भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 82, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 82

तन्निपङ्किषु च, भ्रमरसङ्गतासु कुलटासु कुमुदिनीषु च, नदीपालि- विरहितेषु चत्वरेषु चक्रवाकमिथुनेषु च, जाते जरद्गवयकायकालका- न्तिकाशिनि निशावतारे, तरुणतमालकाननमिवाञ्जनगिरिगुहागर्भ- मिवेन्द्रनीलमणिमहामन्दिरोदरमिव विशति सकलजीवलोके स लोकेश्वरः 'प्रिये प्रियङ्कुमञ्जरि, प्रसादय प्रणतप्रियकारिणमभङ्ग्यानङ्गद- र्पहरं हरम् । अहं च तदाराधनावधानमनुविधास्यामि' इत्यभिधाय यथावासमयासीत् ॥ क ॥ • ततश्च । अखण्डितप्रभावोऽथ प्रदोषेणान्धकारिणा । तस्याश्चित्ते स्थितः शंभुरुदयाद्रौ च चन्द्रमाः ॥ ३१ ॥ विभ्रते हारिणीं छायां चन्द्राय च शिवाय च । नभोगरुचये तस्मै नमस्कारं चकार सा ॥ ३२ ॥ नित्यमुद्वहते तुभ्यमन्तः सारङ्गरञ्जितम् ॥ भूतिपाण्डुर गोवाह सोम स्वामिन्नमो नमः ॥ ३३ ॥ न्दवश्च ताराणाम् । परिस्पन्दः प्रस्रवणम् । प्रवाह इति यावत् । विटो भुजंगः । कान्तः पतिः । पक्षे पक्षिणामावासयष्टेरूनतोऽशो विटङ्कस्तस्यान्तः । भ्रमो भ्रमणं तत्र रसस्तात्पर्यम् । अन्यत्र भ्रमरा भृङ्गाः । नेति भिन्नम् । पक्षे नदीनां पालिः सेतुः । इतीति सति स राजा यथावासमयासीत् । किं कृत्वा हे प्रिये, प्रसादय हरमहमपि तदाराधनमनुपृष्ठलग्नः करिष्यामीत्यभिधाय ॥ क ॥ अखण्डितेति ॥ शंभुशशिनोः श्लेषः । प्रकृष्टदोषेण । अन्धकनाम्ना प्रतिप- क्षेण । अव्याहतवैभवः । शशी च प्रदोषेण रजनीमुखेन । अन्धत्वविधायिना अन्धकारयुक्तेन वा। न खण्डितः प्रभाया आवो वृद्धिर्यस्य। अत्र अव वृद्धयर्थः ३१ विभ्रत इति॥ चन्द्रपक्षे हरिणस्येयं हारिणी छाया । कलङ्क इत्यर्थः । नभोगा वियद्व्यापिनी रुचैर्यस्य । शिवस्तु हारिणीं छायां कान्तिम् । तथा भोगे विलासे रुचिरभिलाषो यस्य पश्चात्तन्नियोगः ॥ ३२ ॥ नित्यमिति ॥ सहोमया वर्तत इति सोमः । तस्य संबोधनम् । तद्विशेषणं स्वामिन्निति । तथा भूत्या भस्मना पाण्डुरः शुभ्रः । तथा गौर्वृषो वाहनं यस्य । एवंभूत उमापते । अन्तर्मध्ये । सारमुत्कृष्टम् । गरं कालकूटम् । जितं महिम्ना स्तम्भितशक्ति । नित्यमुद्वहते बिभ्राणाय तुभ्यं नमो नमः । अत्र प्रकर्षे द्विवच- नम् । सोमश्चन्द्रोऽपि । तदा भवनं भूतिर्जन्म । जन्मना पाण्डुरः स्वभावश्वेतः । तथा गाः किरणान् वहतीत्यण् । पाण्डुराश्च ता गावश्चेति समासे कृते समासान्तो दुर्वारः। अन्तरिति कर्मपदम् । सारङ्गो मृगस्तेन रञ्जितं लाञ्छितमिति तद्विशेषणम् ॥ ३३ ॥ १ 'प्रविशति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA