-द्व्यर्धाक्ष- अर्धऋजु-गमनालीढ-त्वरित-त्रिभङ्गि-संज्ञानि । तैर्विषमाम् । स्थानकशब्देनैव ऋज्वागतं गतार्थमपि व्यापकत्वात्पृथगुक्तम् । प्रायो हि चित्रे ऋज्वागतमेव लि- ख्यते । तपसि भवानि तापसानि । मयूरासनोट्रासनादीनि करणानि तापसाह्या- नि । तत ऋज्वागते तापसानि यस्याम् । यद्वा ऋज्वागतेन तापं स्यतीति केचित् । ऋज्वागतेन दुःखहारिणीमित्यर्थः । कलियुगेति । अप्सु रतिरन्नतिः । महती अत्रतिर्येषां ते महाव्रतिका वृक्षास्तेषामन्तर्मध्ये पतन्त्यभीक्ष्णं तैः कृष्णमुखैर्मर्कटै- श्छन्नाम् । तथा स्फुटितप्रस्रवणाम् । पक्षे महाव्रतिकाः कापालिकाः । तदन्तःपाति- भिस्तदन्तर्भूतैः कालमुखैर्वा शैवदर्शनविशिष्टैर्नरैराचिताम् । बहुधा भिन्नप्रवाहाम् । स्रोतोऽत्र लक्षणया प्रवाहः । आम्नाय इति यावत् । कृतयुगे ह्येकमेव शिवशास- नमभूत्, कलौ तु वह्वाम्नायमिति भावः । श्लेषचित्रादिषु ववयोरैक्यम् । तथाहि 'मालामुत्पलकन्दलैः प्रविकचैरायोजितां बिभ्रती वक्रेणाससदृष्टिपातसुभगेनोद्दीपय- न्ती स्मरम् । काञ्चीदाम नितम्बसङ्गि दधती व्यालम्बिना वाससा मूर्तिः कामरिपोः सितांशुमधरा पायादुमाया जगत्' । अस्यार्थः-'कामरिपोः शिवस्य मूर्तिः पाया- १ 'ऋषमेति नास्ति' । २ 'मिच्छ्वागत'

