नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 233, कुल 258 में से
संदर्भ में पढ़ेंसप्तम उच्छ्वासः । २११ लकेनेव कर्णप्रणयिना बालपल्लवेन विराजितवदनाम्, आसन्नमणि- भित्तिदर्पणसंक्रान्तप्रतिबिम्बतया त्वत्संगमवाञ्छाकृतसंतापसंविभा- गार्थमिव बहून्यात्मरूपाणि सृजन्तीम्, आसन्नवर्तिनीभिर्वीणादिवि- नोदविदुषीभिः समानवयोवेषाभिः सखीभिः सरस्वतीमिव सकलवि- द्याधिदेवताभिरुपास्यमानाम्, उन्मिषत्कुसुमाभरणरमणीयाभिश्चामर- ग्राहिणीभिर्वनदेवताभिरिव शरीरिणीं वसन्तमासश्रियमुपसेव्यमानाम्, अनुलेपनपुष्पपाणिभिः प्रसाधिकाभिर्भवानीमिवानेकनाकनायकना- रीभिराराध्यमानाम्, इतस्ततो निपतन्मण्डनमणिमयूखमञ्जरीजा- लैच्छलेनामान्तमिव कान्तिरसविसरमुत्सृजन्तीम्, अशेषार्ङ्गावयवेषु प्रतिबिम्बितैरासन्नचित्रभित्तिरूपकैर्मायाविभिः सुरासुरैरिव विधीय- मानाश्लेषाम्, अग्रस्थिते पद्मरागमणिदर्पणे कन्दर्पातुरे रागिणि शशि- नीव करुणयार्पितच्छायाम्, अशेषजगद्विजयास्त्रशालामिव मन्मथस्य, सङ्केतवसतिमिव समस्तसौन्दर्यगुणानाम्, अधिदेवतामिव सौभाग्यस्य, विपणिमिव लावण्यस्य, शिल्पसर्वस्वपरिणामरेखामिव विधातुः, अर्न- न्तसंसाररोहणैकरत्नकन्दलीं दमयन्तीमद्राक्षम् ॥ क ॥ ईक्षणामृतशलाकामवलोक्य च तामतिहर्षविस्मयकौतुकोत्तानित- चक्षुश्चिन्तितवानहम् ॥ ख ॥ 'इयं हि स्मरराजराजधानी मञ्जनवलभी विलासविहगानाम् । शृङ्गाररङ्गशाला हरति न बाला मनः कस्य ॥ २० ॥ अपि च । दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं कमपि । इत्यपवादभयादिव हरिणाक्षी वेधसा विहिता ॥ २१ ॥ खण्डशशिनो हि श्रियं ललाटं श्रयति । त्रयाणां सत्त्वरजस्तमसां पुरुषास्त्रिपुरुषाः । यथा—'न बाधतेऽस्य त्रिगणः परस्परम्' इत्यत्र त्रयाणां धर्मादीनां गणः । यथा च चण्डसिंहकृते चण्डिकाचरिते—'प्रियत्रिवर्गश्चकमे सकामम्' इति । कर्मधा- रयस्तु संज्ञायामेव । मणिदर्पणलक्षणे शशिनि कारुण्यादर्पितप्रतिकृतिमित्यर्थः । अवज्ञातो हि रागी म्रियते । संसारो रोहणगिरिः, दमयन्ती च रत्नप्ररोहशला- का ॥ क ॥ दग्ध इति ॥ दग्धशब्दो निन्दार्थे । दग्धो निन्द्यो विधिः ( यतः ) सर्वगुण- १ 'सशरीरिणीं'. २ 'नाकिनाय'. ३ 'च्छलेनाङ्गेष्वमान्तमिव'. ४ 'अशेषावयवेषु'. ५ 'उपस्थिते'. ६ 'अनून'. ७ 'अद्राक्षीत् '. ८ 'कामिवावलोक्य'. ९ 'वसतिः'.