नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 83, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः। ६५ एवं च नातिचिरात् क्षुभ्यत्क्षीरसमुद्रसान्द्रसलिलोल्लोलैरिव प्लावयँ- ल्लोकं लोचनलोभनः स्मरसुहृज्जातः स चन्द्रोदयः। यस्मिन्संभृतवैरदारुणरणप्रारम्भिणो भ्राम्यतः क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ॥३४॥ अपिच। श्च्योतच्चन्दनचारुचन्द्ररुचिभिर्विस्तारिणीभीर्भरा- जातेयं जगती तथा कथमपि श्वेतायमानद्युतिः। उन्निद्रो दिनशङ्कया कृतारुतः काको वराकः प्रिया- मन्विष्यन्पुरतः स्थितामपि यथा चक्रभ्रमं भ्राम्यति ॥३५॥ अपिच। मुग्धा दुग्धधिया गवां विदधते कुम्भानधो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि। कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥३६॥ यत्र च। मुक्तादाममनोरथेन वनिता गृह्णन्ति वातायने गोष्ठे गोपवधूर्दधीति मथितुं कुम्भीगतान्वाञ्छति। उच्चिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिकाः शुभ्रान्विभ्रमकारिणः शशिकरान्पश्यन्न को मुह्यति ॥३७॥ क्षुभ्यदिति ॥ स धवलिताशेषभुवनतलश्चन्द्रोदय उत्प्रेक्ष्यते। क्षुभ्यत्क्षीर- समुद्रसान्द्रसलिलोल्लोलैर्लोकं प्लावयन्निव जातः। क्षीरसमुद्रक्षोभस्य तत्सहचरि- तत्वात् ॥ ३४ ॥ श्च्योतदिति ॥ सातत्यभ्रमणेन कुलालप्रेषितचक्रवद्भ्रमो यत्रेति भ्रमणक्रिया- विशेषणम्। अथवा चक्रः कोकस्तस्येव भ्रमो यस्य। सोऽपि रात्रौ समीपवर्तिनी- मपि प्रियामन्विष्यन् भ्रमति ॥ ३५ ॥ मुग्धेति ॥ वल्लवा वालगोपालाः। शबर्योऽप्यारण्यकस्त्रियो विपर्यस्ता भवन्तु। सततपरिचितोत्तंसरचनाः कान्ता उत्तमस्त्रियोऽपि विपर्यस्ता इति' अपिर्विस्मये ३६ CC-0. Sarada Kripa Shastri Collection, New Delhi. Digitized by S3 Foundation USA