षष्ठ उच्छ्वासः । १६५ कधाभिन्नस्रोतसं च, कापालिकखट्वाङ्गयष्टिमिव समुद्रोपकण्ठलग्नाम्, मायामिव शम्बराधिष्ठिताम्, मरुभूमिमिव करीरैः केसरिप्रसवैर्संचा- राम्, अतिचारुचन्दनैः कृतगोरोचनाविशेषकैरक्षतदूर्वावाहिभिरारब्ध- मङ्गलाचारैरिव तृणस्थलैरलंकृताम्, विविधव्याधां विन्ध्याटवीमवगाह- मानो मेषवृषमिथुनयुजः सधनुपः सकुम्भकन्यानेकत्रराशीभूतान्गिरि- ग्रामपामरलोकानालोकयन्, 'इयं गगनवीथीव चित्रशिखण्डिमण्डिता सरित्तीरभूमिः, इयं सरिदिव बहुतरङ्गोपशोभिता गोष्ठवसतिः, इयं च नक्षत्रमध्यगतापि न विशाखा तरुपङ्क्तिः, इयं पुष्पवत्यपि न दूषितस्प- त् । कीदृशी । विगतकेशैरुत्क्रान्तपलशिरोदलैरायोजितां मालां बिभ्रती । तथा विषमदृष्टिपातसुभगेन वक्रेण स्मरं दहन्ती । तथा नितम्बसङ्गि काञ्चीदामप्रायं व्यालं सर्पं दधती । तथा वाससा वस्त्रेण विना व्यतिरिक्ता । तथा सितांशुंकं चन्द्रं धर- तीति । पलं मांसम् । कमित्यव्ययं शिरोऽर्थम् । उमापक्षे व्यालम्बिना लम्बमानेन । शेषं सुगमम् । समुद्रस्याम्भोधेरुपकण्ठे कूले लग्नाम् । यष्टिस्तु समुद्रं मुद्रान्वितं यदुपकण्ठं गलसमीपं तत्र लग्ना । मुद्रा भूषणास्थिग्रन्थि । शम्बरः श्वापदविशेषो दानवविशेषश्च । शम्बरेण हि विनिर्मिता माया । अतएव शाम्बरीत्युच्यते । मरु- भूमिमिति । न संचारो गतिर्यस्याम् । केसरिणां सिंहानां प्रसवैः पोतैः । कीदृग्भिः । करिणमीरयन्ति तैः । पक्षे करीरैस्तरुविशेषैः । तथा केसरिणः किञ्जल्कोपेताः प्र- सवाः पुष्पाणि यत्र तथाविधैः । अतिचेति । चन्दनस्तरुस्तद्वत्प्रशस्तः । कृतो गवां रोच- नाविशेषोऽभिलाषातिशयो यैः । पक्षे गोरोचना गन्धद्रव्यविशेषः । सा चातीव मङ्गल्या तस्या विशेषस्तिलकम् । अक्षतामलग्नां दूर्वां वहन्त्यभीक्ष्णम् । पक्षेऽक्षतस्त- ण्डुलादिः । दूर्वेति समानम् । तथा एकस्मिन्स्थाने समूहीकृतनानानगग्रामप्राकृतज- नानवलोकयन् । कीदृशान् । मेषाणां वृषाणां मिथुनानि युञ्जन्ति धारयन्ति । तथा सह धनुषा कोदण्डेन सधनुपः । तथा सकुम्भा मङ्गलार्थं मस्तकन्यस्तकलशाः कु- मार्यो येषु । राशिसमूहो ज्योतिषोक्तो मेषादिश्च मेषवृषभमिथुनकुम्भकन्या राशिविशे- षसंज्ञाः । मन्त्रिसूनुना श्रुतशीलेन सह 'इयं च गगनवीथ्यादि' 'इमे च केचित्स- शिखण्डिनः' इत्यादि च विहितविदग्ध्यालापः प्रयाणविच्छेदमकरोत् । यदुक्तं तद्व्या- ख्यायते । तद्यथा । चित्राश्चित्रवर्णाः शिखण्डिनो मयूराः । पक्षे चित्रशिखण्डिनः सप्तर्षयः । बहुतरमिति क्रियाविशेषणम् । गोपैर्बल्लवैः शोभिता । सरित्तु बहुभिस्त- रङ्गैरुपशोभिता । गोष्ठं गोकुलम् । नक्षत्रमध्यं गता । न विगतशाखा च । एतेन तरूणामुच्चता साभोगता चोक्ता । विशाखा हि नक्षत्रमध्यं न गतेति विरोधसू- चकोऽपिशब्दः । पुष्पवती कुसुमिता रजस्वला च । न दूषितस्पर्शा मृदुत्वात् । रज- स्वला त्वस्पृश्येति विरोधः । संनिहितेभ्यो मधुदा क्षौद्रप्रदा । नवा अविच्छिन्ना । CC-0 Pt. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

र्शा वीरुत्, इयं संनिहितमधुदानवापि हरिप्रिया वंशजालिः, इयं कृ- तमातङ्गसङ्गापि न परिहृता द्विजैः सल्लकीसंततिः, इमे च केचित्स- शिखण्डिनो महाद्रुपदाः, केऽपि विच्छिन्नकीचकवंशा वृकोदराः, के- चित्सपुण्डरीकाक्षाः पाण्डुसंतानकाः, केऽप्युद्धृतभुवोमहावराहाः, के- प्युत्कृष्टसुरभिश्रीद्रुमावलिहरिकराकृष्टपन्नगनेत्राः स्फुरन्मणिभित्तयोऽ- मन्दरागाः, केऽपि सस्थाणवो दुर्गाश्रयाः श्रूयमाणगजवदनचीत्काराः सगुहाः कैलासकूटायमानाः सेव्याः खल्वमी विन्ध्यस्कन्धसंधिसा- नवः' इति मन्त्रिसूनुना श्रुतशीलेन सह विहितविदग्धालपः, कयापि वेलया कमप्यध्वानमतिक्रम्य काप्यापरिमितपतन्निर्झरजलतुषारस्पर्श- मञ्जरितपादपपुष्पपरिमलमिलन्मधुकरझङ्कारहारिणि रममाणशबरमि- थुनसंमर्दमृदितामन्दमृदुशाद्वले जलस्थलीप्रदेशे श्रान्तसैनिकानुकम्पया प्रयाणविच्छेदमकरोत् ॥ क ॥


हरिः सिंहः । या च हरेर्विष्णोः प्रिया वल्लभा सा कथमासन्नमधुसंज्ञकदैत्येति वि- रोधः । मातङ्गा गजाः श्वपचाश्च । द्विजाः पक्षिणो विप्राश्च । इमे चेति । महत् द्रुपदं वृक्षस्थानं येषु तथोक्ताः । तथा सह शिखण्डिभिर्मयूरैः । अथ च महाद्रुपदाः क्षत्रविशेषाः । द्रुपदतनयश्च शिखण्डी । चित्रशिखण्डिमण्डितेत्यनेन पूर्वमटव्यां मयूरसद्भाव उक्तः । इदानीं विन्ध्यस्कन्धेष्विति न पौनरुक्त्यम् । विच्छिन्नाः पृथ- ग्भूताः कीचकाः सच्छिद्रा वंशाश्च निश्छिद्रा येषु । वृका अरण्यश्वान उदरे मध्ये येषु । वृकोदरो भीमोऽपि । स च विशेषेण छिन्नकीचकाख्यराजान्वयः । पाण्डुः संतानकस्तरुविशेषो येषु । तथा पुण्डरीकैः सिताम्भोजैर्वृक्षैश्च विभीतकैः सह । पाण्डोः संताना एव संतानकाः सुताः पाण्डवास्ते तु पुण्डरीकाक्षेण विष्णुना सह महान्तो वराहा येषु । तथा उत्कर्षेण हृता विस्तारेण रुद्धा भूयैः । महावराहो विष्णुः । स चोत्क्षिप्तपृथ्वीकः । अमन्दो रागो येभ्यस्तेऽमन्दरागाः । तथा उत्कृ- ष्टा मनोज्ञाः सुरभयश्चम्पकाः श्रीद्रुमाश्च पिप्पलास्तेषामावलिस्तत्र हरयः कपयस्तै- राकृष्टानि पन्नगनेत्राणि सर्पाक्षीणि येषु । इत्यमन्दरागले हेतुः । पक्षे मन्दराख्यो- ऽगोऽद्रिः । तदा उत्कृष्टोद्गता सुरभिः श्रीर्लक्ष्मीर्द्रुमः पारिजातश्च यैः । मन्दरेण हि सुरभिप्रभृतीन्यम्भोधेरुद्धृतानि । सुरभिर्धेनुः । इह तु प्रस्तावात्कामधेनुः । यद्विश्वप्रकाशः—'सुरभिश्चम्पके स्वर्णजातीफलवसन्त्योः । संधौ पले सौरभेय्याम्' इति । तथा बलेर्दैत्यस्य हरेर्विष्णोश्च करैराकृष्टं आमितं पन्नगो वासुकिलक्षणं नेत्रं मन्थानमाकर्षणरज्जुर्यत्र । कैलासकूटा इवाचरन्तः । स्थाणुः स्थिरपदार्थः शिवश्च । दुर्गा विन्ध्यवासिनी देवी गौरी च । दुर्गे आश्रयो येषामिति वा । तथा आकर्ण्य-


१ 'कैकार'.

तैस्तैश्चिरन्तनवासरव्यापारैरहःशेषसहितामतिवाह्य तामपि निशा- मनन्तरमुन्मिषत्पक्ष्मपक्षिपाक्षावधूनितपवनैरिवापनीयमानेषु गगनच- त्चरचर्चाप्रकरपाण्डुपुष्पपुञ्जेकेषु नक्षत्रेषु, स्वविरहोत्पन्नतमःकलङ्क- लुपितानि मनाङ्कुङ्कुमपङ्कपिञ्जरैः करैः परामृश्य प्रसादयति दिननाथे दिग्मुखानि, पुनः पूर्वक्रमेण प्रस्थानमकरोत् ॥ क ॥ एवमपसरन्मार्गान्मागान्नीवारीणि वारीणि सहंसनिनदान्नदान् स- करेणु रेणुस्थलमाच्छादितदिशि खराणि शिखराणि लङ्घयन् सुनीरा- गान् गिरिगहनग्रामाँस्तपस्विनश्च मानयन्नेकदा नातिदूर इवोत्ककाद्- म्बकदम्बचुम्ब्यमानाम्बुजराजिरजोरञ्जिताम्भसि सरित्तीरे तरुतलो- पविष्टमेकमध्वश्रान्तमध्वनीनमिदं चारुश्लोकयुगलमतिमधुरगीततरङ्ग- रङ्गिताक्षरं गायन्तमद्राक्षीत् ॥ ख ॥ तव सुहृदुपैतुमुक्तश्रीफलः कामकेलिं जनयति वनितानां कुङ्कुमालोहितानाम्। श्रयति स च समूहो मेखलाभूषितः सन् जनयति वनितानां कुंकुमालोऽहितानाम् ॥ १२ ॥

मानो गजानां वदनचीत्कारा बृंहितानि येषु । कैलासे च । गजवदनो हेरम्बः । गुहा पाषाणसंधिः । गुहः कार्त्तिकेयः ॥ क ॥ एवमिति ॥ मार्गादीनां लङ्घनादिकं कुर्वन् । अध्वानमलंगाभी इत्यध्वनीनस्तं चाटु श्लोकयुगं गायन्तमद्राक्षीत् । अपसरतसैन्यभयान्निवर्तमानं मार्गे मृगसमूहो येभ्यस्तांस्तथोक्तान् । नीवारोऽस्लेष्विति । सह हंसनिनदैः । नदो जलाशयः । सह करेणुभिर्गजैः । आच्छादिता दिशो यैस्तान्याच्छादितदिशि । खराणि तीक्ष्णानि । सुष्ठु नीरं जलमगाश्च तरवो येष्विति । पक्षे सुष्ठु निर्गतरागान् । मानयन्निति मानिरु- पभोगार्थः पूजार्थश्च । उपभोगे यथा 'मानयिष्यन्ति सिद्धाः सोत्कण्ठानि प्रियसह- चरीसंभ्रमालिङ्गितानि' ॥ ख ॥ तवेति ॥ तव संबन्धी सुहृन्मित्रजनो भुक्तलक्ष्मीफलः कुङ्कुमेन आ ईषल्लोहि- तानां वनितानां जनितात्यर्थरागाणां योषितां मन्मथलीलां जनयति । 'वनिता ज- नितात्यर्थरागयोषित्' इति विश्वप्रकाशः । तथा अहितानां समूहो मेखलाभुवि गिरिमध्यभुवि उषितः कुमालः कुत्सितत्सक् सन् वैरत्यागात्सज्जनतायाः ब्रह्मचर्या- दियोगाद्यतिताया वह्निपत्रवसनादिसंबन्धाद्वनितायाः शवरलस्य कुं भूमिकां श्रयति।

१ 'अपीति नास्ति'. २ 'धूनन'. ३ 'पङ्कजेषु'. ४ 'पिञ्जरकरैः'. ५ 'आच्छा- दितरविकराणि दीर्घतरशिखराणि'. ६ 'सरिति तीरतरु'. ७ 'इमं चाटु'. ८ 'गीततरं तरङ्गिता'. ९ 'अनु'.

१६८ नलचम्पूः । अपि च । त्वत्तो भयेन नृप पश्य जनो वनेषु कान्त्या जितस्मर तिरोहितवानरीणाम् । शाखामृगश्चपल एष गिरेरुपत्य- कां त्याजितः स्मरति रोहितवानरीणाम् ॥ १३ ॥ 'अहो नु खल्वयमनल्पशास्त्रीयसंस्कारामृतसंपर्कपल्लवितप्रज्ञाङ्कुरः कोऽपि कुशलः काव्यवक्रोक्तिषु पथिकयुवा योग्यः संभाषणस्य' इत्य- वधारयति राजनि ससंभ्रममुत्थाय स्थित्वा च पुरः स पान्थः सप्रणा- ममिमं श्लोकमपाठीत् ॥ क ॥ 'वेधा वेदनयाश्लिष्टो गोविन्दश्च गदाधरः । शंभुः शूली विषादी च देव केनोपमीयसे' ॥ १४ ॥ राजा तु तदाकर्ण्य क्षणमात्रमहोपरोधविस्मयहर्षरसैः समकालमाप्ला- वितमनाः, प्रथममुत्फुल्लया दृशा, ततो मुग्धस्मितार्घ्येण, तदनु सर्वा- ङ्गीणभूषणप्रदानेन, तमभ्यर्च्य 'पान्थ, कथय केयमुत्तुङ्गकलोलदोला- स चेति चकारात् सुहृदहितसमूहयोरन्योन्यमयमक्तिपादस्थितविशेषणाभ्यां शब्द- श्लेषद्वारेण संबन्धः । तथथा, मेखलया कटिपट्टिकया भूषितः सुहृत् अहितसमू- होऽपि अनुमुक्तविल्वः । अत्र प्रथमतृतीयपादौ विशेषणगतश्लेषेणालंकृतौ द्विती- यचतुर्थौ तु संपूर्णयमकेन ॥ १२ ॥ त्वत्त इति ॥ नृपेति संबोधनम् । कान्त्या सौन्दर्येण जितस्मरेति तद्विशेषणम्। पश्येत्याभिमुख्यकरणे । अरीणां जनस्त्वद्भयेन वनेषु तिरोहितवान् । जितस्मरेत्य- नेन 'स्मरोऽपि किल त्वया जित इति तिरोहितोऽभूत्' इति प्रतीयते स्मृतिगो- चर एव नतु दृश्यते इत्यन्वर्थात् । तथा एष प्रत्यक्षवर्ती शाखामृगो वानरश्च- पलो लोलः । अनेनैव वनवासिना रिपुजनेन गिरेरुपत्यकामधोभूमिकां त्याजितो रोहितवानरीणां मर्कटीनां स्मरति । वानरीणामिति 'अधीगर्थ-' इति सूत्रेण क- र्मणि षष्ठी ॥ १३ ॥ वेधा इति ॥ वेदनया पीडया आश्लिष्टः संबद्धः । गदेन रोगेण अधरो वि- धुरः । शूलं रुग्विशेषोऽस्य । अतएव विषादान्वितः । तस्माद्देव केनोपमीयसे त्वमिति बाह्योऽर्थः । तत्त्वतस्तु वेदानां नयेन मतेनाश्लिष्टः । गदा कौमोदकी । अथवा गदो भ्राता सोऽधरोऽनुजो यस्य । शूलमायुधम् । विषमत्तीति विषादी नी- लकण्ठत्वात् ॥ १४ ॥ राजा त्विति ॥ मृणालवलयानामक्षसूत्रम्, उत्कूजनस्य ब्रह्मयज्ञोद्गारः, राज- १ 'उभय'. २ 'गदान्वितः'.

षष्ठ उच्छ्वासः । १६९ धिरूढानुच्चवधूत्क्षिप्तमृदुमृणालवलयान्कूजतः कलहंसानक्षसूत्रिणः प्रवर्तितब्रह्मयज्ञोद्गारमुखरमुखांस्तीरतापसानिव दिवमारोपयितुमुद्वह- न्ती सरित्, तरुणतरुतलमलंकुर्वाणः प्रसन्नसरस्वतीकः कश्च भवान्' इति सप्रणयमपृच्छत् ॥ क ॥ सोऽपि । 'सभ्रमरया कूलकीचकवेणुलतया सदृशी नावातरण- योग्या किमियमप्रसिद्धा महानदी देवस्य' इत्यभिधाय कथयितुमार- ब्धवान् ॥ ख ॥ 'भानोः सुता संवरणस्य भार्या तापी सरित्सेयमघस्य हन्त्री । यस्याः कुरुः सूनुरभूत्स यस्य नाम्ना कुरुक्षेत्रमुदाहरन्ति ॥ १५ ॥ एतस्याः सलिलावगाहसमये कुर्वन्ति नित्यं नृणां नीरन्ध्रोन्नतकर्कशस्तनतटीसंघट्टपिष्टोर्मयः । भ्राम्यद्भङ्गिनिभालकैः क्षणमिव व्यालोलनेत्रैर्मुखै- रुत्फुल्लोत्पलगर्भपङ्कजवनभ्रान्तिं महाराष्ट्रियाः ॥ १६ ॥ अपिच । यद्येतस्याः सकृदपि मरुन्नर्तिताम्भोजराजि- प्रेङ्खत्पत्रव्यजनविधुतं वारि नीहारहारि । रोधोभाजां पिवति कुसुमैर्वासितं पादपानां पीयूषाय स्पृहयति ततः किं क्वचिन्नाकलोकः ॥ १७ ॥ मामपि पुष्कराक्षनामानं वार्तिकमवगच्छतु देवः ॥ ग ॥ तथाहि ।


