नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 82, कुल 258 में से
संदर्भ में पढ़ेंतन्निपङ्किषु च, भ्रमरसङ्गतासु कुलटासु कुमुदिनीषु च, नदीपालि- विरहितेषु चत्वरेषु चक्रवाकमिथुनेषु च, जाते जरद्गवयकायकालका- न्तिकाशिनि निशावतारे, तरुणतमालकाननमिवाञ्जनगिरिगुहागर्भ- मिवेन्द्रनीलमणिमहामन्दिरोदरमिव विशति सकलजीवलोके स लोकेश्वरः 'प्रिये प्रियङ्कुमञ्जरि, प्रसादय प्रणतप्रियकारिणमभङ्ग्यानङ्गद- र्पहरं हरम् । अहं च तदाराधनावधानमनुविधास्यामि' इत्यभिधाय यथावासमयासीत् ॥ क ॥ • ततश्च । अखण्डितप्रभावोऽथ प्रदोषेणान्धकारिणा । तस्याश्चित्ते स्थितः शंभुरुदयाद्रौ च चन्द्रमाः ॥ ३१ ॥ विभ्रते हारिणीं छायां चन्द्राय च शिवाय च । नभोगरुचये तस्मै नमस्कारं चकार सा ॥ ३२ ॥ नित्यमुद्वहते तुभ्यमन्तः सारङ्गरञ्जितम् ॥ भूतिपाण्डुर गोवाह सोम स्वामिन्नमो नमः ॥ ३३ ॥ न्दवश्च ताराणाम् । परिस्पन्दः प्रस्रवणम् । प्रवाह इति यावत् । विटो भुजंगः । कान्तः पतिः । पक्षे पक्षिणामावासयष्टेरूनतोऽशो विटङ्कस्तस्यान्तः । भ्रमो भ्रमणं तत्र रसस्तात्पर्यम् । अन्यत्र भ्रमरा भृङ्गाः । नेति भिन्नम् । पक्षे नदीनां पालिः सेतुः । इतीति सति स राजा यथावासमयासीत् । किं कृत्वा हे प्रिये, प्रसादय हरमहमपि तदाराधनमनुपृष्ठलग्नः करिष्यामीत्यभिधाय ॥ क ॥ अखण्डितेति ॥ शंभुशशिनोः श्लेषः । प्रकृष्टदोषेण । अन्धकनाम्ना प्रतिप- क्षेण । अव्याहतवैभवः । शशी च प्रदोषेण रजनीमुखेन । अन्धत्वविधायिना अन्धकारयुक्तेन वा। न खण्डितः प्रभाया आवो वृद्धिर्यस्य। अत्र अव वृद्धयर्थः ३१ विभ्रत इति॥ चन्द्रपक्षे हरिणस्येयं हारिणी छाया । कलङ्क इत्यर्थः । नभोगा वियद्व्यापिनी रुचैर्यस्य । शिवस्तु हारिणीं छायां कान्तिम् । तथा भोगे विलासे रुचिरभिलाषो यस्य पश्चात्तन्नियोगः ॥ ३२ ॥ नित्यमिति ॥ सहोमया वर्तत इति सोमः । तस्य संबोधनम् । तद्विशेषणं स्वामिन्निति । तथा भूत्या भस्मना पाण्डुरः शुभ्रः । तथा गौर्वृषो वाहनं यस्य । एवंभूत उमापते । अन्तर्मध्ये । सारमुत्कृष्टम् । गरं कालकूटम् । जितं महिम्ना स्तम्भितशक्ति । नित्यमुद्वहते बिभ्राणाय तुभ्यं नमो नमः । अत्र प्रकर्षे द्विवच- नम् । सोमश्चन्द्रोऽपि । तदा भवनं भूतिर्जन्म । जन्मना पाण्डुरः स्वभावश्वेतः । तथा गाः किरणान् वहतीत्यण् । पाण्डुराश्च ता गावश्चेति समासे कृते समासान्तो दुर्वारः। अन्तरिति कर्मपदम् । सारङ्गो मृगस्तेन रञ्जितं लाञ्छितमिति तद्विशेषणम् ॥ ३३ ॥ १ 'प्रविशति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA