नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 234, कुल 258 में से
संदर्भ में पढ़ें२१२ नलचम्पूः । किं चान्यत् । लावण्यपुण्यपरमाणुदलं तदन्य- दन्यः स चापि निपुणः खलु कोऽपि वेधाः । येनाद्भुता कृतिरियं विहिता विशिष्ट- कार्येण कारणविशेषगुणोऽनुमेयः ॥ २२ ॥' एवं वितर्कयन्तं सापि मां पुष्कराक्षसूचितमुचितसंभ्रमेण मना- ग्वलितकंधराकदलीकम्पितकर्णोत्पलमैवलोक्य स्वागतप्रश्नानन्तरम् 'अहो बहोः कालादभूतसुप्रभातमद्योद्द्योतितमिव तमस्काण्डपिण्डीकृतं कुण्डिनम्, अकाण्डाडम्बरितवसन्तविकासोत्सव इवाभवत्सरित्संग- मोपकण्ठवनविभागः, चिरात्संपन्ना सलक्षणा दक्षिणा दिगियम्, उन्नि- द्रित इव सह्याद्रिः, अमृतद्रवार्द्रित इवोज्जीवितोऽयं जनः' इत्यभिधाय 'पर्वतक, कच्चित्कुशली परबलदलदावानलो नलः' इति स्मितमुग्धम- धुरया गिरा समभाषत ॥ क ॥ अहमपि प्रणम्य यथोचितमनन्तरमतिवरितसखीजनोपनीतमास- नमध्यास्य देवेन प्रहितानि तान्याभरणोपायनान्युपानैषम् ॥ ख ॥ आदरेण तया गृहीतेषु तेषु, बहुमते मयि, प्रक्रान्ते त्वद्गुणग्रहणगो- परिपूर्णं कमपि जनं न विधत्ते इति योऽसावपवादः । तद्द्यादिव 'तेनासौ सुन्दरी विहिता' तेन विधिना अपवादोद्विग्नेन । असाविति । साक्षाद्दृष्टा । सुन्दरीति । समग्र- गुणसौन्दर्योपेता । अतस्तस्यां सृष्टायां स्रष्टुरपवादो न भविष्यतीति । 'हरिणाक्षी' इति पाठस्तु अक्षिमात्रसौन्दर्यार्थो न समग्रगुणसुन्दरतां वक्तीत्युपलक्षणपरतया निर्वाह्यः ॥ २१ ॥ लावण्येति । येन निरुपमलावण्यदलपाटवेन वेधा दमयन्तीं सृष्टवान् । तद्द- लपाटवमन्यत् । वेधाश्च । दलपाटवं वेधाश्च जगन्निर्माणविलक्षणावित्यर्थः । तद्द्व- यमपि विशेषयन्नाह—येनेत्यादि ॥ येन दलपाटवेन वेधसा चेति ज्ञेयम् । तत्रार्थे हेतुमाह—विशिष्टेत्यादि ॥ २२ ॥ एवमिति ॥ 'सरराज-' इत्यादिपद्यत्रयेणैवमूहमानं पुष्कराक्षेण निवेदितं मां 'हे पर्वतक कच्चित्कुशली परसैन्यदावानलो नलः' इति वचनेन दमयन्ती संभाषितवती । दावानलोपमानेन आत्मनोऽपि विरहसंतापहेतुत्वं नलस्य व्यनक्ति । मनाग्वलितेत्याद्यवलोकनक्रियाविशेषणम् ॥ क ॥ १ 'इदं क्वचिन्न' . २ 'एवं हि तर्कयन्तं' . ३ 'मालोक्य' . ४ 'इवोज्जितो' . ५ 'सप- रितोषमादरेणेव; आदरेण च' . ६ 'त्वद्गुणगोष्ठीम्य'.