हंसानां तापसा उपमानम् । ब्रह्मयज्ञो वेदाध्ययनम् ॥ क ॥ सोऽपीति ॥ किमियं सरिद्देवस्य न विदिता, यासौ नावा वेडया तरण- योग्या । शब्दायमानकीचकवंशवह्लया । सभ्रमरया सन्दृष्ट्या । सदृशी । वंशवह्लयपि अवाते वाताभावे रणंस्य शब्दस्य योग्या न भवति । सरिदपि सभ्रमः सावर्ती रयो जवो यस्या इति सभ्रमरया ॥ ख ॥ भानोरिति ॥ संवरणः क्षत्रियविशेषः ॥ १५ ॥ एतस्या इति ॥ उत्फुल्लोत्पलानि गर्भे मध्ये यस्य पङ्कजवनस्य । महाराष्ट्रियाः स्त्रियः ॥ १६ ॥ मामिति ॥ वार्तायां नियुक्तो वार्तिकः ॥ ग ॥


१ 'उत्कूजतः'.

१७० नलचम्पूः । स्थित्वा त्वदागमनमार्गमुखे गवाक्षे वार्ताविशेषमधिगन्तुमिहायताक्ष्या । संप्रेषितो निषधनाथ तयास्मि यस्याः क्रीडागिरिस्त्वमसि मुग्धमनोमृगस्य ॥ १८ ॥ एष्यति च श्वस्तनेऽहनि मार्गश्रमक्लान्तमितो नातिदूर इवोत्तुङ्गस- रलसालसर्जार्जुननिचुलनिचयान्तरचलद्दुलचकोरमयूरहारीतहंसकु- लकोलाहलिनि पयोष्णीपुलिनपरिसरे स्थितं तया प्रहितमात्रं क्रीडा- किंनरमिथुनम् ॥ क ॥ 'इयं च वाच्यतां तया स्वहस्तकिसलयलिखिताक्षरगर्भा भूर्जपत्रि- का' इत्यभिधाय पुरोऽस्य लेखपत्रिकां व्यसृजत् ॥ ख ॥ राजापि पार्श्वपरिजनेनोत्क्षिप्यार्पितां तामतिबहुलपुलकाङ्कुरकण्ट- कितप्रकोष्ठकाण्डेन पाणिना स्वयमुन्मुच्य सादरमवाचयत् ॥ ग ॥ 'नलोऽपि मां प्रत्यनलोऽसि यत्त- द्भवादृशां नैषध नैष धर्मः । तथाबलानां बलवद्ग्रहीतुं न मानसं मानसमुद्रयुक्तम् ॥ १९ ॥ अपि च । निपतति किल दुर्बलेषु दैवं तद्वितथं ननु येन कारणेन । बलवति न यथा तथाबलानां प्रभवति कृष्टशरासनो मनोभूः ॥ २० ॥ अपि च ।

स्थित्वेति ॥ गवाक्षे स्थित्वा तया आयताक्ष्या दीर्घदृशा वार्तान्तरं ज्ञातुमिह
प्रेषितोऽहम् । यस्या मुग्धमनोमृगस्य त्वं क्रीडागिरिः मृगो हि गिरौ मनस्त्वयि
रमते ॥ १८ ॥
नल इति ॥ नैषध इत्यभिजनान्तामन्त्रणेन कुलीनत्वोल्लिखनम् । मानसमुद्रे-
ल्यनेन च सबलानामेव पराजयो नावलानाम् । मां प्रति त्वं नलाख्योऽपि सन्ननलो
वह्निरुत्कण्ठाजनकत्वेन संतापक इत्यर्थः । न नलोऽनल इति विरोधः । परिहा-
रस्तु प्रागेव व्याख्यातः । न चैष भवादृशां धर्मो यस्मादहमबला तस्मात्तवाव-
लानां दुर्बलानां मानसं चेतो ग्रहीतुं न युक्तम् । बलवदिति क्रियाविशेषणं हठादि-
त्यर्थेऽव्ययम् ॥ १९ ॥
निपततीति ॥ अबलाः स्त्रियोऽशक्ताश्च ॥ २० ॥

