भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

२०० नलचम्पूः । 'आपूर्वापरदक्षिणोत्तरककुप्पर्यन्तवेलावना- दाज्ञां मौलिषु मालिकामिव नृपाः कुर्वन्तु दीर्घायुषोः । ब्रह्मस्तम्बविलम्बिकीर्तिलतयोर्विस्तारिलक्ष्मीकयो- रन्योन्यस्य दिनानि यान्तु युवयोः स्नेहेन सौख्येन च ॥ ४ ॥ एवमुपक्रमाविरुद्धविद्वेद्दालापलीलया परस्परमाश्यानतुहिनशिला- शकलाकारकपूरपारीपरिकरितताम्बूलार्पणप्रणयेन च परितुष्टपरिज- नपरिहासगोष्ठ्यां च किमप्यभिनवम्, किमपि पुरातनम्, किमप्यु- त्पाद्यम्, किमपि यथावस्थितं जल्पाकजनजल्पितं भावयन्तौ तस्थतुः स्थवीयसीं वेलाम् ॥ क ॥ अनन्तरमनुसरति मध्यभागमम्बरस्यांशुमालिनि नलः 'स्वगृहान- लंकुर्वन्तु भवन्तः' इति प्रश्रयेण विदर्भेश्वरं विससर्ज ॥ ख ॥ गते च तस्मिन् 'अहो वात्सल्यम्, अहो परमौदार्यम्, अहो लो- कवृत्तकौशलम्, अहो वाग्विभववैदग्ध्यम्, अहो प्रश्रयोऽस्य विदर्भरा- जस्य' इति तद्गुणप्रवणाः कथाः कुर्वन्नाप्तजनपरिजनेन सह मुहूर्तम- वासांचक्रे ॥ ग ॥ चिन्तितवांश्च । 'अनुगुणघटनेन यद्यपीयं भवति हि हस्तगतेव कार्यसिद्धिः । भयतरलभुजंगवक्रवृत्तेस्तदपि न विश्वसिमो वयं विधातुः ॥ ५ ॥ तथाहि । अङ्गाः कङ्गेकलिङ्गवङ्गमगधाः सर्वेऽप्यमी पार्थिवा दिक्पालाश्च मरुत्पतिप्रभृतयः कन्यार्थिनः संगताः । नो विद्मः कथमेष्यतीह घटनां कार्य यतस्तत्क्षणा- न्नानाभङ्गिभिरिन्द्रजालसदृशं दैवं हि चित्रीयते ॥ ६ ॥ अथवा ।


आपूर्वेति ॥ ब्रह्मस्तम्बो ब्रह्माण्डम् ॥ ४ ॥ एवमिति ॥ आश्यानमविलीनं यत्तुहिनं हिमं तस्य शिलाशकलं तदाकारस्य कर्पूरस्य पारी शकलं तया परिकरितस्य संबद्धस्य ताम्बूलस्यार्पणप्रणयेन । अतिश- येन स्थूला स्थवीयसी । 'स्थूलदूर-' इत्यादिना सिद्धम् ॥ क ॥ अन्विति ॥ अनुगुणानामनुकूलानां घटनेन संयोजनेन हि स्फुटं सिद्धिर्हस्तग- तैव भवति । भयेन तरलो लोलः । तरलत्वं चात्र वक्रतातिशयहेतुः ॥ ५ ॥


१ 'विद्वद्गो०' २ 'गोष्ठ्यां च'. ३ 'उत्पाद्यम्' ४ 'भावयन्ताववतस्थतुः'. ५ 'कुम्भ०'.

सप्तम उच्छ्वासः। २०१ का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं यत्र । वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह¹ ॥ ७ ॥ एवमनेकवितर्कभङ्गे²भाजि भूभुजि, भुजबलशालिषु विसर्जितेषु सेवकसामन्तेषु, विरलीकृते परितः परिजने, परिहासपेशलालापाङ्ग- नगोष्ठीप्रक्रमेणातिक्रान्ते स्तोकसमये, भूरिभव्याभरणावरणारमणीय- रूपाः, काश्चिद्रार्द्रक्रमुकफलॅहस्ताः, काश्चित्कक्षावलम्बितताम्बूलीपत्र- पिण्डकरण्डकाः, काश्चित्पिहितपट्टांशुकपटलिकापाणयः, काश्चित्काश्मी- रकरम्बितकस्तूरिकामोदामन्दचन्दनभाञ्जि भाजनानि भजमानाः, का- श्चिद्देवाननालिकेरजम्बीरबीजपूरकपूरितपात्रीपाणयः काश्चिदसंख्यख- ण्डखाद्यविशेषानमुल्यर्माङ्गल्यमाल्याभरणानि च सकौतुकमादाय द- मयन्या प्रहिताः प्रैथमप्रवोधितप्रतीहारसूचिताः प्रविविशुरन्युब्जाः कुब्जिका वामनिकाश्च ॥ क ॥ प्रविश्य च सविस्मयाः स्मररूपातिशायिनं नरपतिमवलोक्य 'सा- धु भोः स्वामिनि, साधु । स्थानेऽभिनिविष्टासि, योग्ये जाताग्रहासि, पात्रे जार्टस्पृहासि, लप्स्यसे जन्मफलम्, अवाप्स्यसि स्त्रीस्वभावभाग्य- म्, अनुभविव्यसि यौवनसुखानि, मानयिष्यसि संर्सारफलमहोत्स- वम् । अहो वन्दनीया सा कापि पुरुषरत्नाकरकुक्षिर्जननी, यैस्यां सकलसंसारनरहारावलीमध्यमहानायकोऽयमुत्पन्नः' इत्यवधारयन्त्यो मनाङ्नमितमौलिदोलितसीमन्तमुक्ताफलाः 'स्वामिन्नयमस्मदीयः प्रणा- मः, अन्यापि कापि काचित्प्रणमति' इत्यभिधाय स्मयमानवदनकम लाः सलीलसवनिपालं प्रणेमुः ॥ ख ॥ का नामेति ॥ यत्र कार्ये पुरुषस्य पौरुषं भवति तत्र का चिन्ता, नैवेत्यर्थः । विधौ दैवे पुनव्वाङ्मनसयोरगोचरे किं चिन्तान्तरम्, तदेव प्रमाणमित्यर्थः । अ- न्तरशब्दो विशेषार्थः । उभयथापि चिन्ता न कार्येति भावः । वाक् च मनश्च वा- ङ्मनसे । 'अचतुर-' इति सूत्रेण सिद्धम् ॥ ७ ॥ एवमिति ॥ अवानानि सार्द्राणि नालिकेरजम्बीरबीजपूराणि तैः पूरिता या पात्री सा पाणौ यासाम् । वानं शुष्कं फलम् । न्युब्जा अधोमुख्यः पश्चाद्भञ्जयोगः । दिदृ- क्षारसेनोर्ध्ववदना इति भावः । एतच्च कुब्जिकादीनां विशेषणम् ॥ क ॥ १ 'चिन्तान्तरं किमप्याह'. २ 'मनेकविध'. ३ 'भङ्गेति क्वचिन्न'. ४ 'फलकहस्ताः'; 'फलहस्तकहस्ताः'. ५ 'नारङ्गनादि'. ६ 'मङ्गल्य'. ७ 'प्रथमप्रधावितप्रती'. ८ 'बद्ध- स्पृहा'. ९ 'स्त्रीसौभाग्यभावभाग्यं'; 'स्त्रीभावभाग्यम्'. १० 'संसारम्'. ११ 'यस्याः'.

२०२ नलचम्पूः । अन्योन्यकृतसंबोधनाश्च सहर्षमिदमवोचन् ॥ क ॥ 'हंहो हंसि चकोरि चन्द्रवदने चन्द्रप्रभे चन्दने चम्पे चङ्गि लवङ्गि गौरि कलिके कङ्कोलिके मालति । एतं प्राप्त जन्मजीवितफलं लावण्यलक्ष्मीनिधौ सौभाग्यामृतनिर्झरे नरपतौ निर्वान्तु नेत्राणि वः ॥ ८ ॥ अपिच । कुन्दे सुन्दरि चन्दि नन्दनि हले दिष्ट्याद्य वर्धामहे देव्याः सोऽयमनङ्गसुन्दरवपुः प्राणेश्वरः प्राप्तवान् । तस्याः संप्रति यत्कृते कृशतनोः क्रीडावने शाखिनां दीर्घश्वासमरुद्भिरभिपरुषैर्म्लायन्ति ते पल्लवाः ॥ ९ ॥ अपिच । यं श्रुत्वैव मनो भवालसदृशा देव्या धृतोन्मादया नीयन्ते गृहदीर्घिकातटतरुच्छायाश्रये वासराः । प्राप्तः शोणसरोजपत्रनयनो निःशेषसीमन्तिनी- भ्राम्यन्नेत्रपतत्रिविश्रमतरुः सोऽयं नलो नैषधः' ॥ १० ॥ एवमन्योन्यमभिधाय समीपमुपसृतास्ताः क्षितिपतिस्त्वनुरागतराङ्ग- तरत्तारकेण सादरं दूरोत्क्षिप्तपक्ष्मणा चक्षुषा संतोषपुञ्जमञ्जूषिका इव, आनन्दकदलीरिव, अमृतपङ्कपुत्रिका इव, मधुमासविकसितसहका- रमञ्जरीरिव दमयन्तीप्रेषिताः सस्पृहमवलोकयन् 'इत इत कुशलं त- त्रभवतीनाम्, उपविशत, गृहीत ताम्बूलम्, आवेदयत भवत्स्वामिनी- संदेशम्,' इति ससंभ्रमं संभाबयामास ॥ ख ॥ ताश्च 'महानयं प्रसादः' इति ब्रुवाणाः समुपविश्य 'राजाधिराज,


हंहो इति ॥ हंहो इति संबोधने । एत आगच्छत ॥ ८ ॥ कुन्द इति ॥ चन्देरगन्तादाह्लादार्थार्द्गौरादित्वात्ङीष् । वर्धामह इति हर्षाति- शयोक्तिः ॥ ९ ॥ यं श्रुत्वेति ॥ नेत्राण्येव पतत्रिणः पक्षिणस्तेषां विश्रामतरुः ॥ १० ॥ एवमिति ॥ एवं परस्परमभिधाय समीपं गतास्ताः प्रेमोर्मिंचञ्चत्कनीनिकेन सादरं दूरोत्क्षिप्तपक्ष्मणा चक्षुषा सस्पृहमवलोकयन् क्षितिपतिः ससंभ्रमम् 'इत एत-' इत्याद्यालपत् ॥ संतोषपुञ्जमञ्जूषिका इत्यादि तासां विशेषणानि ॥ ख ॥


१ 'एतत्प्राप्तन'; 'एतत्प्राप्त' । २ 'तिः सानुराग' । ३ 'इतश्च इत' । ४ 'स्व' । ५ 'राजाधिराजं' ।

सप्तम उच्छ्वासः । २०३ राजीवदलदीर्घाक्षी क्षेमवार्तां पृच्छति 'न नाम देवस्यापघने घर्मांशुघ- र्मोर्मिनिर्मितः कोऽपि खेदः समपद्यत, न वा समविषममार्गलङ्घनश्र- मेण कापि परिमाथिनी परिजनस्य ग्लानिरभूत्, बहूनि दिनानि दे- वेनाध्वनि विलम्बितम् । इदं च तया प्राणेश्वरस्य प्रियं प्राभृतं प्रहि- तम्, इदमुक्तम्, इदमेकान्तसंदिष्टम्, इदं प्रकाशप्रश्रयापलीलायितम्, इति राजानमञ्जसा जजल्पुः ॥ क ॥ सोऽपि स्मरव्यापारकोरकिताभिः शृङ्गाररससेकपल्लविताभिर्मुग्ध- स्मितांशुमञ्जरिताभिरमृतच्छटाभिरिव वाग्भिः किमपि सरलाभिः, कि- मपि नर्मोक्तिकुटिलाभिः, किमपि कथयन्, किमपि पृच्छन्, किमपि संदिशन्, अनु जल्पमनुजल्पितम्, अनु हासमनुहसितम्, अनु सुँभाषितमनुसुभाषितम्, अनु प्रियमनुप्रीतम्, प्रसादप्रदानोद्दीपितोद्दामा- नुरागास्ताः कुर्वन्नतिचिरमिव गोष्ठीलीलयावतस्थे ॥ ख ॥ 'अहो नुँ खल्वस्य नरपतेः, अनश्लीलं शीलम्, अनाहार्यमौदार्यम्, अवञ्चनं वचनम्, अदैन्यं दानम्, असमयं स्मितम्, अविचारगोचरं गाम्भीर्यम्' इति भावयन्त्यस्ताश्च कांचिदुचितविनोदैरेतिवाह्य वेलाम्, अनुभूय किमपि गोष्ठीसुखम्, आख्याय च किंचिदिव दमयन्तीविनो- द्विलासव्यतिकरम् 'आज्ञापयतु देवोऽस्मान्गमनाय, भवद्वार्तामृत- पानार्थिनी देवी त्वरिताँऽस्मत्प्रत्यावृत्तिमवेक्षमाणा तिष्ठति' इत्यभिधा- यानुमँता यथागतमगच्छन् ॥ ग ॥ गतासु च तासु, प्रगल्भं प्रज्ञायाम्, अचरमं वाचि, कुशलं कला- सु, निपुणं नीतौ, सप्रतिभं सभायाम्, आश्चर्यभूतमाहूय पर्वतकना- मानं वामनकमुपायनीकृत्य कर्कशकर्कन्धूफलस्थूलोज्ज्वलमुक्तावलीमु- ताश्चेति ॥ ननामेति । देवस्य, अपघने शरीरे न नामेत्यभ्युपगमगर्भायां पृ- च्छायाम् । नवेति पक्षान्तरगर्भायाम् ॥ क ॥ सोऽपीति ॥ नल एवमेवं कुर्वन् गोष्ठीविलासेनास्थात् । जल्पितमनुलक्ष्यीकृत्य जल्पितं कुर्वन् । ता उद्दीपितानुरागाः कुर्वन् इत्येवं कुर्वञ्शब्द उभयत्रापि संब- ध्यते । 'अनु जल्पमनुजल्पितम्' इति यदा क्वचित्पाठः । तदा अनुजल्पितमिति क्रियाविशेषणम् । अनुगतं जल्पितं यत्रेति । अनु जल्पमित्यादिषु तु अनुयोगे द्वि- तीया ॥ ख ॥ १ 'स्वेद'० २ 'सुरहितः' क्वचित्पाठः. ३ 'अनुप्रियमप्रमेयप्रसाद'० ४ 'क्वचिन्न'. ५ 'कांचिदप्यविदितामुचित'० ६ 'त्वरितमस्म'. ७ 'नुमतास्ता'० ८ 'प्रतिभायाम्'. ९ 'मौक्तिकावली'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

२०४ नलचम्पूः । रयभव्यभूषणांशुकादिसंमानदानादरपरितोषितेन तेन पुष्कराक्षपुरः- सरं किंनरमिथुनेन सह दमयन्तीं प्रति प्रेषयामास ॥ क ॥ स्वयं च शाङ्खिकमुखमरुत्पूर्यमाणशङ्खस्वनविभिन्नभांकारिमध्याह्न- भेरीरवेण निर्यद्रेलाविलासिनीचरणरणाभरणरणन्मणिनूपुरझंकारेण च निवेद्यमाने मध्याह्नसमये माध्याह्निककरणायोदतिष्ठत् ॥ ख ॥ क्रमेण च निःसृते समस्तसेवकजने, विश्रान्ततूर्यतालगीतासु निर्यात- नर्तकीविरहखेदादिव मूकीभूतासु नृत्यशालासु, निःशब्दतया सुप्तास्वि- वार्थिकारिककुटीषु, शून्यतया मध्याह्नातन्द्रीमूर्च्छितेष्विव समस्तमण्ड- पेषु, संक्रान्तसेवाविलासिनीचरणकुङ्कुमपदपङ्क्तितया विकीर्णविकसि- तरक्तारविन्द इव प्रकाशमाने राजभवनाङ्गणे, घनं ध्वनन्तीषु भोज- नावसरशङ्खकाहलासु, प्रधावमानेषु प्रत्यास्वादकजनेषु, परिमृज्यमाना- स्वतिथिसत्रशालासु, सज्जीक्रियमाणेष्वग्रांशनब्राह्मणेषु, प्रवेश्यमानासु गोग्रासयोग्यासु कपिलासु पुण्यगवीषु, प्रक्षाल्यमानेषु वायसबलिस्त- म्भशिखरफलकेषु, बर्हिर्दीयमानेषु, दीनानाथभिक्षुकभैक्ष्यपिण्डेषु, समु- पलिप्यमानासु भोजनस्थानवेदीषु संचार्यमाणेषु चकोरपञ्जरेषु, निवे- द्यमाननैवेद्यासु पूज्यराज्याधिदेवतासु, वैश्वदेवानुतिगन्धवाहिनि वहति विविधान्नपाकपरिमलमनोहरे महानसमरुति, निर्वर्तितमज्जनादिक्रि- याकलापे भजति भोजनभुवं भूपुजि, वहिः सूपकारकलकलः समुल्ल- लास ॥ ग ॥ 'आज्यं प्राज्यमभिन्नकुन्दकलिकाकल्पश्च शाल्योदनो धूपामोदमनोहरा शिखरिणि स्वादूनि शाकानि च। पेयास्वाद्यकवल्यलेह्यबहुलं नानाविधं भुज्यतां भोज्यं भीममहानृपस्य सुतया संप्रेषितं सैनिकः ॥ ११ ॥ अहो नु खल्वमी मत्स्यैर्मांसैरिवरहितमुदीच्यप्रतीच्यप्राच्यजनाः प्रि- क्रमेणेति ॥ महानसं पाकस्थानम् ॥ ग ॥ आज्यमिति ॥ अभिन्नकुन्दकलिकया कल्पते मीयते उपमीयते इति याव- त् । कलेरदन्तात् 'अचो यत्' इति सूत्रेण यत् । केचित्तु पवर्गोपधं पठन्ति ॥११॥ १ 'संतोषिते'. २ 'भांकारि क्वचिन्नास्ति'; 'मध्याह्नभांकारिभेरी'. ३ 'निवेद्यमानम- ध्याह्नसमयः'. ४ 'कारिकाकुटीषु'. ५ 'विन्दप्रकरे'. ६ 'स्वनन्तीषु'. ७ 'काहलहासु'. ८ 'प्रवाद्यमानेषु'. ९ 'सन'. १० 'क्वचिन्न'. ११ 'क्ष'. १२ 'शुकचकोर'. १३ 'सूपो- ष्णमनो'. १४ 'मत्स्येति क्वचित्'. १५ 'प्राच्यप्रतीच्य'; 'प्राच्यप्रतीच्यपरिजनाः'.

यसक्तवो भोक्तुमेव न जानन्ति ॥ क ॥ विरलः खलु दाक्षिणात्येषु मांसाशनव्यवहारः ॥ ख ॥ तदाकर्ण्यतां भो नैषधाः ॥ ग ॥ ‘आज्यप्राज्यपरोन्नकूरकवलैर्मन्दां विधाय क्षुधां चातुर्जात कसंस्कृतो नु शनकैरिक्षो रसः पीयताम् । संभारस्पृहणीयतेमनरसानास्वाद्य किंचित्ततः स्निग्धस्तब्धदधिद्रवेण सरसः शाल्योदनो भुज्यताम्’ ॥ १२ ॥ राजा तु प्रतीहार ‘विनिश्चीयतां किमयं बहिः कलकलव्यतिकरः’ इत्यभिधाय तत्कालोयोग्यपरिजनपरिवृतो भोक्तुमुपाविशत् ॥ घ ॥ त्वरितं च गत्वागतश्च स प्रतीहारो विज्ञापयांबभूव ॥ ङ ॥ ‘देव, दमयन्त्या प्रहिताः सूपकाराः सैन्यजनम्, आब्राह्मणान्त्य- जगोपालबालकम्, आकरितुरगवाहनम्, आसामन्तनियुक्तकम्, आ- स्वाद्यैस्तैस्तैरन्नविशेषैर्भोजयन्ति ॥ च ॥ लग्नाः सर्वतो दृश्यन्ते पर्वताः पक्वान्नस्य, राशयः शाल्योदनस्य, स्तूपाः सूपस्य, निर्झराः सर्पिषः, सिन्धवो मधुनः, निकराः शर्करायाः, स्रोतांसि दधिदुग्धयोः, शैलाः शाकानाम्, निपानानि पानकानाम्, कु- ल्याः फलरसानाम्, कूटाः कषायाम्ललवणतिक्तमधुरोप Reelशानाम्।छ। एवमकार्पण्यमिच्छया भोजितं सैन्यम् ॥ ज ॥ अपिच । भुक्तान्ते घृतदिग्धहस्ततलयोरुद्वर्तनं चन्दनं पश्चान्नागरखण्डपाण्डुरदलैस्ताम्बूलदानक्रमः । एकैकस्य मृणालतन्तुमृदुनी दत्ते ततो वाससी देव्या किंचिदचिन्त्यमेव भवतः सैन्यातिथेयं कृतम् ॥ १३ ॥


आज्यप्राज्यमिति ॥ ‘त्वगेलापत्रकं चैव त्रिगन्धं च त्रिजातकम्। तदेव मरि- चैर्युक्तं चातुर्जातकमुच्यते’ तेन संस्कृतः कृतगुणान्तरश्चातुर्जातकसंस्कृतः । स- रलः सुनिष्पन्नदीर्घतण्डुलपाकजः । अतिक्किन्नतादिदोषरहितश्च । दधिद्रवो वस्त्रगा- लितं दधि ॥ १२ ॥ भुक्तान्त इति ॥ वनवासदेशोद्भवानि नागवल्लीदलानि नागरैर्विदग्धैर्बन्ध्यन्ते खण्ड्यन्ते इति नागरखण्डसंज्ञानि ॥ १३ ॥


१ ‘वरान्न’. २ ‘निधाय’. ३ ‘संसार’. ४ ‘सरलः’. ५ ‘शाल्योदनं’. ६ ‘ततः’.

२०६ नलचम्पूः । इयं च रसवती देवस्य तया स्वहस्तपल्लवपरिमलनसंस्कृतैः पाकवि- शेषैरलंकृत्य स्वमुद्रया मुद्रिता प्रहिता' इत्यभिधाय व्यरंसीत् ॥ क ॥ राजा तु मनाक्तरलितशिराः 'सस्मितमहो निरतिशयमुदारगम्भी- रमुचितव्यवहारहारि लीलायितं तस्याः, स्पृहणीयपरिमलश्चायमपूर्व इव कोऽपि पाकक्रमः ॥ ख ॥ तथाहि । इदमम्लमप्यनम्लास्वादम्, इदमीषत्कषायमपि मधुरतां नीतंम्, इदमेकरसमप्यनेकरसीकृतम्, इदमतिमृष्टतयाऽमृतमप्यतिशेते, रसे- वत्यामपि रसवती विदर्भराजात्मजा' इति विभावयंस्तांस्तया प्रहिता- न्पाकविशेषानादरेणास्वादयामास ॥ ग ॥ चिन्तितवांश्च 'षड्रसाः किल वैद्येषु भरतेऽष्टौ नवापि वा । तया तु पद्मपत्राक्ष्या सर्वमेकरसीकृतम् ॥ १४ ॥ तथाहि । अग्रस्थामिव चेतसः पुर इव व्यालम्बमानां दृशो- र्जल्पन्तीमिव रुन्धतीमिव मनाङ्मुग्धं हसन्तीमिव । निद्रामुद्रितलोचना अपि वयं तां विश्वरूपायितां पश्यामो बहिरन्तरे निशि दिवा मार्गेषु गेहेषु च ॥ १५ ॥ एवमवधारयन् अतृप्त इव तया प्रहितेषु स्वहस्तपकर्णाकरसविशे- षेषु, असंत्तुष्टस्तत्कथायाम्, आचम्य, चन्दनागुरुपरिमलेन पाण्डुरि- इयं चेति ॥ स्वहस्ताभ्यां परिमलनं यथोचितगन्धद्रव्यक्षेपेण सुरभीकरणम्॥क॥ इदमिति ॥ रसवत्यामपि रसवती रसिका रागिणीति यावत् । तात्पर्यवतीति च ॥ ग ॥ षडिति ॥ एकरसीकृतमुत्कृष्टस्वादीकृतम् । चमत्कृतत्वात् । आत्मविषये ए- कानुरागीकृतं वा । यदनेकरसं तत्कथमेकरसीभवेदिति विरोधं पुनरर्थस्तुशब्द उ- द्भावयति ॥ १४ ॥ तथाहीति ॥ अनेनात्मानुभवसंभावनाद्वारेणैकरसत्वमेव व्यनक्ति ॥ अग्रस्थामिति ॥ विश्वं रूपमस्येति विश्वरूपो हरिः ॥ १५ ॥ एवमिति ॥ उत्तम्भितस्य तत्कालारोपितस्य जङ्गमस्य चित्रकूटाख्यस्यांलि- ङ्गसौधस्य स्कन्धभूमिमारुह्य तस्यामितस्ततः परिक्रामन्, निकटतरे नदीसंभेदोदके १ 'तैस्तैः पाक'. २ 'आनीतम्'. ३ 'मिष्टतया'. ४ 'तद्रसव'. ५ 'तांस्तान्'. ६ 'रसेषु'. ७ 'परिमलपाण्डुरित'.

तपाणिपल्लवः, लवङ्गकक्कोलकरम्बितताम्बूलमुत्सत्पर्कपूरपरिमलमादा- य, विकीर्णविविधकुसुमप्रकरेहारिणि यक्षकर्दमाच्छछटोच्छोटितपर्य- न्तभित्तिभागे लम्वितप्रलम्बजाम्बूनदपद्मदाम्नि धूपधूमामोदिनि चूर्णि- तकर्पूररजुरेखाभाजि भोजनानन्तरमपरेऽपराह्नविनोदमण्डपे मनागिव- श्रम्य रणरणकाक्रान्तहृदयो दूरदिगन्तालोकनकुतूहलितः सैरित्तीरो- त्तम्भिताभ्रंलिहसौधस्कन्धभूमिमारुह्य च तस्यामूर्ध्व एव ध्रियमाणमा- यूरातपत्रयुगलः, सलीलालसपदैरितस्ततः परिक्रामन्, नेदीयसि सरि- त्संगमाम्भसि मध्याह्नमखिलमवगाहनसुखमनुभूय तीरमुत्तीर्णासु तिमिरशङ्कया कृतदूरचङ्क्रमणेअश्वकवाकचक्रवालैराकुलमवैलौक्यमाना- सु, पुलिनपांसुविहरणविरामे विकसितविविधवीरुन्धि रोधांसि रद- न्तीषु दन्तिपङ्क्तिषु दत्तदृष्टिः, विरलनलिनीपत्रान्तरालसुप्रोत्थितस्य, किंचिद्देवाञ्चितचटुलचञ्चोः, चरतः, चटुलचञ्चरीकिणि विकचकम- लवने, राजहंसकुलकलापस्य करिकलभदन्तदण्डपाण्डुबिसकाण्डभङ्ग- टंकारानार्णयन्, अपराह्नमज्जनागताभिः कुण्डिनपुरपुरंधिभिराश्च- र्यरसोर्मिमुषितनिमेषैर्निष्कम्यनीलोत्पलपलाशलीलायमानैर्नेत्रपुटैरापी- यमानमुखेन्दुद्युतिः, दर्शिततरङ्गभ्रूमङ्गया, दूरोच्छलद्बालशफरीछलेन विस्फारितविलोचनया, सरित्संगमसलिलाधिदेवतयापि विलोक्यमा- नरूपसंपत्तिरिव, क्षणमविरलचलच्चञ्चरीकचक्रचुम्बिताम्बुरुहासु क्री- डाकमलसरसीषु, क्षणमुपान्तपङ्कीभूतमञ्जरितसहकारराजिषु स्मरैर्वा- जिवाह्यालीषु, क्षणमुन्मिषत्कुसुममनौहरितरुलतारमणीयासु भवनो-


कृतजलक्रीडासु, तमोभ्रान्त्या चक्रैराकुलमालोक्यमानासु, कृतधूलीस्नानासु, तटीः पाटयन्तीषु दन्तिपङ्क्तिषु न्यस्तदृष्टिः, वने चरतो हंसवृन्दस्य बिसभङ्गरवाञ्शृण्वन्, कुण्डिनस्त्रीभिर्दृश्यमानमुखेन्दुश्रीः, उच्छलच्छफरीछलविलोकतिया जलदेवतया वी- क्ष्यमाणरूपसंपदिव, क्षणमेकं सरसीषु क्षणं चूतालीषु क्षणं गृहालीषु क्षणमवरोध- भवनपङ्क्तिषु क्षणं पुरपद्धतिषु विश्रान्तनेत्रो नलश्चिरमस्थात् । सादरेक्षणं नेत्रपा- नम् । तच्च पत्रपुटैर्यदुक्तमिति नेत्रपुटैरापीयमानेत्युक्तम् । कण्टकादिदोषरहितासु त- रुराजिराजितासु च भूमिषु वाहवाहना । तथा च- 'रम्य समतला लोष्टकीलकण्ट- कवजिता । वाह्याली भूमिरम्यर्थंतरुराजिविराजिता' इति । एतदेव पङ्कीभूतेत्यादि-


१ 'प्रकरप्रकारहारि'. २ 'छटाच्छोटित'. ३ 'सरित्तीरोत्तंसिता'. ४ 'मारुरुह', 'आरुह्य च'. ५ 'क्रियमा'. ६ 'पत्रमण्डलः'. ७ 'मालोक्यमा'. ८ 'वनान्तराल'. ९ 'किंचिदिवा'. १० 'क्षणं वाजिवा'. ११ 'मनोहारिणीषु तरलितरमणीषु; 'तरलत्तार- मणीयासु'.

द्यानमालासु, क्षणमुत्पतत्पताकापटपल्लवराजितासु भीमभूपालान्तः- पुरप्रासादपङ्क्तिषु, क्षणमवकीर्णकुसुमरङ्गावलीरम्यास नगरवीथीषु वि- श्रान्तविलोचनश्चिरमवतस्थे ॥ क ॥ चिन्तितवांश्च । 'नोद्याने न तरङ्गिणीपरिसरे नो रम्यहर्म्ये न वा पुष्यत्पुष्करगर्भगुञ्जदलिषु क्रीडातडागेष्वपि । वात्याघूर्णितशीर्णपर्णतरला दृष्टिर्मदीयाधुना लुब्धलुब्धकभीषितेव हरिणी श्रान्तापि विश्राम्यति ॥ १६ ॥ अपिच । न गम्यो मन्त्राणां न च भवति भेषज्यविषयो न चापि प्रध्वंसं व्रजति विहितैः शान्तिकशतैः । भ्रमावेशादङ्गे कमपि विदधदङ्गमसमं स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ १७ ॥ किंचान्यदद्भुतम् । पौष्पाः पञ्चशराः शरासनमपि ज्याशून्यमिक्षोर्लता जेतव्यं जगतां त्रयं प्रतिदिनं जेताप्यनङ्गः किल । इत्याश्चर्यपरंपराघटनया चेतश्चमत्कारय- न्व्यापारः सुतरां विचारपदवींवन्ध्यो विधेर्वन्द्यताम् ॥ १८ ॥ एवमनेकविधवितर्केतरलितहृदये कुण्डिननगरवीथीविश्रान्तदृशि शनैरान्दोलितमल्लिकाक्षपल्लवस्य मृदुतरतरङ्गितसरितः कमलवनवायोः समर्पितवपुषि निषधभूमूजि, भुजंगनिर्मोकधवले वसानो वाससी, नोक्तम् । हिङ्गुलहरितालादिविचित्रवर्णकवचित्रहेतुत्वात्कुसुमान्येव रङ्गावली विचित्र- वर्णकुसुमभक्तिः ॥ क ॥ नोद्यानेति ॥ विश्राम्यतीति प्रत्येकं योज्यम् ॥ १६ ॥ न गम्य इति ॥ भ्रमः संदेहः । स चात्र दमयन्तीलोभविषयः ॥ १७ ॥ पौष्पा इति ॥ अत्र प्रथमोऽपिपादः शरासनस्य ज्याशून्यस्य शरापेक्षया द्वितीयश्च जेतुरनङ्गस्य प्रतिदिनजेतव्यजगत्त्रयापेक्षया वैषम्यव्यञ्जकः ॥ १८ ॥ एवमिति ॥ मल्लिकाक्षो हंसविशेषः । चिरदृष्टस्यापि पर्वतकानाम्रो वामनस्या- १ 'प्रासादपदपङ्क्तिषु'. २ 'हर्म्येषु वा, हर्म्येऽपि वा'. ३ 'भायितेव; भापितेव'. ४ 'विन्ध्यो' । ५ 'उन्मथित' । ६ 'पल्लवस्पर्शमृदुतर' ।

सप्तम उच्छ्वासः । २०९ रणन्मणिकंकणैराकर्पूरं पूरितप्रकोष्ठः श्रीखण्डपिण्डपाण्डुरिततनुरपूर्व इव पर्वतकः प्रतीहारसूचितः प्रविवेश ॥ क ॥ प्रविश्य च प्रकटितप्रणयप्रणामः प्रभुणा सविस्मयस्मितहुंकारेणा- र्भिभाषितः स्तोकान्नमितभ्रूसंज्ञया विज्ञापयितुमारेभे ॥ ख ॥ 'देव, श्रूयताम् । इतो गतवानहम् । अनन्तरमतिशयितस्वर्गा- न्मार्गाननेकविधचर्चाचारूणि चत्वराणि विलङ्घ्य, विहितमनःप्रसादा- न्प्रासादानवलोकयन्, इतस्ततः सस्मितस्मरालसचलेलाविलासि- नीविकारकूणितकोणेक्षणाक्षिप्तहृदयः, सेवाविरामनिःसरत्सामन्तसं- कुलम्, अविरलगलन्मधुमञ्जरीपुञ्जपिञ्जरितसरसहकारवननिकुञ्ज- पुञ्जितपुंस्कोकिलकुलकलरवरमणीयोद्यानमालावलयितम्, उपान्त- कृतमणिमन्दुरामन्दिरनिबद्धस्निग्धपोषोत्कर्षहर्षहेषितराजवल्लभतुरं- गम्, उत्तुङ्गशृङ्गसंगतमङ्गलध्वजम्, अङ्गणोत्सङ्गरङ्गतक्रीडाकुरङ्गवि- हंगम्, अभग्नाङ्गरक्षिरक्षितकक्षान्तररममाणराजकुमारकम्, अतिसू- क्ष्ममुक्ताफलरचिततरङ्गरम्यरङ्गरेखाराजिराजिताजिरं राजभवनमवि- शम् ॥ ग ॥ अतिमनोहारिणि यत्र सुपुष्करमालानि क्रीडावापीपयांसि नागयूथं च, सारवाणि लीलोद्यानसारसमिथुनानि सेवककविवृन्दं च, विल- म्बितानि काञ्चनकुङ्कुमदामानि गीतं च, अनलसङ्गानि लक्षप्रदीपव- र्तिमुखानि प्रेक्षणकं च ॥ घ ॥ पूर्वत्वमिह पूर्वमभूषितस्य संप्रति पारितोषकभूषणभूषितत्वादितोदन्तप्रश्नतात्प- र्याद्वा ॥ क ॥ देव श्रूयतामिति ॥ मार्गॉश्चत्वराणि च विलङ्घ्य, प्रासादान्पश्यन्, इंदं रा- जभवनमविशामिति संबन्धः । चर्चा गन्धोदकसेचनपुष्पप्रकारादिवातार्बशात्प्रस्तावा- न्रलप्रवेशादिलक्षणा चामुण्डापि । मणिमन्दुरेत्यत्र षष्ठीसमासः ॥ ग ॥ अतीति ॥ यत्र राजभवने । सुपद्मश्रेणीनि पयांसि । यूथं च सुष्ठु पुष्करं शुण्डाग्रं यस्य तथोक्तम् । आलानमर्गलनस्तम्भोस्यास्तीति । तथा सह आरवैः सार- वाणि । वृन्दं च सारोत्कृष्टा वागिर्यस्य तथाविधम् । विशेषेण लम्बितानि लम्बाय- मानीकृतानि । गीतं च स्वरकृतविलम्बोपेतं तानोपेतं च । अनलेन ज्वालालक्षणेन सङ्गो येषाम् । प्रेक्षणकं च नालसमनलसमोजखि । उच्चैः स्थाने गीयमानत्वात् । तथा गानमस्यास्तीति । इनिः । लक्षसंख्यद्रव्यपतीनां हि वेश्मसु यावल्लक्षं दीपा ज्वाल्यन्ते इति ख्यातिः ॥ घ ॥ १ 'आभिभूषित'. २ 'स्तोको'. ३ 'हेपितोत्कर्षहर्षितराज'. ४ 'मयूरध्वज'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

२१० नलचम्पूः । किं बहुना । सुस्थितेतजोराशेर्लक्ष्मीजनकस्य रत्ननिलयस्य । तस्योपरि प्लवन्ते वार्थेरिव वर्णकाः सर्वे ॥ १९ ॥ तत्र च चलत्कञ्चुकिसंकुलं पातालमिवान्तःपुरममन्तालयं प्रविश्य विविधकुसुम संपत्संपन्नपुण्यपादपपरिकारिताङ्गणवापीपरिसरचलचक्र- वाके चन्द्रशालाशालिनि, शैलूष इवानेकभूमिकाभाजि, धनंजय इव सुभद्रान्विते, कुरुवंशाख्यान इव चारुचित्रविचित्रभित्तिभाजि, तुहिनाचलोच्चकूटायमाने सुधाधवलस्कन्धे धाम्नि ध्वजावलीविलै- सत्सप्तसप्तिसप्तौ सप्तमभूमिकायाम्, इतोमुखवातायने निविष्टाम्, इतो गतास्तोः कुब्जवामनकन्यास्तवद्वार्ताव्यतिकरैर्विनोदारम्भिणीः संभाषयन्तीम्, अनवरततरललोचनालोकनैरनीलोत्पलोपहारमिव त्व- दधिष्ठितायै दिशे दिशन्तीम्, उत्तरीयांशुकस्याच्छतया दृश्यमा- नमदनबाणव्रणकिणानुकारिकस्तूरिकापङ्कपत्नलताङ्कितकुचकलशश्रि- यम्, अष्टमीशशाङ्कशकलशोभाभाजि ललाटपट्टे स्मरैपरवश- त्रिपुरुवैरिव 'ममेयं ममेयं ममेयम्' इति संहर्षात्कृतं स्ववर्णा- नुकारिस्वीकारचिह्नमिव कुङ्कुममृगमदमलयजरसरचितत्रिपुण्ड्रकरेखा- त्रितयमुद्वहन्तीम्, आलोहितेन चे त्वद्वार्तामृतपानबालप्रवालप्रणा- सुस्थितेति ॥ तेजोराशिश्चैडवानलः प्रतापचयश्च । लक्ष्मीर्विष्णुपत्नी शोभा च । तथाभूतस्य तस्य सागरोपमस्योपरि वर्णकाः स्तोतारः प्लवन्ते तरन्ति । अप- रिच्छिन्नगुणत्वादलब्धमध्या बाह्यमेव वर्णयन्तीति भावः । वारो जलानि धीयन्ते- ऽस्मिन्निति वार्धिः ॥ १९ ॥ तत्र चेति ॥ कञ्चुकितो महल्लका उरगाश्च । ( बहुनिलयं शेषनिलयं च ।) प्रविश्य ईदृग्विधे धाम्नि गृहे, सप्तमभूमिका सप्तमकक्षः, तत्र स्थिते इतोमुखे एव हस्तादिसंकेतकथिते एव, वातायने गवाक्षे, निविष्टामसीनां, दमयन्तीमद्राक्षमिति संबन्धः । चन्द्रशाला शिरोगृहम् । शैलूषो नटः । भूमिका गृहकक्षणा वेषधारणं च । शोभनानि भद्राणि गृहावयवविशेषास्तैरन्विते । पक्षे सुभद्रार्जुनपत्नी । चारुचित्रेण विचित्रा भित्तिर्भजते । अन्यत्र चित्रविचित्रौ शान्तनुसुतौ । तौ च कुरुवंश्यानां भित्तिभूतौ । तत्कलत्राभ्यामम्बिकाम्बालिकाभ्यां पाण्डुधृतराष्ट्रयोरुत्पन्नत्वात् । तथा ल्माः सप्तसप्तेरादित्यस्य सप्तयोऽश्वा यत्र तस्मिन् । अष्टमी शशाङ्कशकलेति । १ 'अनन्तमयं पातालमिव तदन्तःपुरं प्राविशम्'. २ 'चक्रवाकचक्रवाले'. ३ 'विलसत्सप्त'. ४ 'सप्तभूमि'. ५ 'तास्ताः'. ६ 'व्यतिकरे'. ७ 'स्मरबाणपरवश'. ८ 'ममेयमिति संहर्षा'. ९ 'इति कल्पितम् अस्माभिः'. १० 'द्वार्ता...

सप्तम उच्छ्वासः । २११ लकेनेव कर्णप्रणयिना बालपल्लवेन विराजितवदनाम्, आसन्नमणि- भित्तिदर्पणसंक्रान्तप्रतिबिम्बतया त्वत्संगमवाञ्छाकृतसंतापसंविभा- गार्थमिव बहून्यात्मरूपाणि सृजन्तीम्, आसन्नवर्तिनीभिर्वीणादिवि- नोदविदुषीभिः समानवयोवेषाभिः सखीभिः सरस्वतीमिव सकलवि- द्याधिदेवताभिरुपास्यमानाम्, उन्मिषत्कुसुमाभरणरमणीयाभिश्चामर- ग्राहिणीभिर्वनदेवताभिरिव शरीरिणीं वसन्तमासश्रियमुपसेव्यमानाम्, अनुलेपनपुष्पपाणिभिः प्रसाधिकाभिर्भवानीमिवानेकनाकनायकना- रीभिराराध्यमानाम्, इतस्ततो निपतन्मण्डनमणिमयूखमञ्जरीजा- लैच्छलेनामान्तमिव कान्तिरसविसरमुत्सृजन्तीम्, अशेषार्ङ्गावयवेषु प्रतिबिम्बितैरासन्नचित्रभित्तिरूपकैर्मायाविभिः सुरासुरैरिव विधीय- मानाश्लेषाम्, अग्रस्थिते पद्मरागमणिदर्पणे कन्दर्पातुरे रागिणि शशि- नीव करुणयार्पितच्छायाम्, अशेषजगद्विजयास्त्रशालामिव मन्मथस्य, सङ्केतवसतिमिव समस्तसौन्दर्यगुणानाम्, अधिदेवतामिव सौभाग्यस्य, विपणिमिव लावण्यस्य, शिल्पसर्वस्वपरिणामरेखामिव विधातुः, अर्न- न्तसंसाररोहणैकरत्नकन्दलीं दमयन्तीमद्राक्षम् ॥ क ॥ ईक्षणामृतशलाकामवलोक्य च तामतिहर्षविस्मयकौतुकोत्तानित- चक्षुश्चिन्तितवानहम् ॥ ख ॥ 'इयं हि स्मरराजराजधानी मञ्जनवलभी विलासविहगानाम् । शृङ्गाररङ्गशाला हरति न बाला मनः कस्य ॥ २० ॥ अपि च । दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं कमपि । इत्यपवादभयादिव हरिणाक्षी वेधसा विहिता ॥ २१ ॥ खण्डशशिनो हि श्रियं ललाटं श्रयति । त्रयाणां सत्त्वरजस्तमसां पुरुषास्त्रिपुरुषाः । यथा—'न बाधतेऽस्य त्रिगणः परस्परम्' इत्यत्र त्रयाणां धर्मादीनां गणः । यथा च चण्डसिंहकृते चण्डिकाचरिते—'प्रियत्रिवर्गश्चकमे सकामम्' इति । कर्मधा- रयस्तु संज्ञायामेव । मणिदर्पणलक्षणे शशिनि कारुण्यादर्पितप्रतिकृतिमित्यर्थः । अवज्ञातो हि रागी म्रियते । संसारो रोहणगिरिः, दमयन्ती च रत्नप्ररोहशला- का ॥ क ॥ दग्ध इति ॥ दग्धशब्दो निन्दार्थे । दग्धो निन्द्यो विधिः ( यतः ) सर्वगुण- १ 'सशरीरिणीं'. २ 'नाकिनाय'. ३ 'च्छलेनाङ्गेष्वमान्तमिव'. ४ 'अशेषावयवेषु'. ५ 'उपस्थिते'. ६ 'अनून'. ७ 'अद्राक्षीत् '. ८ 'कामिवावलोक्य'. ९ 'वसतिः'.

२१२ नलचम्पूः । किं चान्यत् । लावण्यपुण्यपरमाणुदलं तदन्य- दन्यः स चापि निपुणः खलु कोऽपि वेधाः । येनाद्भुता कृतिरियं विहिता विशिष्ट- कार्येण कारणविशेषगुणोऽनुमेयः ॥ २२ ॥' एवं वितर्कयन्तं सापि मां पुष्कराक्षसूचितमुचितसंभ्रमेण मना- ग्वलितकंधराकदलीकम्पितकर्णोत्पलमैवलोक्य स्वागतप्रश्नानन्तरम् 'अहो बहोः कालादभूतसुप्रभातमद्योद्द्योतितमिव तमस्काण्डपिण्डीकृतं कुण्डिनम्, अकाण्डाडम्बरितवसन्तविकासोत्सव इवाभवत्सरित्संग- मोपकण्ठवनविभागः, चिरात्संपन्ना सलक्षणा दक्षिणा दिगियम्, उन्नि- द्रित इव सह्याद्रिः, अमृतद्रवार्द्रित इवोज्जीवितोऽयं जनः' इत्यभिधाय 'पर्वतक, कच्चित्कुशली परबलदलदावानलो नलः' इति स्मितमुग्धम- धुरया गिरा समभाषत ॥ क ॥ अहमपि प्रणम्य यथोचितमनन्तरमतिवरितसखीजनोपनीतमास- नमध्यास्य देवेन प्रहितानि तान्याभरणोपायनान्युपानैषम् ॥ ख ॥ आदरेण तया गृहीतेषु तेषु, बहुमते मयि, प्रक्रान्ते त्वद्गुणग्रहणगो- परिपूर्णं कमपि जनं न विधत्ते इति योऽसावपवादः । तद्द्यादिव 'तेनासौ सुन्दरी विहिता' तेन विधिना अपवादोद्विग्नेन । असाविति । साक्षाद्दृष्टा । सुन्दरीति । समग्र- गुणसौन्दर्योपेता । अतस्तस्यां सृष्टायां स्रष्टुरपवादो न भविष्यतीति । 'हरिणाक्षी' इति पाठस्तु अक्षिमात्रसौन्दर्यार्थो न समग्रगुणसुन्दरतां वक्तीत्युपलक्षणपरतया निर्वाह्यः ॥ २१ ॥ लावण्येति । येन निरुपमलावण्यदलपाटवेन वेधा दमयन्तीं सृष्टवान् । तद्द- लपाटवमन्यत् । वेधाश्च । दलपाटवं वेधाश्च जगन्निर्माणविलक्षणावित्यर्थः । तद्द्व- यमपि विशेषयन्नाह—येनेत्यादि ॥ येन दलपाटवेन वेधसा चेति ज्ञेयम् । तत्रार्थे हेतुमाह—विशिष्टेत्यादि ॥ २२ ॥ एवमिति ॥ 'सरराज-' इत्यादिपद्यत्रयेणैवमूहमानं पुष्कराक्षेण निवेदितं मां 'हे पर्वतक कच्चित्कुशली परसैन्यदावानलो नलः' इति वचनेन दमयन्ती संभाषितवती । दावानलोपमानेन आत्मनोऽपि विरहसंतापहेतुत्वं नलस्य व्यनक्ति । मनाग्वलितेत्याद्यवलोकनक्रियाविशेषणम् ॥ क ॥ १ 'इदं क्वचिन्न' . २ 'एवं हि तर्कयन्तं' . ३ 'मालोक्य' . ४ 'इवोज्जितो' . ५ 'सप- रितोषमादरेणेव; आदरेण च' . ६ 'त्वद्गुणगोष्ठीम्य'.

सप्तम उच्छ्वासः । २१३ ष्ठीव्यतिकरे, नर्मसुखालापलीलयातिक्रामति स्तोककालकलापे, पुष्क- राक्षोऽप्यभाषत ॥ क ॥ ‘देवि१, विज्ञापयामि यद्यभयम् ॥ ख ॥ एवमनुश्रुतमस्माभिः ‘किल सकलनाकिनायकपुरंदरपुरःसराः स- र्वेऽपि लोकपालास्त्वामभिलषन्तोऽन्तःकरणारण्यलभ्रमदनदावानला- नलमायान्तमभ्यर्थितवन्तः यथा महानुभावा भवन्ति हि भवादृशोः परोपकारव्रतधर्माणः, तदेष प्रार्थ्यसे स्वप्रयोजननिरपेक्षेण त्वयास्मदर्थे दमयन्ती वरणीया, इति’ ॥ ग ॥ तदेवि, देवदूतकार्येणागतो निषेधेश्वरः ॥ घ ॥ पृच्छतु वा देवी पर्वतकम्’ ॥ ङ ॥ इति श्रुत्वा पुष्कराक्षभाषितम्, ईषद्विषाद्विलक्षस्मितस्मेरां दृशं मयि साचि संचारितवती ॥ ॥ च ॥ मयापि संवादिते पुष्कराक्षवचने तस्मिन्, आकस्मिककठोरका- ष्ठप्रहारव्यथामिवानुभवन्ती, विन्दतु वीणाक्वणो माधुर्यमितीव प्रतिप- न्नमौनव्रता, लभेतां कर्णोत्पले परभागमितीव मुकुलितनयना, प्राप्नोतु शोभां मुक्तावलीदीप्तिजालमितीव मुक्तस्मिता, गच्छतु छायां कण्ठा- वलम्बिनी चम्पकमालेयमितीवाङ्गीकृतवैवर्ण्या, लभतां लीलकमल- मिदं सौभाग्यमितीवोच्छ्वसितवदना, सा क्षणमभूत् ॥ छ ॥ तत्र च व्यतिकरे विगलितविलासम्परसमाकस्मिकजातभङ्गशृङ्गारम् । मूकितमिव मूर्च्छितमिव मुद्रितमिव भवनमिदमासीत् ॥ २३ ॥ राजा तु ‘पर्वतक, ततस्ततः’ ॥ ज ॥ पर्वतकोऽपि ‘देव, श्रूयताम् ॥ झ ॥ अतः परम् ईषन्निःसृतकुन्दकुङ्गलसहग्दन्तप्रभामञ्जरी रोचिष्णुस्मितमन्थरां मयि दृशं संचारयन्ती मनाक् । अस्यन्ती करपद्मभृङ्गमधरे बन्धूकबुद्ध्यागतं वारंवारमकम्पयत्तचलितस्तोकावतंसं शिरः ॥ २४ ॥ ततः परम् । वारितवारविलासिनीचाटुवचनक्रमम्, आकस्मिक- विस्मयविस्तृतस्मितविलासम्, अतनुतुहिनाहतनवनलिनदलदीनदीर्घ-


१ ‘देव विज्ञापयसि’. २ ‘भवादृशः’.

२१४ नलचम्पूः । क्षणम्, उष्णसरलश्वासारम्भविषमविषादविच्छायिताननेन्दुद्युति, तस्याः स्थानकमवलोक्य सखेदं सखीजनेन 'देवि, भवन्निःश्वासपवनप- रंपरया पर्यस्त इवास्ताचलहस्तावलम्बनमयमाश्रयति भगवान्भानुः, इयं च सौभाग्यशालिनि नले निलीनचित्तायास्तव लोकपालपार्थिव- प्रार्थनाव्यतिकरमिममाकर्ण्य लज्जितेव पिहितश्रवणा दूरे भवति वास- रश्रीः, इमानि निश्चलनिलीनमधुपनिपीयमानगर्भमधूनि संकोचयन्ति लोचनानीव कमलानि, संविभागीकृतविषादा इव विलासवयस्याः सरसीसरोरुहिण्यः, इमाश्च 'कथमस्मत्पतयो मनुष्यकन्यकां कामयन्ते' इतीर्ष्याशोकवशादिव दिशः श्यामायन्ते, तत्प्रेष्यतामयं पर्वतकः' इत्य- भिधीयमाना कथंकथमपि चिन्तान्तरायतिरस्कृतालापमीषदुन्नमय्य मुखं समुल्लसदशोकपल्लवानुकारि करतलमुत्तानीकृत्य मामविस्मरणी- यसंमानदानावसाने व्यसर्जयत् ॥ क ॥ विसर्जितश्च तया तत्कालमाविर्भवद्विषादवशसंपन्नमौनया न पुनः संभाषितोऽस्मि, न वीक्षितोऽस्मि, न पृष्टम्, न संदिष्टं किमपि, केवलं चलन्नेत्रविभागप्रान्ततरत्तारया दृष्टया समवलोक्य समुत्तानितकरक- मलसंज्ञयैव कथमपि संप्रेषितः 'कष्टम्' इति चिन्तयन्नलसालसैरसम- ञ्जसपातिभिः पश्चिममुखैरिव पादैरिहायातवान् ॥ ख ॥ तदेव दमयन्ती देवदूतकार्याङ्गीकरणव्यतिकरमिममाकर्ण्य परं विषादमापद्यत ॥ ग ॥ अन्यच्च । मन्ये च । परिम्लानच्छायाविरहितसनिद्रद्रुमवनं पतत्पक्षीभूतध्वनितशकुनोन्नादितनभः । वियोगव्याकूतादुपनदि रुदच्चक्रमिथुनं विषीदन्त्यां देव्यामिदमपि विषण्णं जगदभूत् ॥ २५ ॥ इत्यभिधाय स्थिते पर्वतके तत्कालोचितमिममेवार्थं समर्थयन्नवस- रपाठकः पपाठ ॥ घ ॥

ततः परमिति ॥ तस्याः स्थानकमवस्था । लज्जितेव पिहितश्रवणा । श्रवणं
नक्षत्रं श्रोत्रं च ॥ क ॥
-----------------------------------------------------------------
१ 'लोकपालपार्थिवयोः'. २ 'इमान्याश्चर्यनिश्चल'. ३ 'सरसीषु'. ४ 'उन्नम्य'.
५ 'पल्लवाकारि'. ६ 'सानेऽपि न किंचिदवादीत् व्यसर्जयच्च'. ७ 'दृशा'. ८ 'लालसै-
रिव'. ९ 'रिहाहमागतवान्'. १० 'व्याघाता'.

सप्तम उच्छ्वासः। २१५ 'कन्यामन्यानुरक्तां कथममृतभुजो मानुषीं कामयन्ते तन्वङ्गीः सस्मितास्याः स्मरविवशदृशो नाकनारीर्विहाय। वक्तुं खेदादिवैतद्दिनपतिरधिकं व्रीडयैवावनम्रः कोपेनेवारुणांशुः प्रविशति वरुणस्यालयं पश्चिमाब्धिम् ॥२६॥' राजा तु तदाकर्णयन्, अवतीर्य सौधशिखरतलाल्लीलापदप्रचारेण संध्यावन्दनैविधिरामोपविष्टजैपदद्विजजनसनाथसैकते सरित्संगमे संध्याह्निकमकरोत् ॥ क ॥ ततश्च पश्चिमायां दिशि स्फुरति संध्यारागे, रुधिरासवपिपासया कालवेतालमण्डलीव प्रधावमाना, त्रिभिः स्रोतोभिः प्रवृत्तया गङ्गया सह संघर्षादिवानैकैः स्रोतसां सहस्रैर्गगनतलमिव प्लावयन्ती कालि- न्दीव, व्यजृम्भत तिमिरपटलपङ्क्तिः ॥ ख ॥ अनन्तरं च चन्द्रमसा गर्भिणी पौरंदरी दिक्केतकीपुष्पपत्रपाण्डि- मानमंगमत् ॥ ग ॥ उल्लास चै चण्डतरमारुतान्दोलितोदयाद्रिद्रुमकुसुमकिंजल्करेणु- राजिरिव कपिशा शशाङ्कद्युतिः ॥ घ ॥ अथ क्रमेण पूर्वपयोधिपुलिनाद्राजहंस इव गगनमन्दाकिनी मुच्च- लितः, केसरिकिशोर इवोदयगिरिगुहागह्वरात्तिमिरकरियूथपृष्ठलग्नः, स्फटिकमयः पूर्णकुम्भ इव जगद्विजयप्रस्थानस्थितस्य मङ्गलाय मकर- कतोः केनापि सज्जीकृतः, श्रीखण्डपिण्ड इव मण्डनाय माहेन्द्रदिशा हस्तश्लेषोपलालितः, शङ्खिकापुष्पस्तबक इव गगनश्रिया श्रवणे संयो- जितः, कुम्भ इवैकः प्राचीवनविहारिसुरकरीन्द्रस्य प्रकटतां गतः, वासरविरामवल्लीमुल्लय कन्द इवोद्धतो निशाशवरिकया, पाण्डुपुष्पा- क्षतगुञ्जापुञ्ज इव सिद्धवधूभिरुदयाचलंचतुष्पथे विरचितः, गण्ड- शैल इव कैलासशिखराल्लुठित्वागतः, सीमन्तमौक्तिकमिव पूर्वदि- ङ्मुखस्य, सितातपत्रमिव पूर्वाशाधिपतेः पुरंदरस्य, क्रीडामौक्ति- कन्यामन्येति ॥ 'वक्तुं खेदात्' इत्यस्योपयोगि 'वरुणस्यालयम्' इति । वाचो हि श्रोतारमपेक्षन्ते ॥ २६ ॥ अनन्तरमिति ॥ गर्भिणी हि केतकपत्रवत्पाण्डुतां धत्ते ॥ ग ॥ अथेति ॥ वनगहने हि विचरतः करिणः प्रायेणैक एव कुम्भस्थलविभागो १ 'गाङ्गः'. २ 'विधीति क्वचित्'. ३ 'नृपद्विज'. ४ 'मगात्'. ५ 'प्रचण्ड'. ६ 'यूथशङ्कया'. ७ 'माहेन्द्रदिशा'. ८ 'पुष्प इव'. ९ 'गच्छतः'. १० 'चलचलच्चतुः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

२१६ नलचम्पूः । ककन्दुक इव कालकुमारस्य क्षीरडिण्डीरपिण्डसदृशो दृष्टिपथमवत- तार तारापतिः ॥ क ॥ तदनु च मदनमिति युवानं यौवराज्येऽभिषिञ्च- न्कृतकुमुदविकासा भासयन्दिङ्मुखानि । इमममृततरङ्गैः प्लावयञ्जीवलोकं गगनमवजगाहे मन्दमन्दं मृगाङ्कः ॥ २७ ॥ तदनन्तरम्, आप्लावितमिव मुक्तमर्यादेन दुग्धवार्धिना, सिक्तैर्भू- भागाङ्गणमिवामन्दचन्दनाम्बुच्छटाभिः, विलिप्तदिग्भित्तिकमिव सौ- न्द्रसुधापङ्कपिण्डितैः, पूरितमिवोत्सर्पिकर्पूरपांसुवृष्ट्या, प्रविष्टमिव स्फाटिकमणिमहामन्दिरोदरदरीम्, उत्प्लवमानमिव द्रवीभूततुहिना- चलमहाप्लवेन, भुवनमासीत् ॥ ख ॥ ततश्च । कैलासायितमद्रिभिर्विटपिभिः श्वेतातपत्त्रायितं मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः । मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये ॥ २८ ॥ अपिच । सर्वेऽपि पक्षिणो हंसाः सर्वेऽप्यैरावता गजाः । जाताश्चन्द्रांशुभिः सर्वे रौप्यपुञ्जाः शिलोच्चयाः ॥ २९ ॥ अपिच । सुधापङ्कोपलिप्तेव बद्धेव स्फटिकोपलैः । विलीनहिमदिग्धेव मेदिनी ज्योत्स्नया कृता ॥ ३० ॥ अपिच । सौधस्कन्धतलानि दीपपटलैः कम्पेन पाण्डुध्वजा हंसाः पक्षविधूननेन मृदुना निद्रान्तनादेन च । लक्ष्यते । पाण्डुगुञ्जा हि मङ्गलाय स्युः । उदयाचलशब्दश्रुतेः सोमागमनसूचा । क्रीडार्थं मौक्तिककन्दुकः ॥ क ॥ मदनमिती ॥ यौवराज्याभिषेकाद्यनेककार्यव्यग्रतया मन्दमन्दावगाहः ॥ २७॥ १ 'हा'. २ 'संसिक्त'. ३ 'सारं'. ४ 'स्फटिक'. ५ 'दरीपु'. ६ 'सप्तम्यन्तम्'. ७ 'मृत्पिण्डेन'. ८ 'पक्षतिधून'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

लक्ष्यन्ते कुमुदानि पद्धदरुतैरुत्सर्पिगन्धेन च क्षुभ्यत्क्षीरपयोधिपूरसदृशे जाते शशाङ्कोदये ॥ ३१ ॥ तथाविधे च चन्द्रोदयप्रपञ्चे हठादुत्कण्ठयाभिभूयमानो निषधना- थश्चिन्तयांचकार ॥ क ॥ 'इतश्चन्द्रः सान्द्रान्किरति किरणानप्रिपरुषा- नितोऽपि प्रोन्मीलत्कुमुद्वनवायुर्विलसति । इतः कादम्बानां ध्वनितमपि निद्रालसदृशा- मसह्यः सर्वोऽयं मनसिजमहिम्नः परिकरः ॥ ३२ ॥ अपि च । इतो मकरकेतनः किरति दुर्निवारः शरा- नितोऽपि वयमाकुलाः कुलिशपाणिदत्ताज्ञया । तदेतदतिसंकटं यदिह कैश्चिदुक्तं जनै- रितो विषमदुस्तटी भयमतो महान्व्याघ्रतः ॥ ३३ ॥ तदिदानीं किमिह कर्तव्यम्, कथं वा हास्येनाप्यवन्ध्यवचसामल ङ्घनीयः खल्वादेशो लोकपालानाम्' इति चिन्तयन्नेकाकी पन्द्यामेव विनिर्गत्य निजनिकेतनात्समन्तादापतद्भिः शशाङ्ककिरणैर्जालैः परिजनै- रिख परिदर्शितवर्त्मा कैश्चित्काललवैः कैलासकूटायामानाट्टालकाभो- गभव्यं भीमभूपालभवनमवाप्य कन्यान्तःपुरं पुरंदरवरप्रदानाददृश्य- मानरूपः प्रासादपालकैः प्रविवेश ॥ ख ॥ प्रविश्य च दूरादभिमुखागतेनानवरतदह्यमानकृष्णागुरुधूपधूमव- र्तिनर्तकेन बहलयक्षकईमाम्वुसिक्तसौधस्कन्धसंधिसंचारिणा गन्धवा- हेन कृताभ्युत्थान इव, परिक्रम्य स्तोकमन्तरम् 'इत इतो देवी वर्तते' इति गीतगोष्ठीस्थितसखीगीतझंकारेणाहूयमान इव, यत्रास्ते दमयन्ती तत्सौधपृष्ठमारूढवान् ॥ ग ॥ आरुह्य च मनागव्यवहितोऽनुपलक्ष्यमाण इव, वेणुवीणाकणानुसा- रिणा कोमलकाकलीप्रायेण किंनरीप्रमुखसखीनां गीतेन विनोद्यमा-

प्रविश्य चेति ॥ कर्पूरकस्तूरिकादीनां क्षोदो यक्षकर्दमः ॥ ग ॥ आरुह्य चेति ॥ ईषत्कलोऽस्यास्तीति काकली । 'निषादः काकलीसंज्ञो द्विश्रु- त्युत्कर्षणाद्भवेत्' । कज्जलेन कलङ्किता कलङ्क इवाचरितवती नयनोत्पलपक्ष्मपा-

१ 'क्षारपयोधि'. २ 'इतोऽपि विषमा तटी म', 'इतो विषमदुस्तटीतटमि'. ३ 'किरण प्रभाभी'. ४ 'कुत्रचिन्नास्ति'. ५ 'अक्षनप्रमवाव्द'. ९S

नाम्, अलकवल्लरीमध्यनिवेशिततारानुकारिमौक्तिकेने कज्जलकलङ्कि- तनयनोत्पलपक्ष्मपालिना मुखेन सचन्द्रगगनस्पर्धया भूतलमपि पूर्णो- दितेन्दुमण्डलमिवापादयन्तीम्, उच्चकुचमण्डलविलोलया सस्मरसप्त- र्षिग्रहगणपङ्क्त्येव हारलतया कृतकण्ठकन्दलाश्लेषाम्, ईषत्कपोलपालिं परामृशता चाटुकारेण वसन्तसमयप्रहितदूतेनेव कर्णलग्नेन कुसुमम- ञ्जरीद्वितीयेन बालपल्लवेन विराजितवदनाम्, अच्छाच्छैः कस्तूरिका- पङ्कपत्रभङ्गैर्भुजंगैरिव लावण्यामृतरक्षागतैरलंकृतभव्यभुजशिखराम्, आसन्नभुवि विकीर्णैः पाण्डुपुष्पप्रकरैर्गगनादवतीर्य रूपालोकनकुतूह- लिभिर्नक्षत्रैरिव परिवृताम्, ऊरुनितम्बमण्डलस्पर्शसुखलम्पटतया नीवीप्रान्तपुञ्जिततरङ्गं क्षीरोदमिव वस्त्रतां गतमच्छपाण्डु नेत्रपट्टं परिदधानाम्, 'अहमेव त्वया स्वयंवरे वरणीयः' इत्यार्थितया पादल- ग्नेन शेषोरगेणेव रौप्यनूपुरवलयेन विराजितवामचरणपल्लवाम्, वि- विधविलासवर्त्तिकाभिरिवाकारिताम्, अमृतद्रववर्णकैरिव चित्रिताव- यवाम्, आनन्दकन्दलैरिव घटिताम्, मोहनमणिशिलायामिवोत्की- र्णाम्, शृङ्गारदारुणीवोत्कुट्टिताम्, वशीकरणपरमाणुभिरिव विनिर्मि- ताम्, मँदनमृत्पिण्डेनेव निष्पादिताम्, वज्रलेपपुत्रिकामिव दृशोः, आकर्षणमणिशलाकामिव हृदयस्य, जीवनौषधिमिवानुरागस्य, जय- पताकामिव मदन॑स्य, बहलचन्दनाम्बुच्छटार्द्रितभुवि विकीर्णसुरभिप- रिमलमिलन्मधुकररवानुमेयपाण्डुरपुष्पप्रकरे मसृणसितसुधाबन्धपि- च्छले सौधस्कन्धे ज्योत्स्नामृतस्पर्शसुखमनुभवन्तीम्, अच्छांशुस्फटि- कमणिपर्यङ्किकाङ्कभाजं दमयन्तीमलब्धनिद्रामद्राक्षीत् ॥ क ॥ तां चावलोक्य विचिन्तितवान् ॥ ख ॥ 'अहो स्थानेऽभिनिवेशो लोकपालानाम् । अशेषसुखनिधानाय को न स्पृहयतिँ ॥ ग ॥ मन्ये च ।


लियंन्त्र । कलङ्क इवाचरति स्मेत्याचारे क्विन्निष्टे ॥ अच्छेति ॥ अमृतं हि भुजंगै रक्ष्यते । विविधविलासवर्त्तिकाश्चित्रकूर्चिकास्ताभिराकारितामालिखिताम् । आकार- शब्दादाचारक्विबन्तान्निष्ठायां सिद्धम् ॥ क ॥


१ 'मौक्तिकेनवीनकज्ज' . २ 'उरुनितं', 'गुरुनि'. ३ 'वोत्कुट्टिताम्'. ४ 'मदनमदमृ- त्पिण्डेन', 'मदनचन्दनकुंकुमह्ररिद्रामृ'. ५ 'शृङ्गारस्थ'. ६ 'वानयम्'. ७ 'स्पृहयति भट्ट- सोमेश्वरः'

सप्तम उच्छ्वासः । २१९ विस्फारिततारैक्षगणैरिमामेव पश्यन्नयमाकाशः सग्रहोऽभूत् ॥ क ॥ अयं च चन्द्रश्चन्दनपाण्डुभिः करैरिमामेव परामृशन्मदनानल्दा- ह्मयीं व्रणलेखां कलङ्कच्छलेन हृदयेनोद्वहति ॥ ख ॥ अयमपि समीपोद्यानमारुतोऽस्याः समर्पितकुसुमगन्धः शनैरुत्त- रीयांशुकमाक्षिपन्मदनातुरस्तिर्यक् पतति ॥ ग ॥ सर्वथा २ जितं मनुष्यलोकेन, यत्रैवंविधमचिन्त्यम्, अनालोचनगो- चरम्, अप्रतिमरूपम्, अद्भुतम्, अमूल्यमुदपद्यत स्त्रीरत्नम् ॥ घ ॥ आः प्रजापते, परिणतशिल्पोऽसि । संसार, सनाथोऽसि । मदन, महोत्सवानसि । चक्षुः, कृतार्थमसि । हृदय, पूर्णमनोरथमसि । दूरागमनश्रम, सफलोऽसि ॥ ङ ॥ सकलयुवजनमनोमधुकराकृष्टिकुसुमितलतिके निजनयननिर्जित- राजीवे जीव चिरम् ॥ च ॥ तथाहि । लक्ष्मीं बिभ्राणयोः कांचिच्चञ्चद्भ्रूभङ्गभागयोः । बलिं यामो वयं तन्वि तवाब्जसदृशोर्दृशोः ॥ ३४ ॥ अपि च । किंनरवदनविनिर्गतपञ्चमगीतामृते श्रुतिं श्रयति । हरति हरिणीदृशो दृक् सालसवलिता च लुलिता च' ॥ ३५ ॥ विस्फारीति ॥ तारा नक्षत्राणि कनीनिका च । ग्रहाः सूर्यादयो भूताद्यभि- निवेशाश्च ॥ क ॥ अयमपीति ॥ अन्योऽपि स्मरातुरः कुसुमगन्धं कस्तूरिकादि चार्पयन्संव्या- नाकर्षणपरस्तिर्यक्पतति ॥ ग ॥ आः प्रजेति ॥ ‘संसार’ इत्यादीनि प्रत्येकं संबोधनानि ॥ ङ ॥ लक्ष्मीमिति ॥ हे तन्वि, तव नेत्रयोर्वयं बलिं याम उपहारीभवाम इति परम- प्रीतिगर्भा लोकोक्तिः । अब्जानि लक्ष्मीं बिभ्रति । तथा भ्रूरेव भङ्गस्तरङ्गः स भाग एकदेशो ययोः । यदा तु ‘चञ्चद्भ्रूभृङ्गसङ्गयोः’ इति पाठः तदा भ्रुवावेव भृङ्गौ तयोः सङ्गो यत्र ॥ ३४ ॥ किंनरेति ॥ यत एव हरिणीदृक्, अत एव गीतानुरागलक्षणं हरिणी हेवाक- मनुसरति ॥ ३५ ॥ १ 'अयमपि समीरणः समीपोद्यानगतोऽस्याः'. २ 'सर्वथा स्वलोकायितं म'. ३ 'कृतश्रवणासङ्गयोः'.