नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 222, कुल 258 में से
संदर्भ में पढ़ें२०० नलचम्पूः । 'आपूर्वापरदक्षिणोत्तरककुप्पर्यन्तवेलावना- दाज्ञां मौलिषु मालिकामिव नृपाः कुर्वन्तु दीर्घायुषोः । ब्रह्मस्तम्बविलम्बिकीर्तिलतयोर्विस्तारिलक्ष्मीकयो- रन्योन्यस्य दिनानि यान्तु युवयोः स्नेहेन सौख्येन च ॥ ४ ॥ एवमुपक्रमाविरुद्धविद्वेद्दालापलीलया परस्परमाश्यानतुहिनशिला- शकलाकारकपूरपारीपरिकरितताम्बूलार्पणप्रणयेन च परितुष्टपरिज- नपरिहासगोष्ठ्यां च किमप्यभिनवम्, किमपि पुरातनम्, किमप्यु- त्पाद्यम्, किमपि यथावस्थितं जल्पाकजनजल्पितं भावयन्तौ तस्थतुः स्थवीयसीं वेलाम् ॥ क ॥ अनन्तरमनुसरति मध्यभागमम्बरस्यांशुमालिनि नलः 'स्वगृहान- लंकुर्वन्तु भवन्तः' इति प्रश्रयेण विदर्भेश्वरं विससर्ज ॥ ख ॥ गते च तस्मिन् 'अहो वात्सल्यम्, अहो परमौदार्यम्, अहो लो- कवृत्तकौशलम्, अहो वाग्विभववैदग्ध्यम्, अहो प्रश्रयोऽस्य विदर्भरा- जस्य' इति तद्गुणप्रवणाः कथाः कुर्वन्नाप्तजनपरिजनेन सह मुहूर्तम- वासांचक्रे ॥ ग ॥ चिन्तितवांश्च । 'अनुगुणघटनेन यद्यपीयं भवति हि हस्तगतेव कार्यसिद्धिः । भयतरलभुजंगवक्रवृत्तेस्तदपि न विश्वसिमो वयं विधातुः ॥ ५ ॥ तथाहि । अङ्गाः कङ्गेकलिङ्गवङ्गमगधाः सर्वेऽप्यमी पार्थिवा दिक्पालाश्च मरुत्पतिप्रभृतयः कन्यार्थिनः संगताः । नो विद्मः कथमेष्यतीह घटनां कार्य यतस्तत्क्षणा- न्नानाभङ्गिभिरिन्द्रजालसदृशं दैवं हि चित्रीयते ॥ ६ ॥ अथवा ।
आपूर्वेति ॥ ब्रह्मस्तम्बो ब्रह्माण्डम् ॥ ४ ॥ एवमिति ॥ आश्यानमविलीनं यत्तुहिनं हिमं तस्य शिलाशकलं तदाकारस्य कर्पूरस्य पारी शकलं तया परिकरितस्य संबद्धस्य ताम्बूलस्यार्पणप्रणयेन । अतिश- येन स्थूला स्थवीयसी । 'स्थूलदूर-' इत्यादिना सिद्धम् ॥ क ॥ अन्विति ॥ अनुगुणानामनुकूलानां घटनेन संयोजनेन हि स्फुटं सिद्धिर्हस्तग- तैव भवति । भयेन तरलो लोलः । तरलत्वं चात्र वक्रतातिशयहेतुः ॥ ५ ॥
१ 'विद्वद्गो०' २ 'गोष्ठ्यां च'. ३ 'उत्पाद्यम्' ४ 'भावयन्ताववतस्थतुः'. ५ 'कुम्भ०'.