नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 84, कुल 258 में से
संदर्भ में पढ़ें६६ नलचम्पूः । अपिच । किं कर्पूरकणाः स्रवन्ति वियतः किं वा मनोनन्दिनो मन्दाश्चन्दनविन्दवः किमु सुधानिष्यन्दधारा इमाः । इत्थं भ्रान्तिममी जनस्य जनयन्त्यङ्गे लगन्तः परा- मिन्दोः कुन्दविकासिकुड्मलदलस्रक्सुन्दरा रश्मयः ॥३८॥१ इति जनितमुदिन्दोः सिन्दुवारस्रगाभं किरति किरणजालं मण्डले दिक्मुखेषु । हरचरणसरोजद्वन्द्वमाराधयन्ती शुचिकुशशयनीये साथ निद्रां जगाम ॥ ३९ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां द्वितीय उच्छ्वासः ॥ तृतीय उच्छ्वासः । अथ क्रमेण रजतकुम्भमम्भोभरणार्थमिवेन्दुमण्डलमादाय पश्चिमा- म्भोनिधिपुलिनमनुसरन्त्यां तरुणकपोतकंधरा रोमराजिराजिन्यां रज- न्याम्, अखिलकमलखण्डकमलिनीनां विनिद्रायमाणकमलकुड्मल- विलोचनेषु कज्जलरेखास्विवोल्लसन्तीषु भ्रमरराजिषु, राजीवराजिपुञ्ज- किमिति ॥ कुन्दस्य विकासिनां कुड्मलदलानां स्रक् । तद्वत्सुन्दरा इति शौक्ल्यसौकुमार्यातिशयार्थः । जरत्कन्दस्य हि दलाग्राणि परुषाण्यरुणानि च भव- न्तीति ॥ ३८ ॥ इतीति ॥ इत्यमुना प्रकारेण । जनितहर्षम् । निर्गुण्डीकुसुममालाप्रतिमं करनि- करं दिक्मुखेषु किरति वितन्वति सतीन्दोर्मण्डले हरं ध्यायन्ती सा दर्भशय्यायाम- स्वपत् । समाधिलयं गतेति भावः ॥ ३९ ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे द्वितीय उच्छ्वासः समाप्तः ॥ अथेति ॥ अनन्तरं किरणसंस्पृष्टमेघे । रागवत्यारक्ते रवौ युक्ता सती खप्नं १ ‘अपिच रूप्यस्थाने बिडालः कलयति च करान्दुग्धबुद्ध्या सुधांशोः पार्श्वस्थां राजहंसः परिहरति वधूं चन्द्रिकाविप्रलब्धः । प्रेङ्खन्त्या हर्म्यदोलाध्वजपटशिखरच्छायया कुट्टिमाङ्के वल्गत्कृष्णाद्विषष्णात्तरलितनयनो भास्यते बद्धपोतः ॥’ २ ‘अथ च’