नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 223, कुल 258 में से
संदर्भ में पढ़ेंसप्तम उच्छ्वासः। २०१ का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं यत्र । वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह¹ ॥ ७ ॥ एवमनेकवितर्कभङ्गे²भाजि भूभुजि, भुजबलशालिषु विसर्जितेषु सेवकसामन्तेषु, विरलीकृते परितः परिजने, परिहासपेशलालापाङ्ग- नगोष्ठीप्रक्रमेणातिक्रान्ते स्तोकसमये, भूरिभव्याभरणावरणारमणीय- रूपाः, काश्चिद्रार्द्रक्रमुकफलॅहस्ताः, काश्चित्कक्षावलम्बितताम्बूलीपत्र- पिण्डकरण्डकाः, काश्चित्पिहितपट्टांशुकपटलिकापाणयः, काश्चित्काश्मी- रकरम्बितकस्तूरिकामोदामन्दचन्दनभाञ्जि भाजनानि भजमानाः, का- श्चिद्देवाननालिकेरजम्बीरबीजपूरकपूरितपात्रीपाणयः काश्चिदसंख्यख- ण्डखाद्यविशेषानमुल्यर्माङ्गल्यमाल्याभरणानि च सकौतुकमादाय द- मयन्या प्रहिताः प्रैथमप्रवोधितप्रतीहारसूचिताः प्रविविशुरन्युब्जाः कुब्जिका वामनिकाश्च ॥ क ॥ प्रविश्य च सविस्मयाः स्मररूपातिशायिनं नरपतिमवलोक्य 'सा- धु भोः स्वामिनि, साधु । स्थानेऽभिनिविष्टासि, योग्ये जाताग्रहासि, पात्रे जार्टस्पृहासि, लप्स्यसे जन्मफलम्, अवाप्स्यसि स्त्रीस्वभावभाग्य- म्, अनुभविव्यसि यौवनसुखानि, मानयिष्यसि संर्सारफलमहोत्स- वम् । अहो वन्दनीया सा कापि पुरुषरत्नाकरकुक्षिर्जननी, यैस्यां सकलसंसारनरहारावलीमध्यमहानायकोऽयमुत्पन्नः' इत्यवधारयन्त्यो मनाङ्नमितमौलिदोलितसीमन्तमुक्ताफलाः 'स्वामिन्नयमस्मदीयः प्रणा- मः, अन्यापि कापि काचित्प्रणमति' इत्यभिधाय स्मयमानवदनकम लाः सलीलसवनिपालं प्रणेमुः ॥ ख ॥ का नामेति ॥ यत्र कार्ये पुरुषस्य पौरुषं भवति तत्र का चिन्ता, नैवेत्यर्थः । विधौ दैवे पुनव्वाङ्मनसयोरगोचरे किं चिन्तान्तरम्, तदेव प्रमाणमित्यर्थः । अ- न्तरशब्दो विशेषार्थः । उभयथापि चिन्ता न कार्येति भावः । वाक् च मनश्च वा- ङ्मनसे । 'अचतुर-' इति सूत्रेण सिद्धम् ॥ ७ ॥ एवमिति ॥ अवानानि सार्द्राणि नालिकेरजम्बीरबीजपूराणि तैः पूरिता या पात्री सा पाणौ यासाम् । वानं शुष्कं फलम् । न्युब्जा अधोमुख्यः पश्चाद्भञ्जयोगः । दिदृ- क्षारसेनोर्ध्ववदना इति भावः । एतच्च कुब्जिकादीनां विशेषणम् ॥ क ॥ १ 'चिन्तान्तरं किमप्याह'. २ 'मनेकविध'. ३ 'भङ्गेति क्वचिन्न'. ४ 'फलकहस्ताः'; 'फलहस्तकहस्ताः'. ५ 'नारङ्गनादि'. ६ 'मङ्गल्य'. ७ 'प्रथमप्रधावितप्रती'. ८ 'बद्ध- स्पृहा'. ९ 'स्त्रीसौभाग्यभावभाग्यं'; 'स्त्रीभावभाग्यम्'. १० 'संसारम्'. ११ 'यस्याः'.