नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 85, कुल 258 में से
संदर्भ में पढ़ेंतृतीय उच्छ्वासः। ६७ निकुञ्जे शिञ्जानमञ्जीरमञ्जुलमुन्नदत्सु शरद्बलाहकवलक्षपक्षविक्षेप- पवनतरलिततरुणतामरसेषु दीर्घिकावतंसेषु, हंसेषु केंकोरयति च चक्र- वाकमिथुनमेलकमङ्गलमृदङ्ग इव रौप्यघर्घररवसरसं सारसकुले, अवश्य़ायजलशिशिरशीकरिणि मन्दान्दोलितविनिद्रद्रुममञ्जरीरजःक- णकषायिते तमःसर्पसंदष्टोज्जीवितजगन्निश्वासायमाने प्रस्खलति प्रभा- तसुरतश्रमखिन्नसुन्दरीकुचमण्डले मरुति, मनोहारिहारीतहरितहये हरति तिमिरपटलपटीं गगनलक्ष्म्याः करपरामृष्टपयोधरे रागवति सवितरि, मृगमदमिलितवैहलकुङ्कुममण्डनमञ्जरीभिरिव पिञ्जरिते पुरंदरदिङ्मुखे सुखप्रसुप्ता सा स्वप्नमद्राक्षीत् ॥ क ॥ किल सकलसुरासुरशिरःशेखरीकृतचरणकमलः, कमलाधिवासेन ब्रह्मणा नारायणेन च रचितरुचिरस्तुतिः, कृशानुरूपेण ललाटलोच- नेन चन्द्रमसा च भासमानः, विकचं कर्णे कुवलं करे कपालं च कलयन्, अहिंसाटोपं मनसा शिरसा च विभ्राणः, प्रोज्ज्वलन्नय- नार्चिश्रिताभस्म च समुद्वहन्, अधिकङ्कालेन स्कन्धेन कंधरार्धेन च विराजमानः, सालसदृशं भुजवनं भवानीं च दधानः, सर्वदानववारं त्रिशूलं मन्दाकिनीं च धारयन्, देवो दर्पितदनुजेन्द्रनिद्राहरो हर- श्चन्द्रमण्डलादवतीर्य 'पुत्रि प्रियंगुमञ्जरि, मञ्जरीमिमां गृहाण । ददर्श । अन्योऽपि रागवानासक्तः किल पटीमुत्सार्य कराभ्यां पाणिभ्यां स्तनौ स्पृशति । शरद्बलाहकवलक्षाः शरदभ्रधवलाः । केंकारो वाद्यविशेषः ॥ क ॥ स्वप्नमाह—किलेति । वार्तोक्तौ । हरः शक्तिमण्डलादुत्तीर्य पुत्रीत्यभिधाय ईदृशीं पारिजातमञ्जरीमदात् । कीदृशो हरः । ब्रह्मणा विष्णुना च कृतस्तुतिः । द्वयेनापि कीदृशेन । कमलेऽधिवासोऽस्य पद्मासनत्वात् । विष्णुस्तु कमलायाः श्रिया अधिवासस्तेन । तथा वह्निखरूपेण नेत्रेण चन्द्रमसा च कृशेन क्षामेण अनुगत- रूपेणाविनाभावसंबद्धमूर्त्तिना लसन् । तथा विकचं सविकासम् । कपालं तु विगताः कचाः केशा अस्मादिति विकचम् । तथा अहिंसाया आटोपमावेशम् । अहिं च साटोपं सस्पन्दम् । प्रोज्ज्वलद्दीप्यमानम् । भस्म तु प्रकर्षेणोज्ज्वलम् । अधिगतं कङ्कालं शरीरास्थि अर्थात्खट्वाङ्गं येन । कंधरार्धेन तु कालेन सह कालकूटत्वात् । अधिकमिति क्रियाविशेषणम् । सालद्रुमतुल्यं प्रांशुत्वात् । पक्षे सालसे लीलामन्थरे दृशौ यस्याः । सर्वान्दानवान्वारयति । गङ्गा तु सर्वदा नित्यं नवा अविच्छाया
१ 'मञ्जीररव'। २ 'केंङ्कारयत्सु मधुररवभरितभुवनेषु चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्गेष्विव रौप्यघर्धरीझर्झररवसरसं सारसकुलेषु; केंङ्कारयति चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्ग इव भरितभुवने रौप्यघर्धरीघर्घररवसरसं सारसकुले'। ३ 'बहुल'. ४ 'भूत'. ५ 'कमलाधिवासिना. ६ 'विरचित'. ७ 'लोचनचन्द्रमसा'.