भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 173, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 173

पञ्चम उच्छ्वासः । १५३ ताम्बुजजातिजीवितजीवंजीवकमुक्तकूजितकुररमारसितसारसमुन्मद्- हासिहंसावतंसमुरःप्रमाणाच्छोदकमतिरमणीयं ह्रदमवातरन् ॥ क ॥ अवतीर्य च ताः काश्चित्पन्नगपतिपुरंध्रय इवोद्गीर्णविषगण्डूषाः, काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिपिश्यसनिन्यः, काश्चिद्गोपालाङ्गना इव गृहीतपुण्डरीकाक्षाः, काश्चित्कार्तिकेयशरपङ्क्तय इव विश्लेषितक्रौ- ञ्चाः, काश्चित्कुरुसेना इव धार्तराष्ट्रशकुनिमार्गेणानुधावमानाः, काश्चि- द्रात्रय इव विघटितचक्रवाकमिथुनाः, काश्चिच्चकोराङ्गना इव चञ्चूकृ- तदीर्घकमलनालैः शशधरकरनिर्मलजलमास्वादयन्त्यः, काश्चित्करिण्य इव सरसविसाग्राणि प्रसमानाः काश्चिज्जलयन्त्रपुत्रिका इव संपुटित- मुखपाणिपल्लवयुगलाग्ररन्ध्रोन्मुक्तसूक्ष्मवारिधाराः, काश्चिद्भीरुनार्य इव प्रियवारितरणाः, स्तनगण्डशैलशिखरास्फालनोल्लसत्तरङ्गान्तरतरत्तरु- णतामरसरससुरभिसलिलमवगाहमानाश्चिरं चिक्रीडुः ॥ ख ॥ अवनिपतिरपि विस्मयविस्मृतनिमेषोन्मेषनयनस्ताश्चिरमवलोक्यं चिन्तयांचकार ॥ ग ॥ 'जातिर्यत्र न तत्र रूपरचना नेत्रोत्सवारम्भिणी रूपश्रीरपि यत्र तत्र सुलभः श्लाघ्यो न जन्मोदयः । इत्येकस्थसमस्तसुन्दरगुणप्रद्वेषमभ्यस्यतो धातस्तात वृथाश्रमस्य भवतः सृष्टिकमो दह्यताम् ॥ ५७ ॥ द्विभाषा' इति कप् । अम्बुजजातिरेव जीवितं येषामिति वा । अतिप्रियत्वात् । उरःप्रमाणं वक्षोदघ्नमुदकं यत्र । अगाधे हि पयसि न जलक्रीडा ॥ क ॥ अवतीर्येति ॥ विषं जलं, गरञ्च । पक्षोत्पलं रक्ताब्जं, रक्तेनोत्कृष्टं पलं मांसं च। गृहीतपुण्डरीके अवलोकितसिताम्बुजे अक्षिणी यासाम्। चक्षुषो हि ग्रहण- मवलोकनमेव । यथा श्रोत्रपानमाकर्णनम् । अथवा शैल्यान्नेत्रन्यस्ताब्जाँः । अन्यत्र पुण्डरीकाक्षः कृष्णः क्रौञ्चः पक्षी गिरिश्च । धृतराष्ट्रो दुर्योधनस्य पिता, शकुनिर्मा- तुलः। पक्षे धृतराष्ट्रो हंसः । यद्विश्वः—'धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियभेद- योः' । शकुनिः पक्षी । अचञ्चूनि चञ्चूनि कृतानि चञ्चूकृतानि । अन्यत्र चञ्च्वां कृतानि धृतानि यानि दीर्घकमलनालानि तैः शशधरकरनिकरवन्निर्मलं जलम् । अन्यत्र किरणनिकर एव निर्मलजलम् । चकोर्यो हि चन्द्रकरान्पिवन्ति । प्रियं वारिणो जलस्य तरणं यासाम् । अन्यत्र वारितो निषिद्धो रणो यकाभिः । ता वारितरणाः, प्रियाणं वारितरणाः प्रियवारितरणाः ॥ ख ॥

  • यद्वा गृहीत आत्तः पुण्डरीकाणामक्षो बीजकोशो याभिस्ता इति बृहट्टीका ॥ १ 'नागपति', २ 'गोपाङ्गना इव'. ३ 'धृतराष्ट्र'. ४ 'पुत्तिकाः'. ५ 'लोक्य चिरं'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास) · पृष्ठ 173, कुल 258 में से · BharatKosha