नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 210, कुल 258 में से
संदर्भ में पढ़ें१८८ नलचम्पूः । तदेष भद्रजातिर्भविष्यति । तथाहि । उच्चैःकुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः । शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥ ६० ॥ तन्मोदतामयम्, अनुरागिणोर्दम्पत्योः क्रीडारसविघातः कृतो न श्रेयान्' इत्यभिधाय, हृतहृदयः, स्वैरं रममाणमृगमिथुनविलासैरुल्ला- सितपुलकः कुसुमितकाननानिलैरुत्कम्प्यमानः, झरन्निर्झरोपान्तपाद- पतलचलत्केलिकिलकेकिफेकारवैर्विनोद्यमानः समीपचरसेवकसुभा- षितैश्च, सममसमं च, निम्नगात्रमनिम्नगात्रं च, ग्रावविषममग्राववि- षमं च, सश्रापदमश्वापदं च, सपादपमपादपं च, विन्ध्यस्कन्धमुल्लङ्घय, 'देव, विलोक्यतामिह विषमविषाणि पन्नगकुलानि द्रोणीगहनं च, इह शरासनकरम्बाणि वनानि पार्वार्द्धकपुलिन्दवृन्दं च, इह बहुसुखानि शवरद्वन्द्वानि रत्नाकरस्थलं च, इह सुमधुराणि फलानि कीचकवनं तदिति ॥ उच्चैः कुम्भ इत्याद्यभिधाय तेनैव करिणा हृतहृदयो मृगमिथुन- विलासादिभिः पुलकाद्युपेत ईदृशं विन्ध्यमतिक्रम्य 'देव, वीक्ष्यताम् इह विन्ध्य- स्कन्धे इदमिदमिति वनप्रदेशान्दर्शयतः पुष्कराक्षस्य वक्रोक्तीर्भावयन्नतिक्रान्तशि- खरपरम्परः सह्यमयात् । केलये किलतीति केलिकिलः ( 'इगुपध' इति कः ) क्री- डापात्रम् । केलिकिलानां केकानुकारप्रवृत्तानां केकिनां च केकारवैर्विनोद्यमानः । सह मया श्रिया समं सश्रीकम् । असमं विषमम् । न समोऽस्येति कृत्वा उत्कृष्टं वा । निम्नगा नदीन्नायत इति कः । तथा अनिम्रमुच्चं गात्रं मूर्तिर्यस्य । ग्रावभिर्ह्र- षद्भिर्विषमम् । अग्रे अवविषमं समम् । अवेति नञर्थे । श्वापदं हिंस्रपशुः । अश्वा- नामपदमभूमिम् । समनिर्जलो हि देशोऽश्वीयः । अयं च ग्रावविषमो निम्नगाधा- रश्च । सह पादपैर्वृक्षैः । तथा अपादान् गूढपदः पातीत्यपादपम् । शून्ये हि सर्पा- दिप्राचुर्यम् । अथवा अतिवैषम्यातसंचरतां पादान् न पातीत्यपादपम् । इह विषे- ति ॥ विषमं विषं येषु पन्नगकुलेषु । द्रोणीगहनेषु तु विषमा विषाणिनो दन्तिनः शृङ्गिणो वा शम्बरादयो यत्र । इह शरेति ॥ शरेण मुञ्जेन असनेन बीजकवृक्षेण च करम्बाणि शबलानि । पुलिन्दवृन्दं तु शरासनं धनुः करे यस्य । तथा बाणाः सन्त्यस्येति बाणि सशरम् । इह वेति ॥ बहु सुखं येषां तानि बहुसुखानि । स्थलं तु बहु विपुलम् । तथा सुष्ठु खानिराकरो यत्र । बहुशब्दो वैपुल्येऽपि । इह सुमेति ॥ सुष्ठु मधुराणि । वनं तु सुष्ठु मधु यत्र तत्सुमधु । तथा रणन्त्य- १ 'तत्सोच्यतामयम्'. २ 'हृष्टहृदयः', 'ह्रतहृदयः'. ३ 'रममाणपामरमिथुन'. ४ 'उल्लासित'. ५ 'केकिफेकारवैः'. ६ 'सेवित'. ७ 'ग्रावविषममप्यग्राव'.