भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

१८० नलचम्पूः । तव सुभग रम्यदशया तयैव रक्तान्तनेत्रमण्डनया । चीनांशुकयुगलिकया क्रियतामङ्गे परिष्वङ्गः ॥ ४० ॥ अयं च । उज्ज्वलसुवर्णपदकस्तस्याः संदेशकथनदूत इव । रुचिरमणिकर्णपूरः श्रयतु श्रवणान्तिकं भवतः ॥ ४१ ॥ किंचान्यत् । आनन्ददायिनस्ते कुण्डिननगरे कदा भविष्यन्ति । त्वन्मुखकमलविलोलनागरिकानयनषट्पदा दिवसाः ॥ ४२ ॥ एवमाविर्भावितप्रश्रयमुज्ज्वलितानुरागमुँ¹दीरितादरमो²प्यायितप्रणय- मभिधाय स्थितवति किंनरे, नरेश्वरो दमयन्तीप्रहितप्राभृतानि स्वयमा- दरेण गृहीत्वा, 'सुन्दरक, तस्याः संदेश एवास्माकं कर्णपूरः, परिकरोऽयं मणिकर्णावतंसः । तस्याः सुगृहीतेन नाम्नैव वयं मुद्रिताः प्रपञ्चोऽय- मङ्गुलिमुद्रालंकारः । तदनुरागेणैव वयमाच्छादिताः पुनरुक्तमाच्छाद- नयुगलमपरं च युवां प्रेषयन्त्या तया किं न प्रहितमस्माकम्, किम- न्यत्त्वत्तोऽपि प्रियं प्राभृतं भविष्यतीति । तदेहि शिविरमनुसरामः' इत्यभिधाय बहु मानयं³न्किंनरमिथुनमतिचपलकपि⁴कुलान्दोलिततरुशि- खराग्रगलित⁵शिलास्फालनस्फुटत्फलरससुगन्धिना स्रवत्कुसुममकरन्द- द्रवार्द्रितपांसुपटलेन वर्त्मना निजावासमुदचलत् ॥ क ॥ उच्छलिते च पश्चिमाम्भोनिधिसलिलक्षालितपादपल्लवे वासार्थिनी- वास्तगिरिगह्वरं विशति वियद्वीथीपान्थे विवस्वति, क्रमेण तस्यां दिशि दिनकररथचक्रचङ्क्रमणचूर्णनोच्चलन्मन्दरगिरिगैरिकाधूलिपटलोल्लोल इवोह्लास संध्यारागः ॥ ख ॥ तवेति ॥ दशा वस्त्रान्तसूत्रमवस्था च । नेत्रं चित्रवस्त्रविशेषोऽक्षि च ॥४०॥ उज्ज्वलेति ॥ उज्ज्वलं सुवर्णं पदं यस्य । पक्षे उज्ज्वलान्यग्राम्याणि शोभ- नवर्णानि पदानि वचनानि यत्र ॥ ४१ ॥ एवमिति ॥ कर्णपूरोऽवतंसः कर्णयोः पूरणं च । मुद्रिता अपरस्त्रीनाम्नो दु- ष्करप्रवेशा कृता ॥ क ॥ उच्छलित इति ॥ पान्थो हि सलिलेन चरणौ प्रक्षाल्य वासागारं प्रविश- ति ॥ ख ॥ १ 'मुद्दीपितादर'. २ 'आप्यायितप्राण'. ३ 'मानयंश्च तत्किं'. ४ 'करा'. ५ 'गलि- ततलशिला'.

पष्ठ उच्छ्वासः । १८१ तेन च संवलितानि विजृम्भितुमारभन्त जम्भनिसुम्भनककुभि वि- पि॑नजरत्कृकवाकुकंधरारोमरोचींषि तमांसि ॥ क ॥ ततश्च नष्टचर्याक्रीडयेवादर्शनमायान्तीषु दिक्कन्यकासु, वनमुनि- होमधूमगन्धेन संतर्प्यमाणासु वनदेवतासु, निद्रान्धसिन्धुरयूथेष्विवो- न्नतवप्रस्थलीषु परिणमत्सु शनैस्तिमिरेषु, जाते मनाग्भिन्नाञ्जनपत्र- स्तवकिते निशामुखे, नरपतिस्तेन किंनरमिथुनेन सार्धमर्धपथायतातप्र- ज्वलितदीपिकापाणिपरिजनपरिकरितः शरणागतकपोतमुत्पतितोलूक- कृतशब्दं शिविमिव शिविरसंनिवेशमविशत् ॥ ख ॥ तत्र च क्रमेण कृतकरणीयस्त्वरमाणपाचैकवृन्दोपनीतमुत्पतत्पाक- परिमलस्पृहणीयमत्युष्णमेदुरमांसोपदेशमाज्यप्राज्यमुपभुज्य पुष्करा- क्षकिंनरमिथुनाम्रैर्जनैः सह मधुररससारमाहारंम्, अनन्तरमाचान्तः शुचिचन्दनोद्वर्तितकरः कर्पूरपारीपरिकरितताम्बूलोज्ज्वलवदनारविन्दः 'सुन्दरक, कमपि प्रस्तारय विद्याविनोदं त्वयापि विहंगवागुरिके, गीयतां किमपि मधुरम्' इति मृदुमणिपर्यङ्किकासुखासीनः किंनरमि- थुनमादिदेश ॥ ग ॥ दर्शिते च वांशिकेन वंशमुखोदीर्णगान्धारपञ्चमरागस्थानके स्थिरीकृ- तमध्यमश्रुतिप्रसन्नप्रेङ्खोलनाप्रयोगमुचितस्थानकृतकांस्यतालमकठो- रतारस्वरम्, आकर्षदिदव हृदयम्, अभिषिञ्चदिवामृतेन श्रवणेन्द्रियम्, अस्तं नयदिवान्यविषयसंधा॑नम्, अनुच्चप्रपञ्चितपञ्चमं विपञ्चीस्वर- संदम्भितमभूत्तत्किमपि गीतम् ॥ घ ॥ यत्र प्रसरति रणरणकरसः कुण्ठयति हठेन चित्तमुत्कण्ठा । स्मरति स्मरोऽपि धनुषः प्रगुणीकृतनिशितवाणस्य ॥ ४३ ॥ एवंविधे च व्यतिकरे वैतालिकः पपाठ ॥ तेन चेति ॥ जम्भनिसुम्भन इन्द्रः ॥ क ॥ ततश्चेति ॥ नष्टचर्या शिशुक्क्रीडाविशेषः । निद्रान्धेत्यादौ परिणामः परिपाक- स्तिर्यक्प्रहारदानं वा । निशासु हि कपोताः पारावताः शरणं नीडमागच्छन्ति, उलूकाश्च घूका उड्डीयन्ते । उपमाने तु 'नारदकृतां शिबिप्रशंसामसूयन्तौ कपोतो- ल्कूकरूपधारिणौ सुरौ सत्त्वं जिज्ञासमानौ शिबिनृपमागतौ' इत्यागमः ॥ ख ॥ तत्र चेति ॥ कर्पूरस्य पारी शकलम् ॥ ग ॥ १ 'विपिनेति नास्ति'. २ 'पाचिकावृन्दारिकोप'. ३ 'दि'. ४ 'माहारमकरोद- नन्तरं'; 'माहारमाहारयांचकार'. ५ 'संवेदनं'. १६ CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१८२ नलचम्पूः। 'सकलविषयवृत्तीर्मुद्रयन्निन्द्रियाणां हृदि विदधदवस्थां कांचिदुन्मादिनीं च। ध्वनिरनुगतवीणाक्विक्कणः कोमलोऽयं जयति मदनबाणः पञ्चमः पञ्चमस्य ॥ ४४ ॥ अपिच। प्रियविरहविषादस्यौषधं प्रोषितानां विविधविधुरचिन्ताश्रान्तिविश्रान्तिहेतुः। अयममृततरङ्गः कर्णयोः केन सृष्टो मधुररसनिधानं निःस्वनः पञ्चमस्य ॥ ४५ ॥ अपिच। अयं हि प्रथमो रागः समस्तजनरञ्जने। यस्य नास्ति द्वितीयोऽपि स कथं पञ्चमोऽभवत्' ॥ ४६ ॥ इति विविधमुदञ्चत्पञ्चमोद्गारगर्भं पठति मधुरकण्ठे धाम्नि वैतालिकेऽस्मिन्। अपहरति च चित्तं किंनरद्वन्द्वगीते सुखमय इव निद्रानिःस्पृहो लोक आसीत् ॥ ४७ ॥ एवमनवरतमारोहावरोहमूर्च्छनाभङ्गितरङ्गिते गीतामृतस्रोतसि नि- मग्नमनसि कठोरितोत्कण्ठे रणरणकारम्भभाजि राजनि 'रजनि, किं न विरमसि। दिवस, किं नाविर्भवसि । अध्वन्, किं न स्तोकत- र्ब्रजसि। कुण्डिननगर, किं न नेदीयो भवसि। श्रम, किमन्तरायोऽसि। विधे, किमुत्क्षिप्य न मां तत्र नयसि' इत्यनेकधा चिन्तयति स किंनरयुवा प्रक्रमोचितश्लेषमिदमवादीत् ॥ सकलेति ॥ पञ्चमस्य रागस्य ध्वनिर्जयति। कथंभूतः। पञ्चमः पञ्चानां पू- रणो मदनबाणः ॥ ४४ ॥ प्रियेति ॥ अत्र पञ्चमस्येत्याख्या। न तु पञ्चानां पूरणस्येति व्युत्पत्त्यर्थः ॥ ४५ ॥ अयमिति ॥ प्रथमः प्रधानभूत आद्यश्च । द्वितीयः समानो द्वयोः पूरणश्च । स कथं पञ्चानां च पूरणोऽथ च पञ्चम इति संज्ञा ॥ ४६ ॥ इतीति ॥ परब्रह्मालोकनसमयसमुल्लासितसान्द्रानन्दमय इव । रसस्य हि तलं परब्रह्मास्वादसोदरलं पूर्वाचार्यैर्व्यवार्यत । सुखमय इव निद्रानिमीलित इवे- त्युभयत्रापीवशब्दो योज्यः । अथवा सुखमयः सन्निद्रानिमीलित इवेतीवशब्धो भिन्नक्रमे ॥ ४७ ॥ १ 'कृत'. २ 'स्य'. ३ 'मार्गे'. ४ 'यासि'. ५ 'असि'.

षष्ठ उच्छ्वासः । १८३ “वर्धमानोल्लसद्रागा सुजातिमृदुपाणिका । दमयन्ती च गीतिश्च कस्य नो हृदयंगमा ॥ ४८ ॥ अपिच । साप्यनेककलोपेता साप्यलंकारधारिणी । सापि हृद्यस्वरालापा किंत्वसाधारणा तव ॥ ४९ ॥ अपिच । संगीतका त्वदौत्सुक्यात्त्वां स्मरन्ती समूर्च्छना । किं तु तस्यास्त्वयि स्वामिँल्लयभङ्गो न दृश्यते' ॥ ५० ॥ एवमुक्तवति किंनरेश्वरे किमप्यलीककोपकुटिललोलद्भ्रूवलयावलि- तकंधरमवलोक्य किंनरी वक्तुमारभत ॥ क ॥ 'सुन्दरक, मा मैवं वादीः ॥ ख ॥ शुष्काङ्गी घनचार्श्वङ्ग्याः सुवाचः काकलीस्वरा । दमयन्त्याः कथं गीतिः सादृश्यमवगाहते ॥ ५१ ॥ वर्धमानेति ॥ वर्धमानो वर्धिष्णुः । न तु हीयमानः । उल्लसन् रागोऽनुरा- गो यस्याम् । सुष्ठु शोभना क्षत्रियाख्या यस्याः । पाणिः करः ॥ पक्षे वर्धमाने तालविशेषे उल्लसन् रागः श्रीरागादिर्यत्र । जातयो नन्दयन्तीप्रभृतयः । पाणयः समपाण्यादयः ॥ ४८ ॥ सापीति ॥ कला विज्ञानकौशलम् । अलंकार आभरणम् । स्वरः शब्दः । आलापो मिथोभाषणम् । गीतिपक्षे 'पताकेनावकृष्टिश्च विरलाङ्गुलिना च या । आवाप इति विज्ञेया कलाविद्भिरस्तु सा कला' इत्यावापादयः सप्त कलाः । अलं- कारा उपमारूपकादयः । स्वराः षड्जादयः सप्त । आलाप आलप्तिः । परं किं नु दमयन्ती असाधारणा अनन्यविषयत्वादेकाश्रया । गीतिस्तु साधारणा स्वरसाधा- रणा जातिसाधारणा चेति ॥ ४९ ॥ संगीतेति ॥ त्वय्यौत्सुक्यं त्वदौत्सुक्यं तस्माद्धेतोः । सम्यग् गीतं प्रख्याति- रस्यानिति सर्वत्र त्वदुत्का गीयत इति भावः । तथा त्वां स्मरन्ती सह मूर्च्छनया वर्तते इति समोहा ॥ गीतिस्तु संगतं गीतं स्वरगुणदूषणग्रामश्रुतियतिमूर्च्छनालक्षणं यस्याम् । तथा 'स्वरः संसर्जितो यत्र रागत्त्वं प्रतिपद्यते । मूर्च्छनामिति तां प्राहु- र्मुनयो ग्रामसंभवाम्' । सा चैकविंशतिविधा । यदुक्तम्-'सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः' इति । तथोक्तया सह समूर्च्छना । इत्येतावता दमयन्तीगी- त्योः साम्यमुक्तम् । अधुना तु भेदं निरूपयति—किंत्विति ॥ लयस्तत्परता। द्रुत- मध्यविलम्बितलक्षणश्च ॥ ५० ॥ शुष्केति ॥ शुष्कमवकृष्टमङ्गमवयवो यस्याः । कु ईषत् कलोऽस्यामिति (गीं-

१८४ नलचम्पूः । अपिच । गीतेर्ग्रामाः किल द्वित्राः सा तु ग्रामसहस्रभाक् । कूटतानघना गीतिः कथं तस्याः समा भवेत् ॥ ५२ ॥ किं१ चान्यत् । ज्वरितेव बहुलङ्घनप्रयोगप्रकाशितमूर्च्छना बहुलकम्पा च, उन्मत्तेव बहुभाषा बहुताला च, वेश्येव बहुगा बहुष्ठरागा च, अटवीव बहुककुभभेदा बहुलनिषादस्थानका च गीतिरियम् ॥ क ॥ तद्वरमिदमुच्यताम् । वेदविद्योपमा देवी मनोहरपदक्रमा । उद्योतिता पुराणाङ्गमन्त्रब्राह्मणशिक्षया ॥ ५३ ॥ रादित्वान्डीषि ) काकली निषादसंज्ञः स्वरो यस्याः । वैसादृश्यपक्षे शुष्कमनाद्रंम् । काकली श्लेष्मवैगुण्याद्द्विधाभूतः स्वरः ॥ ५१ ॥ गीतेरिति ॥ षड्जमध्यमगान्धाराख्यो ग्रामाः । गान्धारस्य स्वर्गविषयत्वान्ना- वेवेति द्वित्राः । ग्रामः खेटकं च । कूटतानाः पञ्चत्रिंशत् । तैर्घना । दमयन्ती तु न कपटविस्तारबहुला ॥ ५२ ॥ ज्वरित इत्यादि ॥ लङ्घनमुद्ग्राहितादधिकोच्चारणम् । पक्षे लङ्घनं शोषणम् । अनशनमिति यावत् । प्रयोगे उच्चारणे प्रकाशिता मूर्च्छना उत्तरमन्द्रादिका यस्या- म् । पक्षे प्रकृष्टा योगाः क्वाथादयः । मूर्च्छना मोहः । कम्पोऽङ्गकृतं स्वरकृतं च चलनम् । उन्मत्तेति ॥ भैरवीप्रभृतयः षट्त्रिंशद्भाषाः । तालश्चञ्चत्पुटादिः । उन्मत्ता तु बहु भाषते तालिकाश्च दत्ते । वेश्येवेति ॥ रागः श्रीरागादिः । तथा बहुलष्ठकनामा रागो यस्याम् । वेश्या तु बहुषु रागोऽस्या इति वहासक्तिः । प्रभू- तठकरागामिनी च । ठक्शब्दोपलक्षिता क्रीडया कराहतिः ठक्करा । गमेः प्राप्य- र्थाड्डः । अटवीति ॥ ककुभो ध्वनिविशेषः । निषादः स्वरविशेषः । स्थानकं म- न्द्रमध्यमतारलक्षणम् । अटवीपक्षे ककुभोऽर्जुनवृक्षः । निषादाः शवराः । स्थान- कान्याळवालाः शिविरसंनिवेशश्च । एवं ज्वरिताद्युपमानप्रतिपादितदोषा गीतिः क- थंकारमिव दमयन्तीसमा ॥ क ॥ वेदेति ॥ पदक्रमः पदन्यासः । पुराणं जीर्णं वपुर्येषाम् । तथा मन्त्रप्रधान- ब्राह्मणानां पुरोधःप्रभृतीनां च शिक्षयोपदेशेनोद्द्योतिता । वेदविद्या तु पदक्रमा- भ्यामभिधीयते । पुराणानां मार्कण्डेयादीनाम् । अङ्गानां शिक्षाकल्पादीनाम् । म- न्त्रब्राह्मणस्य ग्रन्थविशेषस्य शिक्षयाभ्यासेन भूष्यते । अन्तःपुरे हि वृद्धा एवाधि- क्रियन्ते । यदुक्तम्—'आशीतिकाश्च पुरुषाः पञ्चाशतकाश्च योषितः । युज्येरन्नव- रोधानां शौचमागारिकाश्च ये' ॥ ५३ ॥ १ 'किं बहुना' ।

षष्ठ उच्छ्वासः । १८५ 'किं त्वियमेकपथा, सा तु दृष्टशतपथा' इत्येवमनेकविधवक्रोक्तिवि- शेषैरभिनन्दयति दमयन्तीकिंनरमिथुने, भूतभूयिष्ठायां विभावर्याम्, सुरसङ्घ इवादृश्यमानमानुषे निशीथे, स्थगितवति भृङ्गभासि तमसि भुवनम्, अनन्तरमवसरपाठकः पपाठ ॥ क ॥ 'उपरम रमणीयात्किंनरद्वन्द्वगीता- दभिभवति निशीथो नाथ नेत्राणि पश्य । मदनवशविलोलोल्लोचनाम्भोरुहाणां मिलतु कुलवधूनां सेवको लोक एषः ॥ ५४ ॥ अपिच । शतगुणपरिपाट्या पर्यटन्नन्तराले कमलकुवलयानामर्धरात्रेऽपि खिन्नः । उपनदि दयितायाः क्वापि शब्दं निशम्य भ्रमति पुलिनपृष्ठे चक्रवच्चक्रवाकः ॥ ५५ ॥' अथ यथाप्रियं प्रैषितपरिज्नो राजा रजनिशेषमतिवाहयितुमनुरूपं निरूप्य किंनरमिथुनस्य शयनमासन्नैनिद्रागृहे हंसपिच्छच्छायाच्छप्र- च्छदपटच्छादितहंसतूलैतलपमभजत् ॥ ख ॥ तत्र च दमयन्त्यनुरक्तोऽयमितीर्ष्ययेवानायान्त्यां निद्रायां द्रोणीद्रु- मान्तरालसुप्रोत्थितविविधविहंगविरुतानि विनिद्रवनदेवतापठ्यमान- प्राभातिकपुण्यकीर्तनानीवाकर्णयन्नेककालप्रणालिकापर्यायेण पर्यस्ते- ऽस्तगिरिमस्तके मुक्तास्तबकितनीलवितानपट इव तारातिमिरपटले, पट्टांशुकवैजयन्तीष्विव र्भविष्यति दिनकरोद्योत्सवे नभस्तलमलंकुर्व- किंत्वियमिति ॥ इयं दमयन्ती एकमार्गा । वेदविद्या तु दृष्टशतपथाख्यग्र- न्था । भूयिष्ठं भूता अतिक्रान्ता, भूतभूयिष्ठा । आहिताग्न्यादित्वात् । निशीथे तमो- ऽतिशयान्मानुषादर्शनम् । सुराणां समूहे च स्वभावात् ॥ क ॥ तत्रेति ॥ द्रोण्यां द्रुमास्तेषामन्तरालं द्रोणीद्रुमान्तरालम् । मध्ये निम्नः प्रान्त- योश्चोन्नतस्तरुराजिविराजितो नौसदृशः पर्वतादिभूभागो द्रोणी । यदाह मुकुटताडि- तकनाटके बाणः—'आशाः प्रोषितदिग्गजा इव गुहाः प्रध्वस्तसिंहा इव द्रोण्यः कृत्तमहाद्रुमा इव भुवः प्रोत्खातशैला इव । बिभ्राणाः क्षयकालरिक्तसकलत्रैलो- क्यकष्टां दशां जाताः क्षीणमहारथाः कुरुपतेर्देवस्य शून्याः सभाः' ॥ यया प्रणा- लिकया काल इयानिति ज्ञायते, सा कालप्रणालिका ताम्रमयघटिका । अथवा प्र- १ 'निशीथे'. २ 'प्यखिन्नः'. ३ 'कोऽपि'. ४ 'ग्रोपित'. ५ 'आसन्नं निद्रा'. ६ 'पटघटिकाच्छादि'. ७ 'तूलतल्पतलममजत्'. ८ 'भविष्यद्दिनकरोत्सवे'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१८६ नलचम्पूः । तीषु पूर्वस्यां दिशि प्रभातप्रभावल्लरीषु, वल्लकीक्वाणरमणीये श्रयति श्र- वणपथमीषदन्मिषत्कमलमुकुलमुखमुक्तमधुकरैर्मन्द्रध्वनौ, ध्वस्तनिद्रे- ण प्रभातोचितेष्वङ्गानुविद्धशुद्धभाषामल्पतानेन किन्नरमिथुनेन गीय- मानमिमं श्लोकमशृणोत् ॥ क ॥ ‘धुतरजनिविरामोन्मीलदम्भोजराजि- स्तनुतुहिनतुषारानुद्गिरन्गन्धवाहः । कलितकलभकुम्भभ्रान्तिषूद्घाटितेषु स्खलति निधुवनान्तश्रान्तकान्ताकुचेषु ॥ ५६ ॥’ तदनु पुनः प्रभातप्रहतप्रयाणभेरीरवविनिद्रितस्यापूरयतः समवि- षमवनविभागानुत्कल्लोलजलनिधेरिव चलतः सैन्यसमूहस्य कलकल- माकर्णयन्नुत्थाय कृतोचिताचारश्चारुचर्चितचन्द्रचूडचरणश्चटुलखुर- चारीप्रचारेणाडम्बरितताण्डवस्य खण्डपरशोः पदलीलामिवाभ्यस्यता स्फुरद्धुरघुरायमाणघोणाग्रस्खलत्खलीनवशविगलितबहललालालवले- पेन वनभुवि फेनिलजलनिधिमिवाकारयता जात्यतरङ्गसैन्येन परि- वृतः पूर्वप्रस्थानस्थित्या प्रतस्थे ॥ ख ॥ स्थपुटस्थलीस्थितं स्थूलमेकमव्यग्रमग्रे राजा गजग्रामण्यमवलोक्य पुष्कराक्षमभाषत ॥ ग ॥ ‘भद्र सालानकमनालानमत्युन्नतमनुन्नतम् । दन्तवन्तमदन्तं च पश्यैनमगजं गजम् ॥ ५७ ॥ कृष्टा नाडिकैव डलयोरैक्ये प्रणालिका। नाडिका कालविशेषः । तथाच ‘अहो- रात्रं च विद्वद्भिः कथ्यते षष्टिनाडिकम्’ । यथाच—‘ज्ञात्वा तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गराजस्रखुर्यूते रात्रिरियं जिता कमलया देवी प्रसाद्याय च । इत्यन्तःपुर- सुन्दरीःप्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडि- काः ।’ अन्यदपि प्रणालिकया जलपद्धत्या परिक्षिप्यते । ताराणां मुक्ताः, तिमिर- पटलस्य नीलवितानपट उपमा ॥ क ॥ सालेति ॥ अलीनां समूह आलं तदेव प्रत्यायकत्वात्पटहस्तेन सह । मदवि- धुरगजे भृङ्गाः समीपीभवन्ति । तेन च मत्तो ज्ञायत इति भावः । तथा अनालानं वन्यत्वान्निर्गलस्तम्भम् । तथातीवोन्नतमुच्चम् । तथा नास्ति उन्नता प्रेरणास्येति स्वच्छन्दचरमित्यर्थः । यद्वा अनुन्नेत्यामन्त्रणम् । तमिति गजविशेषणम् । दन्त- १ 'मधुकरमधुरमन्द्रध्वना'. २ 'चित्तभिन्नषड्जानुबद्धमुग्धभाषाविद्धविशुद्ध'. ३ 'तेन'. ४ 'चारुचर्चिचित'. ५ 'जलाप्लवेन'. ६ 'नास्ति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

षष्ठ उच्छ्वासः । १८७ अयं हि मन्मथविलासेषु परं वैदग्ध्यमवलम्बते । तथाहि । मृदुकरपरिरम्भारम्भरोमाञ्चितायाः सरसकिसलयाग्रग्रासशेषार्पणेन । मदमुकुलितचक्षुश्चाटुकारी करीन्द्रः शिथिलयति रिरंसुः केलिकोपं प्रियायाः ॥ ५८ ॥ अपिच । उपनयति करे करेणुकायाः किसलयभङ्गमनङ्गसंगताङ्गः । स्पृशति च चलदक्षिपक्ष्मलेखं मुखमखरेण करेण रेणुदिग्धम् ॥ ५९ ॥ अथवा विवेकपूर्वव्यवहारविचारेष्वमी मानुषेभ्यः स्तोकमेवावही- यन्ते ॥ क ॥ तथाहि । श्रूयते पुरा किल नारायणनाभ्यम्भोरुहकुहरकुटीमधिशयानस्य वेदविद्यां निगदतो भगवतः पितामहस्य बृहद्रथन्तरविकीर्णभासना- मानि सामानि गायतः सामस्तोभरसनिष्यन्दादुदपद्यन्तैरावतसुप्रती- ककुमुदवामनाञ्जनप्रभृतयोऽष्टौ दिग्गजेंद्राः ॥ ख ॥ तेभ्योऽभवन्भद्रमन्द्रमृगसंकीर्णजातयो गिरिचरनदीचरोभयचारि- णः करिणः ॥ ग ॥ प्रसिद्धं चैतत् । ‘सामजा गजाः’ इति ॥ घ ॥ केचित्पुनरन्यथा कथयन्ति किल सकलसुरासुरकरपरिवर्त्यमानमन्दरमन्थानमथितदुग्धाम्भो- निधेरजनि जनितजगद्विस्मयो लक्ष्मीमृगाङ्कसुराभिसुरद्रुमधन्वन्तरि- कौस्तुभोच्चैःश्रवसां सहभूः शशधरकरकान्तिरैरावतः । तत्प्रसूतिरिय- मशेषवनान्यलंकरोतीति ॥ ङ ॥


दन्तं दन्तुरम् । अदन्तं तृणादिकमश्नन्तम् । अगजं गिरिजं गजं पश्येति संब- न्धः । अथवा सालांस्तरूनदन्तम् । तथा अकमकुत्सितम् । सर्वलक्षणपरिपूर्णम् । तच्च ‘उच्चैः कुम्भः–’ इत्यादिना वक्ष्यति । अत्र ‘किम्’ क्षेपे । शेषं पूर्ववत् ॥ ५७ ॥ श्रूयत इति ॥ सामस्तोभरसनिष्यन्दादिति । सामनि स्तोम आसक्तिस्तस्मा- द्रसस्य खेदस्य निष्यन्दः स्रावस्तत इत्यर्थः । स्तोकरसपाठे तु रस आसक्तिः । नि- ष्यन्दः खेदः ॥ ख ॥


१ ‘मनुष्येभ्यः’. २ ‘कुटीर’. ३ ‘सुरभिसुरद्रुमधन्वन्तरिकौस्तुभोच्चैःश्रवःशशधरल- क्ष्मीसहोदर ऐरावतः’. ४ ‘करोति’.

१८८ नलचम्पूः । तदेष भद्रजातिर्भविष्यति । तथाहि । उच्चैःकुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः । शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥ ६० ॥ तन्मोदतामयम्, अनुरागिणोर्दम्पत्योः क्रीडारसविघातः कृतो न श्रेयान्' इत्यभिधाय, हृतहृदयः, स्वैरं रममाणमृगमिथुनविलासैरुल्ला- सितपुलकः कुसुमितकाननानिलैरुत्कम्प्यमानः, झरन्निर्झरोपान्तपाद- पतलचलत्केलिकिलकेकिफेकारवैर्विनोद्यमानः समीपचरसेवकसुभा- षितैश्च, सममसमं च, निम्नगात्रमनिम्नगात्रं च, ग्रावविषममग्राववि- षमं च, सश्रापदमश्वापदं च, सपादपमपादपं च, विन्ध्यस्कन्धमुल्लङ्घय, 'देव, विलोक्यतामिह विषमविषाणि पन्नगकुलानि द्रोणीगहनं च, इह शरासनकरम्बाणि वनानि पार्वार्द्धकपुलिन्दवृन्दं च, इह बहुसुखानि शवरद्वन्द्वानि रत्नाकरस्थलं च, इह सुमधुराणि फलानि कीचकवनं तदिति ॥ उच्चैः कुम्भ इत्याद्यभिधाय तेनैव करिणा हृतहृदयो मृगमिथुन- विलासादिभिः पुलकाद्युपेत ईदृशं विन्ध्यमतिक्रम्य 'देव, वीक्ष्यताम् इह विन्ध्य- स्कन्धे इदमिदमिति वनप्रदेशान्दर्शयतः पुष्कराक्षस्य वक्रोक्तीर्भावयन्नतिक्रान्तशि- खरपरम्परः सह्यमयात् । केलये किलतीति केलिकिलः ( 'इगुपध' इति कः ) क्री- डापात्रम् । केलिकिलानां केकानुकारप्रवृत्तानां केकिनां च केकारवैर्विनोद्यमानः । सह मया श्रिया समं सश्रीकम् । असमं विषमम् । न समोऽस्येति कृत्वा उत्कृष्टं वा । निम्नगा नदीन्नायत इति कः । तथा अनिम्रमुच्चं गात्रं मूर्तिर्यस्य । ग्रावभिर्ह्र- षद्भिर्विषमम् । अग्रे अवविषमं समम् । अवेति नञर्थे । श्वापदं हिंस्रपशुः । अश्वा- नामपदमभूमिम् । समनिर्जलो हि देशोऽश्वीयः । अयं च ग्रावविषमो निम्नगाधा- रश्च । सह पादपैर्वृक्षैः । तथा अपादान् गूढपदः पातीत्यपादपम् । शून्ये हि सर्पा- दिप्राचुर्यम् । अथवा अतिवैषम्यातसंचरतां पादान् न पातीत्यपादपम् । इह विषे- ति ॥ विषमं विषं येषु पन्नगकुलेषु । द्रोणीगहनेषु तु विषमा विषाणिनो दन्तिनः शृङ्गिणो वा शम्बरादयो यत्र । इह शरेति ॥ शरेण मुञ्जेन असनेन बीजकवृक्षेण च करम्बाणि शबलानि । पुलिन्दवृन्दं तु शरासनं धनुः करे यस्य । तथा बाणाः सन्त्यस्येति बाणि सशरम् । इह वेति ॥ बहु सुखं येषां तानि बहुसुखानि । स्थलं तु बहु विपुलम् । तथा सुष्ठु खानिराकरो यत्र । बहुशब्दो वैपुल्येऽपि । इह सुमेति ॥ सुष्ठु मधुराणि । वनं तु सुष्ठु मधु यत्र तत्सुमधु । तथा रणन्त्य- १ 'तत्सोच्यतामयम्'. २ 'हृष्टहृदयः', 'ह्रतहृदयः'. ३ 'रममाणपामरमिथुन'. ४ 'उल्लासित'. ५ 'केकिफेकारवैः'. ६ 'सेवित'. ७ 'ग्रावविषममप्यग्राव'.

षष्ठ उच्छ्वासः । १८९ च, इहामोदितविश्वककुम्भि कुसुमानि सरित्तीरं च, इह सत्प्रभाव- न्ध्यानि दवदग्धारण्यानि मुनिमण्डलं च' इति विविधवनप्रदेशान्दर्श- यतः पुष्कराक्षस्य विचित्रवचनोक्तीर्भावयन् क्रमेणातिक्रम्य शिखरपर- म्परां परैरसह्यः सह्याचलमवततार ॥ क ॥ रमणीयतया स्निग्धतया च पुनः परिवर्तितमुखो विलोक्य विन्ध्य- दक्षिणमेखलाशिखरश्रेणीपादपान् पुष्कराक्षमभाषत ॥ ख ॥ 'भद्र, दुस्त्यजाः खल्वमी विन्ध्यतटीतरवः ॥ ग ॥ तथाहि । आवासाः कुसुमायुधस्य शवरीसङ्केतलीलागृहाः पुष्पामोदमिलन्मधुव्रतवधूझङ्काररुद्धाध्वगाः । सुस्निग्धाः प्रियबान्धवा इव दृशो दूरीभवन्तश्चिरा- त्कस्यैते न दहन्ति हन्त हृदयं विन्ध्याचलस्य द्रुमाः ॥६१॥ अपिच । भ्राम्यद्भृङ्गभरावनम्रकुसुमश्योतन्मधूद्रन्धिषु च्छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव । निर्यन्निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलै- स्ते नन्दन्तु फलन्तु यान्तु च परामभ्युन्नतिं पादपाः ॥६२॥ अपिच । यत्र न फलितास्तरवो विकँसितसरसीरुहाः सरस्यो वा । न च सज्जनाः सदेशो गच्छतु निधनं श्मशानसमः ॥ ६३ ॥ वश्यं राणि । सच्छिद्रा हि वंशा वायुवशाद्रणन्तीति । इहामविति ॥ आमोदिताः सुरभिता विश्वाः सर्वाः ककुभो दिशो यैः । तीरं तु आमोदिता हर्षिता वयः पक्षि- णः श्वाः शुनः संज्ञा वृकाः कुम्भिनश्च गजा यत्र । आमोदो हर्षेऽपि । यद्विश्व- प्रकाशः-‘आमोदो गन्धहर्षयोः' । यदा तु विश्वा शुण्ठी कुम्भीच वल्लीविशे- षः । तदा बहुव्रीहौ 'शेषात्-' इति कब्दुर्वारः । सादृश्यवृत्तेः शुनः । संज्ञाप्रति- कृत्वोः कन् । इह सेति ॥ सती शोभना प्रभा कान्तिस्तया वन्ध्यानि रहितान्यर- ण्यानि मुनिमण्डलं तु सत्प्रभावम् । तथाध्यानमस्यास्तीति ध्यानि ॥ क ॥ यत्र नेति ॥ देशश्मशानयोः समतायामरतिजनकत्वं हेतुः ॥ ६३ ॥ १ 'परंपराः'.. २ 'पुनःपुनः'.. ३ 'श्रोणी'.. ४ 'हु'; 'क्के'.. ५ 'सुस्निग्धप्रिय'. ६ 'छायावद्वतलेषु'. ७ 'विकासिसरसी'.

१९० नलचम्पूः । तत्कथय कदा पुनरिमां विन्ध्यवनवीथीं विचित्रपत्रलकुचां दमय- न्तीमिव निर्वृत्तिमवलोकयिष्यामः ॥ क ॥ तथाहि । पीनोन्नमद्घनपयोधरभारभुग्न- मध्यप्रदेशरुचिमल्लवलीलतायाः । उत्कण्ठितोऽस्मि चलदेणदृशः प्रियाया- स्तस्याश्च पर्वतभुवो वनवीथिकायाः ॥ ६४ ॥ अपिच । सानूनां सानूनां विलोक्य रमणीयतां चै सानूनाम् । सालवने सालवने विहरिष्यति सह मयाऽत्र कदा ॥ ६५ ॥ सखे सखेदा इव वयम्, तत्कथय कियददूरेऽद्यापि स विदर्भविषयः, यत्र ब्रह्माण्डशुक्तिसंपुटमध्यमुक्ताफलगुलिकया तयालंकृतं तत्कुण्डिनं नगरम्' इत्यभिधाने निषधनाथे तैस्तैरालापैरनुवर्तितोक्तिः पुष्करा- ऽक्षोप्यभाषत ॥ ख ॥ 'देव, प्राप्ता ननु वयम् ॥ ग ॥ इदं हि । वीरपुरुषं तदेतद्वरदातटनामकं महाराष्ट्रम् । दक्षिणसरस्वती सा वहति विदर्भा नदी यत्र ॥ ६६ ॥

तत्कथेति ॥ विचित्रपत्रा लकुचास्तरवो यस्याम् । दमयन्ती तु विविधपत्र- वल्लीयुक्तस्तनी । पत्रं लात इति के पत्रलै ॥ क ॥ पीनोन्नेति ॥ कठिनस्तनभरेण भुग्ने नम्रे उदरे रुचिं मल्लन्ते धारयन्ति इत्यणि तथोक्ता वल्य एव लता यस्याः । वली उदररेखा । तथा चलतामेणाना- मिव दृशौ यस्याः । वनवीथीपक्षे पयोधरो मेघः । रुचिमती तेजस्विनी लवली- नाम्नी लता । तथा चलदेणानां दृक् दर्शनं यस्याम् ॥ ६४ ॥ सानूनामिति ॥ सानूनां तटानां संबन्धिनो ये सानवो मार्गास्तेषां रमणीय- तामनूनां परिपूर्णां विलोक्य अलवनेन सह यत् सालानां सर्जतरूणां वनं तस्मि- न्मया समं कदा सा विहरिष्यति । अत्र प्राच्यः सानुशब्दस्तटार्थोऽन्यश्चाध्वार्थः । यद्विश्वः-'सानुः शृङ्गे बुधे मार्गे पद्यायां पल्लवे वने' । यदि वा 'णू स्तवने' आन- वनमानूः प्रशंसा तया सह वर्तन्त इति सानूनि तेषां स्तुत्यानामित्यर्थः ॥ ६५ ॥ सखे इति ॥ ब्रह्माण्डमेव शुक्तिसंपुटः । सा च तन्मध्ये मुक्ताफलगुलिका साधुमुक्ताफलम् गुलिकाकारत्वात् । एतावता स्थूलवृत्तत्वम् ॥ ख ॥ १ 'दमयन्ति च'. २ 'हि'. ३ 'वैदर्भ'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

षष्ठ उच्छ्वासः । १९१ इहाकरभया सिंहलद्वीपभुवा सदृशी, बहुदया त्यागिजनतया तु- ल्या, समृद्धनया भूनिखातकृपणजननिक्षेपकुम्भिकया समाना, प्र- जा ॥ क ॥ इह समकरन्दानि कमलवनानि राजैराजन्यचक्रं च, इह बहुधा- मानि नगराणि लोकहृदयं च, इह सारम्भाणि कृपाणकुलानि दश- रूपकप्रेक्षणं च, इह बहुकृपाणि जनमनांसि प्रजापालबलं च, इह महाविप्राणि ग्रामपुरपत्तनानि मेषगोष्ठं च ॥ ख ॥ इयं च गगनवीथीव पूर्वोत्तराफल्गुनीराशिवायूषयुक्ता ब्राह्मणमहा- र्भूमिः ॥ ग ॥ इतश्च । आरुह्यैताः शिखरिसदृशान्राममध्योद्यकूटा- नन्योन्यांसप्रणिहितभुजाः संगताः कौतुकेन । प्रेक्षावेशादविचलदृशो योषितः पामराणां पश्यन्त्यस्त्वां निभृततनवो लेख्यलीलां वहन्ति ॥ ६७ ॥ इहेति ॥ न कराद्राजदेयांशाद्भयं यस्यां साऽकरभया । भुवा तु न करभा यस्यामिति करभरहितया तथा बह्वी दया यस्यां सा बहुदया त्यागिनां जनतया तु बहु ददातीति बहुदा तया बहुदया । जनानां समूहो जनता । 'ग्रामजन-' इति समूहे तल् । समृद्धो नयो यस्यां सा समृद्धनया । कुम्भिकया तु समृद्ध मृत्तिको- पेतं धनं यस्यां तया समृद्धनया ॥ क ॥ इहेति ॥ सह मकरन्देन वनानि । राजन्यचक्रं तु समः करो राजांशो यस्य । तथा दानमस्यास्तीति दानि । इह वेति ॥ बहूनि धामानि गृहाणि येषु । हृदयं च बहुधा अनेकधा मानोऽस्यास्तीति मानि । इह सेति ॥ सह आरम्भैरुपक्रमैः कुलानि । प्रेक्षणकं तु सारमुत्कृष्टम् । तथा भाणो रूपकविशेषः सोऽस्यास्तीति भाणि । यदाह धनिकः—'भाणस्तु धूर्तचरितं कृतं स्वेन परेण वा । यत्रोपवर्णयेदे- को निपुणः पण्डितो विटः' । इह वेति ॥ बह्वी कृपा येषु तानि । बलं च बहु । तथा कृपाणः खड्गोऽस्यास्तीति । इह मेति ॥ महान्तो विप्रा येषु । गोष्ठं तु महा- न्तोऽव्यो मेण्डास्ते एव प्राणिनो बलवन्तो यत्र ॥ ख ॥ इयं चेति ॥ पूर्वस्यामुत्तरस्यां चाफल्गु सारमुत्कृष्टं यस्याम् । तथा शिवा क- ल्याणी । तथा यूषैर्यज्ञकीलैर्युक्ता गगनवीथी तु पूर्वा उत्तराः फल्गुन्यो राशयो मे- षाद्या वायुः पवनस्तैरुपयुक्तोपयोगीकृता ॥ ग ॥ आरुह्येति ॥ शिखरी गिरिः । कूटा अवकरोत्कराः । प्रेक्षायामवलोकने आ- वेश आग्रहः । पामराः प्राकृतजनाः ॥ ६७ ॥ १ 'समा प्रजा'. २ 'राजन्यचक्रं च'. ३ 'रूपा'.

१९२ नलचम्पूः । किं चान्यत् । नृप चलसि यथा यथा त्वमस्मि- न्नपि वदनानि तथा तथा चलन्ति । तरलितनयनानि पामरीणां पवनविनर्तितपङ्कजोपमानि ॥ ६८ ॥ अपिच । उत्कम्पाद्गलितांशुकेषु रभसादत्यन्तमुच्छ्वासिषु प्रोत्तुङ्गस्तनमण्डलेषु विलुठद्गुञ्जावलीदामसु । आसां खेदिषु दृश्यते मृगदृशां संक्रान्तबिम्बो भवा- नाश्लिष्यन्निव गोपिकाः कृतबहुप्राकाम्यरूपो हरिः ॥ ६९ ॥ अहो नु खल्वाश्चर्यमिदमेतैसां तथाविधनेपथ्यनिरपेक्षाप्युन्माद- यति यूनां मनो युवतीनां यौवनश्रीः ॥ क ॥ तथा हि । माल्यं मूर्धनि कर्णिकार्ककलिकाः पिष्टातकं चन्दनं मुक्तादाम गले च काचमणयो लाक्षामयाः कंकणाः । रागोऽङ्गेषु हरिद्रया नयनयोरत्युल्बणं कज्जलं वेषोऽयं विरसस्तथापि हृदयं ग्राम्या हरन्ति स्त्रियः ॥ ७० ॥ इतश्च । कन्दलितकन्दविशेषाः कर्कशकर्कटिका विशालकालिङ्गाः कूष्मा- ण्डमण्डितमण्डपाः सुवृत्तवृन्ताकाः सुहस्तितहस्तिकर्णपुनर्नवाः स्थूल- मूलकाः पिण्डितपलाण्डवो वास्तूकवास्तुभूतभूतलाः संजीवितजीवन्ति- काः सर्षपराजिकाराजिराजिताः सरित्सारिणीसारिवारिसेचनसुकुमा- रपल्लवितविविधशाकाः शाकवाटिकाः ॥ ख ॥ उत्कम्पेति ॥ भ्रष्टांशुकत्वं खेदित्वं च स्तनमण्डलस्य निरावरणत्वेन नृपप्र- तिबिम्बस्य संक्रान्तौ हेतुः । प्राकाम्यं महासिद्धिविशेषः । प्राकाम्येन रूपाणि प्रा- काम्यरूपाणि । कृतानि बहूनि प्राकाम्यरूपाणि येन ॥ ६९ ॥ अहो न्विति ॥ तथाविधमुदारं हारकुण्डलादिरूपं नेपथ्यम् ॥ क ॥ माल्यमिति ॥ हरिद्रा तण्डुलचूर्णम् । पिष्टातकं विलेपनम् ॥ ७० ॥ कन्दलितेति ॥ शाकवाटिकाः । सुहस्तितेति । हस्तः कन्दलोद्भेदः सं- जातोऽस्येऽति । तारकादित्वादितच् । हस्तिकर्णः पुनर्नवा च वल्लीभेदौ । वास्तूकेन १ 'वलन्ति' २ 'विनर्तन'. ३ 'एतेषां'. ४ 'कुत्रचिन्नास्ति'. ५ 'कुत्रचिन्नास्ति'. ६ 'कलितं'; 'कलिलं'. ७ 'पदे'. ८ 'वास्तू'.

षष्ठ उच्छ्वासः। १९३ इतश्च। विकसन्मुचुकुन्दानन्दिनो मकरन्दस्यन्दिसुन्दरसिन्दुवाराः पामरी- संकेतनिकेतकेतकीवनाः कम्रास्रातकाः कुड्मलितकङ्कोलफलाः कोरकि- तकुरण्टकाः पल्लवितवल्लीकाः फुल्लमल्लिकोल्लासिनः सुजातजातयो विचि- त्रशंतपत्रिकास्ताण्डवितपाण्डुपिण्डितागुरुकरवीरवीरुधो दृश्यमानसवै- र्तुपुष्पाः पैष्पायुधावासा आरामाः ॥ क ॥ इतश्च। नातिदूरे दक्षिणदिशि दृशं निवेशयतु देवः ॥ ख ॥ एतास्ताः परिपक्वशालिकलमाः सुस्वादुदीर्घेक्षवो वप्रप्रान्तहरित्तृणस्थलचलत्पीनाङ्गगोमण्डलाः। दृश्यन्ते पुरतः सरोरुहवनभ्राजिष्णुनीराशयाः प्रान्तोन्नादिविचित्रपत्रिनिचयाः सस्यस्थलीभूमयः ॥ ७१ ॥ अपिँच। स्वःसौन्दर्यविडम्बि कुण्डिनमिदं सैषा विदर्भा नदी सा चेयं वरदा स चायमनयोः पुण्याम्भसोः संगमः। अस्यैवोत्नमदहंसहारिणि तटे सेनास्थितिः कल्प्यतां यस्मिन्मत्तकरीन्द्रकुम्भकषणक्रीडासहाः पादपाः ॥ ७२ ॥ एवमनेकधा दर्शनीयप्रदेशप्रकाशनव्याजेन विनोदलीलां पल्लवयति पुष्कराक्षे, 'प्राप्ताः कुण्डिनपुरम्' इत्युच्छ्वसितहृदयो निषधेश्वरः पर- मपरितोषात्पारितोषिकप्रदानपूर्वमिदमवादीत् ॥ ग ॥ 'भद्र, भवतः सौकुमार्यमाधुर्यमधुविश्रम्भसंदर्िभतभङ्गश्लेषगर्भाभि- र्गीर्भिराक्षिप्तमनसामस्माकमविदितखेदं इव, अदृष्टसमविषमविभाग इव, अनुत्पादितस्वेदलव इव, अर्धगव्यूतिमात्रैशेषोऽतिक्रान्तः क्रीडा- शाकविशेषेण वस्तुभूतं गणनाहें भूतं यासु। राजिकानां राजसर्षपाणां राज्या राजिता ॥ क ॥ एता इति ॥ विचित्रपत्रिणो विविधपक्षिणः ॥ ७१ ॥ अच्छिन्नचैत्यद्रुमेति ॥ चैत्या ग्रामप्रदेशप्रसिद्धवृक्षाः ॥ ख ॥ १ 'शरपत्रिकाः'. २ 'पिण्डीतगरकर'. ३ 'पुष्पागमाः'; 'पुष्पारामाः'. ४ 'नीराश्रयाः'. ५ 'इतोऽपि' कुत्रतु नास्त्येव. ६ 'कथ्यतां'. ७ 'आश्वसितहृदयो'. ८ 'रुक्तिभि'. ९ 'खेदेति नास्ति'. १० 'मात्रावशेषः'. १७

१९४ नलचम्पूः । विहारभूमिसमो महानपि मार्गः । समुचितश्चायं सेनानिवेशस्य सरि- त्संगमोपकण्ठवनविभागः ॥ क ॥ तथा हि । इह भवतु निवासः सैनिकानामिहापि श्रमतलतुरंगग्रासयोग्या तृणाली । इह हि कवलयन्तः पल्लवान्वारणेन्द्रा विदधतु तरुखण्डे गण्डकण्डूयनानि ॥ ७३ ॥ इतश्चात्यन्तमनोहरतयास्माकमासनयोग्या सरित्संगमोत्सङ्गभूम- यः ॥ ख ॥ तथा हि । अपसृताम्बुतरङ्गितसैकता निचुलमण्डपनृत्तशिखण्डिकाः । कुररसारसहंसनिषेविताः पुलकयन्ति न कं पुलिनश्रियः ॥ ७४ ॥ इत्यभिधाय 'भद्र, यथाक्रममकृतान्योन्यसंबाधकलहम्, अनुपद्रु- ततीर्थायतनम्, अलुण्ठितासन्नोद्यानम्, अच्छिन्नचैत्यद्रुमम्, अवि- च्छिन्नकमलवनं निवेशय सेनाम्' इति सेनापतिमादिदेश ॥ ग ॥ सोऽपि यथादिष्टमनुतिष्ठन्निदमवादीत् ॥ घ ॥ 'भजत बलसमूहाः खर्वदूर्वास्थलानि स्थविरशुकविशीर्यत्पक्षपिच्छच्छवीनि । उपनदि मृदुवीचीवायुनाऽन्दोलितानां कुसुमितलतिकानामन्तरालेष्वमूनि ॥ ७५ ॥ अपिच । स्मरविहरणवेदीं षट्पदापानशालां तटमनु वनमालां सस्मया मास्म भाङ्क्षुः ॥ कमलवनविहारानन्तरं यत्र तैस्तै- र्मदनमदविनोदैरासते राजहंसाः ॥ ७६ ॥ भजतेति ॥ यद्यपि पक्षपिच्छयोरभिधानकृता न भेदः प्रत्यपादि तथापि महदेवान्तरम्। यतः पक्षशब्देन पक्षती एव। पिच्छशब्देन तदंशोऽभिधीयते ७५॥ स्मरेति ॥ तटमन्विति । तटं लक्षीकृत्य । सस्मयाः सगर्वाः सन्तो भव- न्तो वनमालां मा स्म भाङ्क्षुः । अन्यत्सकलं भङ्गनिषेधकारणम् । आसते इति बहु- वचनान्तम् ॥ ७६ ॥ १ 'मल्लिका' २ 'सखण्डितक' ३ 'विजीर्य', 'विकीर्य'

षष्ठ उच्छ्वासः । १९५ अपिच । सुरसदननिवासं सैनिका मास्म कुर्व- न्सरिति मुनिकुटीनां भङ्गमुल्लुठनं वा । इह¹ निषधनृपाज्ञा तस्य यः कापि कोऽपि द्रुममुषि तरुखण्डे खण्डनं वा करोति' ॥ ७७ ॥ एवमनुशासति बलानि बहूनि बहुधा बाहुके, तत्क्षणादुत्तम्भितैः प्रेङ्खत्पताकापल्लवविराजितैः प्रयाणयोग्ययन्त्रचित्रशालागृहैः संचा- रिणि गन्धर्वनगर इव रमणीये, हरिततोरणैरुड्डीनशुकावलीमय इव, गैरिकारक्तोन्नमितपटकूटीभिरुत्फुल्लकिंशुकमय इव, श्वेतांशुकमण्डपैश्च ताण्डवितबृहत्पुण्डरीकखण्डमय² इव, जाते सरित्संगमोत्सङ्गसङ्गिनि शिविरसंनिवेशे, क्रमेणाक्रान्तसकलदिङ्मुखेषु निषधेश्वरगमनवार्ता- निवेदनदूतेष्विव³ विदर्भराजधानीधामनिर्गतेषु बहलसैन्यधूलिपटलेषु, रॅसति⁴ विपक्षक्षितिपालकर्णपुटीकटुनि नवजलधरध्वनितगम्भीरे त- त्कालप्रहतशङ्खसंखप्रयाणझल्लरीझांकृते, स्वयंवरायातसमस्तराजन्यच- क्रकर्णकर्तरीषु पठ्यमानासु सानन्दवन्दारुवन्दिवृन्दारकवृन्देनोच्चैर्न- लनाममालासु, क्षणादेवोत्तम्भितशातकुम्भस्तम्भभवने मृदुमसृणास्त- रणभाजि जात्यवैडूर्यपर्यन्तपर्यङ्किकायां सुखनिषण्णे राजनि, सुस्थिते च परिजने, नातिदूरवर्तिनि कुण्डिने दण्डपासिकस्यो⁷च्चैर्वागुदतिष्ठत् ॥ क⁵ ॥ 'सिच्यन्तां राजमार्गाः कलशमुखगलच्चन्दनाम्बुच्छटाभिः स्तम्भाः⁶ प्रेङ्खत्पताकाः कुसुमपरिकरास्तोरणाङ्काः क्रियन्ताम् । स्थाप्यन्तां पूर्णकुम्भाः प्रतिनगरगृहं प्राङ्गणे धान्यमिश्रैः सिद्धार्थैः स्वस्तिकालीर्लिखत नरपतिर्नैषधः प्राप्त एषः⁸ ॥७८॥ अपिच । सत्कोञ्च्य⁹श्चन्दना र्द्रस्तनकलशयुगामुक्तमुक्तावलीकाः पात्राण्यादाय दूर्वादलदधिकुसुमोन्मिश्रसिद्धार्थभाञ्जि । सोत्तंसा हंसपिच्छच्छविवसनभृतो वर्तिताश्चर्यचर्या नार्यो निर्यान्तु तूर्यध्वनिलयललितं गीतमुच्चारयन्त्यः ॥ ७९ ॥ एवमिति ॥ वन्दार्वित्यत्र वदिः स्तुत्यर्थः । सत्कान्त्येति ॥ आमुक्तं योजितम् ॥ ७९ ॥ १ 'इति'. २ 'खण्डमण्डप इव'. ३ 'वेदनदूतेष्विव'; 'विनोददूषितेष्विव'. ४ 'विरस'. ५ 'ज्ञात'. ६ 'स्तम्भेति नास्ति'. ७ 'दण्डवासि'. ८ 'नैषधोऽप्येष एषः'. ९ 'सत्कान्त्यः'.

१९६ नलचम्पूः । अपिच। अपि भवत कृतार्थाः पौरनार्यश्चिरेण व्रजतु निषधनाथश्चक्षुषां गोचरं वः। ध्रुवमयमवतीर्णः स्वर्गलोकादनङ्गो हरचरणसरोजद्वन्द्वलब्धप्रसादः ॥ ८० ॥ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणस- रोजाङ्कायां षष्ठ उच्छ्वासः ॥ ६ ॥ इति विषमपदप्रकाशमेतं दमयन्त्यां तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ १ ॥ इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे षष्ठ उच्छ्वासः समाप्तः ॥ सप्तम उच्छ्वासः । एवमविश्रान्तमतितारस्वरेण पुरः पौरपुरंध्रिमण्डलान्युरुण्डयतो द- ण्डपाशिकस्य कलकलमाकर्ण्यत्यास्थानस्थिते राजनि, प्रविश्य प्रणाम- प्रेङ्खोलितगलकन्दलावलम्बितजाम्बूनदस्थूलशृङ्खलास्फालितवक्षःस्थलः स्थविरवयाः सुवेषैः प्रतीहारः सविनयमुक्तवान् ॥ क ॥ देव, धृतमाङ्गल्यकल्पवेषाः पुष्पफलाक्षतपूर्णस्वर्णपात्रपाणयः पुरैः- स्थिता अधीयाना ब्राह्मणाः कुण्डिनपुरपौराः पुरंध्रयश्च देवदर्शनार्थि- तया द्वारि सेवावसरमनुपालयन्ति ॥ ख ॥ कथयन्ति चैवमदूरे विदर्भेश्वरोऽपि देवं द्रष्टुमायाति ॥ ग ॥ लग्न ईव श्रूयते च शङ्खस्वनविदर्भितो विदर्भोंपकण्ठे पठद्वन्दिवृन्द- कोलाहलः ॥ घ ॥ एवमिति ॥ उरुण्डयतो गाढमुत्साहयतः । दण्डपाशिकस्तलारः । दण्डपा- शोऽस्त्यस्येति । 'अत इनिठनौ' इति ठन् । जाम्बूनदस्य कनकस्य स्थूला शृङ्खला आभरणविशेषः ॥ क ॥ देवेति ॥ धृतो माङ्गल्ये कल्पो दक्षो वेषो मण्डनं यैः ॥ ख ॥ १ 'गोचरे च'. २ 'सकलविबुधमनोहारिण्यां'. ३ 'दण्डवासि'. ४ 'कचिन्नास्ति'. ५ 'धृतमङ्गल्यवेषाः'. ६ 'स्वर्णेति कचिन्नास्ति'. ७ 'पुरःस्थिताधीयानब्राह्मणाः'. ८ 'इति'.

‘तदादिशतु देवो यथाकर्तव्यम्’ इत्यभिधाय स्थिते तस्मिन् ‘भद्र- भूते, त्वरितं प्रवेशय विदर्भाधिपस्य परिजनं स्वयमपि तदर्धपथमनु- सर’ इति नलो दौवारिकमादिदेश ॥ क ॥ सोऽपि ‘यथाज्ञापयति देवः’ इत्यभिधाय यथादिष्टमकरोत् ॥ ख ॥ अनन्तरमनतिचिरादितस्ततो दोधूयमानचारुचामरकलापपर्वनेन- र्तितकर्णकुवलयः, वल्गुवल्गानोल्ललनलङ्घनलास्यलीलापदैः पथि प्लवमा- नमिव तरंलतुरंगमधिरूढः, कनककलशशिखरैरेकदेशस्फुरितविद्युत्त- तैकैरकाण्डाडम्बरितमेघमण्डलैरिव मायूरातपत्रखण्डैराच्छादितगग- नान्तरालः, शस्त्रोद्वहनकिणाङ्कितकठोरकण्ठोपकण्ठैः कठिनप्रकोष्ठलुठ- ल्लोहवलयैरूध्वर्चबद्धोद्धटजूटकैरर्कंककरालमौलिभिर्धोरुकपरिधानैर्नि- शातकुन्तपाणिभिरभितस्त्वरितपातिभिः पत्तिभिरनुगम्यमानः, मना- ङ्मुदुमृदङ्गध्वनिकरम्बिते कोमलकांस्यतालशालिनि वांशिकवाद्यमान- वंशनिस्वने दत्तकर्णः, कर्णिकारगौराङ्गोऽङ्गणस्य नातिदूरेऽप्यदृश्यत भीमभूमिपालः ॥ ग ॥ ततश्च चामरग्राहिणीहस्तपल्लवमवलम्बमानः सहेलमुत्थाय प्रथम- मुत्थितेन संभ्रमवशवलितवक्षःस्थलार्वलम्बितकुसुमदाम्ना विसर्पिक- पूरकुङ्कुममिलन्मृगमदामोदेन त्वरितसंपातपतत्पटवासपांसुना सामन्त- चक्रेण परिकरितः कतिपयपदानि निषेधेश्वरस्तदभिमुखमगात् ॥ घ ॥ सोऽपि सत्वरोपसृतस्य ताम्बूलप्रसेविकावाहिनः पुरुषस्य स्कन्ध- तदिति ॥ भद्रभूतिरिति द्वाःस्थस्य नाम । तस्य चामन्त्रणम् ॥ क ॥ अनन्तरमिति ॥ वल्गु यद्वल्नं विक्रममाणता । उल्लनमुच्चैर्विलसनम् । ल- ङ्घनं फाला । लास्यं नृत्यभूमिः । तेषु लीलापदैः प्लवमानं तरन्तमिव । आसनस्थैर्य- णानुद्धातसुखत्वात् । मायूरातपत्रसमूहानां मेघमण्डलानि, सौवर्णकलशानां च वि- द्युत्ततय उपमानम् ॥ कठिनेति ॥ राजपुत्रा हि प्रकोष्ठे मणिकूर्परान्तरे दाढर्याय लोहवलयानि धारयन्ति । जूटकः केशबन्धविशेषः । अलकाः कुटिलाः करालाः स- टालत्वाद्वौद्घा मौलयः संयतकेशा येषाम् । अर्धे ऊरु प्रमाणमस्य तदर्धोरुकम् । येन वाससा कटीप्रभृति अर्धोरुपर्यन्तमामाच्छाद्यते ॥ ख ॥ ततश्चेति ॥ पटवासो वासःसुरभीकरणद्रव्यम् । परिकरितः परिवारितः ॥ ग॥ १ ‘पवनानर्तिं’. २ ‘तरलेति क्वचिन्न’; ‘तरुण’. ३ ‘शिखरैकदेश’. ४ ‘स्तोम’. ५ ‘लोहवल्लै’. ६ ‘रातङ्क’. ७ ‘निखात’. ८ ‘कुत्रचित्तकाररहितम्’. ९ ‘कुत्रचित्तका- रसहितम्’. १० ‘स्थगिका’.

१९८ नलचम्पूः । मवष्टभ्य दूरादेव तुरंगपृष्ठादवातरत् ॥ क ॥ एवमन्योन्यनयनसंपातस्मिताननौ समकालमीषन्नमितमौलिमण्ड- लौ समसमयप्रसारितभुजौ सरभसमाश्लेषवशविशीर्यमाणहारावलीग- लन्मुक्ताफलच्छलेनाङ्गेष्वमान्तमिव प्रथमप्रेमामृतनिष्यन्दिविन्दुविसै- रमुद्विरन्तावन्योन्यमाशिश्रिषतुः ॥ ख ॥ तथाविधे च व्यतिकरे, पँप्रथे प्रेक्षकाणां दक्षिणोत्तरदिक्पालयोर्ध- र्मराजधनदयोरिव समागमे महानयनोत्सवो हर्षोत्कर्षकलकलश्च ॥ग॥ तदनु पुनः प्रधावितप्रतीहारोपनीतम्, अतिविचित्रत्रिभङ्गिभङ्गो- त्कीर्णकर्णाटिकारूपरमणीयस्तम्भिकावष्टम्भम्, तज्जृम्भमाणमाणि- क्यमकरमुखमुक्तमौक्तिकसरैर्विराजितम्, अपूर्वकर्म्मनिर्मितभव्यव्या- लावलीकीर्णमुखांलंकृतम्, उच्चकाञ्चनसिंहासनद्वितयमुभौ भेजतुः ॥ घ ॥ अन्योन्यकुशलप्रशंसुंखालापव्यतिकरविरामे च विदर्भेश्वरो निषध- नाथमवादीत् ॥ ङ ॥ 'अद्यास्मत्कुलसंततिः सुकृतिनी धन्याद्य दिग्दक्षिणा पुण्यप्राप्यसमागमातिथिजना जाताः कृतार्थाः श्रियः। श्लाघ्यं जन्म च जीवितं च निजमप्यद्यैव मन्यामहे यत्रास्मत्सुकृतोदयेन बहुना यूयं गृहानागताः ॥ १ ॥ इतः प्रभृति च। आ ब्रह्मावधिविस्तरत्कविगिरो गीर्वाणकर्णातिथेः कीर्तेः पूर्णकलेन्दुसुन्दररुचो यास्याम्यहं पात्रताम् । किं चान्यज्जनितक्लमॊऽप्ययमभूदाकण्ठतृप्तस्य मे युष्मत्सङ्गसुखामृतेन सफलः संसारचक्रभ्रमः' ॥ २ ॥

सोऽपीति ॥ चर्मनिर्मितं पर्णपूगाद्यास्पदं प्रसेविका स्थगितेति ख्यातिः ॥क॥ तदन्विति ॥ सिंहासनादौ द्युत्तम्भनस्तम्भिकासु पश्चिमभागे त्रिभङ्गिभङ्गेन स्थानकविशेषवैचित्र्येण स्त्रीरूपमुत्कीर्यते। मौक्तिकसरो मुक्ताहारः । व्यालः सिंहा- दिहिंस्रसत्त्वम् । तदावली काष्ठदन्तादिनिर्मिता शोभार्थं क्रियते ॥ ख ॥ अद्येति ॥ पुण्यैः प्राप्यः समागमो येषां तथोक्ता अतिथिजना यासु । श्रियां ह्येतदेव फलम् । यदतिथयः सत्क्रियन्ते ॥ १ ॥ आब्रह्मेति ॥ कविवर्ण्यायाः स्वर्गताया इन्दुशुभ्रायाः कीर्तेः पात्रमहम् ॥ २ ॥ १ 'कुत्रचिन्मकारसहितम्'. २ 'वली'; 'कली'. ३ 'प्रसर'; 'क्वचिन्नास्त्येव'. ४ 'प्रथमप्रेक्ष'. ५ 'भक्ति'. ६ 'द्वय'. ७ 'मुखा'.

सप्तम उच्छ्वासः । १९९ इत्यभिधाय प्रवणं प्रणयस्य, प्रगुणं गुणानाम्, अनुकूलं कुलक्रमस्य, योग्यं भाग्योदयस्य, सदृशं देशकालस्य, समानं मानोत्तंससंततेः, स- रूपं रूपसंपदाम्, उचितमाचारस्यातिथेरातिथेयमगर्वः कुर्वन्, दुर्वार- वैरिवारणान्वारणान्, वायुवेगाँस्तुरगांस्तुरगान्, समुल्लसितांशुमञ्जरी- जालजनितेन्द्रचापचक्रभ्रमप्रमाणं माणिक्यम्, एकत्रग्रथितताराप्र- करानुकारान्हारान्, उज्ज्वलभांसि वासांसि, सलावण्याः पण्यनारीश्च स्वयमुपढौकयांचकार ॥ क ॥ प्रथमसमागमेऽप्यप्रमेयप्रेमारम्भरसोल्लासितहृदयः पुनः सोत्क- र्षहर्षोद्वेगद्गदाक्षरमिदमवादीत् ॥ ख ॥ 'आसेतोः कपिकीर्तनाङ्कशिखरादाराच्च विन्ध्यावधे- रा पूर्वापरसिन्धुसीमविषयस्त्वन्मुद्रया मुद्य्रताम् । अद्यास्मद्गृहमागतस्य भवतो जाता विधेया वयं स्वीकारः क्रियतां किमन्यदपरं प्राणेषु चार्थेषु च ॥ ३ ॥ एवमुपबृंहयति प्रेम, प्रकाशयति प्रियंवदताम्, उद्योतयत्युदारताम्, दर्शयत्यादरम्, आविर्भावयति सर्वभावम् । भीमभूभुजि नलोऽपि 'सरलस्वभावः स्वच्छार्द्रहृदयोऽयं महानुभावः' इति चिन्तयन् 'अ- लमलमतिलात्मसर्वस्वोपनयनेन, भवद्दर्शनमेवास्माकमिह सार्णवसुव- र्णपूर्णवसुमतीलाभादपि परमो लाभः । नहि प्रियंतमदर्शनसुखाद्वित्त- लाभसुखमतिरिच्यते । नर्चै भवद्भिर्भवेऽप्यैस्माकं परस्वबुद्धिर्नापि भवच्छरीरेऽप्येनौत्मभावः । किंचान्यदेवंविधसूक्तसूनृतातृतगर्भगीर्भि- रानन्दयतास्मन्मनो महानुभावेन किं न कृतमभिहितं वा प्रणयोचि- तम्,' इति ब्रुवाणस्तं बहु मानयामास ॥ ग ॥ एवंविधे च व्यतिकरे वैतालिकः प्रस्तुतपठीत् ॥ घ ॥ इत्यभिधायेति ॥ ( अतिथेः) तस्य राज्ञोऽगर्वः सन्नातिथेयं कुर्वन्भीमभूपो वारणादिकमुपढौकयांचकार । वारणा निषेधका गजाश्च ॥ क ॥ आसेतोरिति ॥ कपिकीर्तनाङ्कानि शिखराणि यस्येति सेतुविशेषणम् । सेतोः कपिभिः कृतत्वात् ॥ ३ ॥ १ 'मानोक्तेः'. २ 'रूपेति क्वचिन्नास्ति'. ३ 'माचारस्य तस्याति'. ४ 'वायुवेगांस्तु- रगान्'; 'अमूल्यं समु'. ५ 'क्रमप्रमाणम्'. ६ 'माणिक्यजातं'. ७ 'उज्ज्वलभासिरसाः सलावण्याः'. ८ 'श्चायमुप'. ९ 'मुद्रितम्'. १० 'प्रियदर्शन'. ११ 'हि'. १२ 'विम- वेष्वस्माकं'. १३ 'रेनात्मभावः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA