नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 209, कुल 258 में से
संदर्भ में पढ़ेंषष्ठ उच्छ्वासः । १८७ अयं हि मन्मथविलासेषु परं वैदग्ध्यमवलम्बते । तथाहि । मृदुकरपरिरम्भारम्भरोमाञ्चितायाः सरसकिसलयाग्रग्रासशेषार्पणेन । मदमुकुलितचक्षुश्चाटुकारी करीन्द्रः शिथिलयति रिरंसुः केलिकोपं प्रियायाः ॥ ५८ ॥ अपिच । उपनयति करे करेणुकायाः किसलयभङ्गमनङ्गसंगताङ्गः । स्पृशति च चलदक्षिपक्ष्मलेखं मुखमखरेण करेण रेणुदिग्धम् ॥ ५९ ॥ अथवा विवेकपूर्वव्यवहारविचारेष्वमी मानुषेभ्यः स्तोकमेवावही- यन्ते ॥ क ॥ तथाहि । श्रूयते पुरा किल नारायणनाभ्यम्भोरुहकुहरकुटीमधिशयानस्य वेदविद्यां निगदतो भगवतः पितामहस्य बृहद्रथन्तरविकीर्णभासना- मानि सामानि गायतः सामस्तोभरसनिष्यन्दादुदपद्यन्तैरावतसुप्रती- ककुमुदवामनाञ्जनप्रभृतयोऽष्टौ दिग्गजेंद्राः ॥ ख ॥ तेभ्योऽभवन्भद्रमन्द्रमृगसंकीर्णजातयो गिरिचरनदीचरोभयचारि- णः करिणः ॥ ग ॥ प्रसिद्धं चैतत् । ‘सामजा गजाः’ इति ॥ घ ॥ केचित्पुनरन्यथा कथयन्ति किल सकलसुरासुरकरपरिवर्त्यमानमन्दरमन्थानमथितदुग्धाम्भो- निधेरजनि जनितजगद्विस्मयो लक्ष्मीमृगाङ्कसुराभिसुरद्रुमधन्वन्तरि- कौस्तुभोच्चैःश्रवसां सहभूः शशधरकरकान्तिरैरावतः । तत्प्रसूतिरिय- मशेषवनान्यलंकरोतीति ॥ ङ ॥
दन्तं दन्तुरम् । अदन्तं तृणादिकमश्नन्तम् । अगजं गिरिजं गजं पश्येति संब- न्धः । अथवा सालांस्तरूनदन्तम् । तथा अकमकुत्सितम् । सर्वलक्षणपरिपूर्णम् । तच्च ‘उच्चैः कुम्भः–’ इत्यादिना वक्ष्यति । अत्र ‘किम्’ क्षेपे । शेषं पूर्ववत् ॥ ५७ ॥ श्रूयत इति ॥ सामस्तोभरसनिष्यन्दादिति । सामनि स्तोम आसक्तिस्तस्मा- द्रसस्य खेदस्य निष्यन्दः स्रावस्तत इत्यर्थः । स्तोकरसपाठे तु रस आसक्तिः । नि- ष्यन्दः खेदः ॥ ख ॥
१ ‘मनुष्येभ्यः’. २ ‘कुटीर’. ३ ‘सुरभिसुरद्रुमधन्वन्तरिकौस्तुभोच्चैःश्रवःशशधरल- क्ष्मीसहोदर ऐरावतः’. ४ ‘करोति’.