षष्ठ उच्छ्वासः । १७१ कदा किल भविष्यन्ति कुण्डिनोद्यानभूमयः । उत्फुल्लस्थलपद्माभभवच्चरणभूषिताः ॥ २१ ॥' इति लेखलिखितप्रणयसुभाषितामृतरसप्लवेनाप्लावितहृदयः, 'विधे, विधेहि मे पक्षिण इव पक्षयुगलमुड्डीय येन तां पश्यामि' इति चिन्त- यन्नरंपतिः पुरतः स्थितं तं प्रियावार्तिकमाश्लिष्यन्निवोद्गतर रोमाञ्चनिच- येन, पिवन्निवाभिलाषतृषितया दृशा, स्नपयन्निव मधुरस्मितामृतर- सेन, पुनः पुनः सादरमभाषत ॥ क ॥ 'पुष्कराक्ष, सा सर्वथा विजयते राजपुत्री । यस्याः प्रसन्नमुदारस- त्कान्तिश्लिष्टं सुकुमारमनेकालंकारभाजनं वयो वचनं च, सप्रश्रयः प्रगल्भो विवेकवान्विदग्धबुद्धिर्भवद्विधः परिजनश्च ॥ ख ॥ तत्कथय 'कथनीयकीर्तिः क्वास्ते कथमास्ते कं विनोदमनुतिष्ठति केन व्यापारेण परिणामयति वासरं वाऽसौ भवत्स्वामिसुता' इत्येवमुक्तः स पुनः पल्लवयन्ननुरागकन्दलं नलमलपत् ॥ ग ॥ 'त्वद्देशागतवायसाय ददती दध्योदनं पिण्डितं त्वन्नाम्नः सदृशे दृशं निदधती वन्येऽपि मुग्धा नले । त्वत्संदेशकथार्थिनी मृगयते तान्राजहंसान्पुनः क्रीडोद्यानतरङ्गिणीतरुतलच्छायासु वापीषु च ॥ २२ ॥ अपिच । सांप्रतं तया त्वद्देशागतमारुतेन मृदुना संजांतरोमाञ्चया त्वद्रूपाञ्चितचारुचित्रफलके निर्वापयन्त्या दृशम् । त्वन्नामामृतसिक्तकर्णपुटया त्वन्मार्गवातायने नीचैः पञ्चमगीतिगर्भितगिरा नक्तंदिनं स्थीयते ॥ २३ ॥' पुष्करेति ॥ प्रसन्नं निर्मलम् । उदारं रम्यम् । सत्कान्ति तेजस्वि । श्लिष्टं सुघटि- तसर्वावयवम् । कुमारं मृदु । अनेकालंकारभाजनं बहुभूषणपात्रम् । वयःशब्देन तदाधारभूतं शरीरमुच्यते । पक्षे प्रसन्नं झटित्यर्थप्रतीतिकृत् । महार्थमुदारम् । औज्ज्वल्यं कान्तिः । मसृणत्वं श्लेषः । अजरठं सुकुमारम् । अनुप्रासोपमादयोऽलं- काराः ॥ ख ॥ त्वद्देशेति ॥ तव नामापि दुर्लभं ततोऽस्य सदृशे समुचिते । 'नाम्ना त्वत्स- दृशे' इत्यायः पाठः । सतु स्पष्ट एव ॥ २२ ॥ त्वद्देशागतेति ॥ नीचैरिति निभृतम् । प्रच्छन्नरागत्वात् ॥ २३ ॥ १ 'नरपतिरग्रतः'. २ 'मुदारकान्ति'. ३ 'पुत्री'.