भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 85, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 85

तृतीय उच्छ्वासः। ६७ निकुञ्जे शिञ्जानमञ्जीरमञ्जुलमुन्नदत्सु शरद्बलाहकवलक्षपक्षविक्षेप- पवनतरलिततरुणतामरसेषु दीर्घिकावतंसेषु, हंसेषु केंकोरयति च चक्र- वाकमिथुनमेलकमङ्गलमृदङ्ग इव रौप्यघर्घररवसरसं सारसकुले, अवश्य़ायजलशिशिरशीकरिणि मन्दान्दोलितविनिद्रद्रुममञ्जरीरजःक- णकषायिते तमःसर्पसंदष्टोज्जीवितजगन्निश्वासायमाने प्रस्खलति प्रभा- तसुरतश्रमखिन्नसुन्दरीकुचमण्डले मरुति, मनोहारिहारीतहरितहये हरति तिमिरपटलपटीं गगनलक्ष्म्‍याः करपरामृष्टपयोधरे रागवति सवितरि, मृगमदमिलितवैहलकुङ्कुममण्डनमञ्जरीभिरिव पिञ्जरिते पुरंदरदिङ्मुखे सुखप्रसुप्ता सा स्वप्नमद्राक्षीत् ॥ क ॥ किल सकलसुरासुरशिरःशेखरीकृतचरणकमलः, कमलाधिवासेन ब्रह्मणा नारायणेन च रचितरुचिरस्तुतिः, कृशानुरूपेण ललाटलोच- नेन चन्द्रमसा च भासमानः, विकचं कर्णे कुवलं करे कपालं च कलयन्, अहिंसाटोपं मनसा शिरसा च विभ्राणः, प्रोज्ज्वलन्नय- नार्चिश्रिताभस्म च समुद्वहन्, अधिकङ्कालेन स्कन्धेन कंधरार्धेन च विराजमानः, सालसदृशं भुजवनं भवानीं च दधानः, सर्वदानववारं त्रिशूलं मन्दाकिनीं च धारयन्, देवो दर्पितदनुजेन्द्रनिद्राहरो हर- श्चन्द्रमण्डलादवतीर्य 'पुत्रि प्रियंगुमञ्जरि, मञ्जरीमिमां गृहाण । ददर्श । अन्योऽपि रागवानासक्तः किल पटीमुत्सार्य कराभ्यां पाणिभ्यां स्तनौ स्पृशति । शरद्बलाहकवलक्षाः शरदभ्रधवलाः । केंकारो वाद्यविशेषः ॥ क ॥ स्वप्नमाह—किलेति । वार्तोक्तौ । हरः शक्तिमण्डलादुत्तीर्य पुत्रीत्यभिधाय ईदृशीं पारिजातमञ्जरीमदात् । कीदृशो हरः । ब्रह्मणा विष्णुना च कृतस्तुतिः । द्वयेनापि कीदृशेन । कमलेऽधिवासोऽस्य पद्मासनत्वात् । विष्णुस्तु कमलायाः श्रिया अधिवासस्तेन । तथा वह्निखरूपेण नेत्रेण चन्द्रमसा च कृशेन क्षामेण अनुगत- रूपेणाविनाभावसंबद्धमूर्त्तिना लसन् । तथा विकचं सविकासम् । कपालं तु विगताः कचाः केशा अस्मादिति विकचम् । तथा अहिंसाया आटोपमावेशम् । अहिं च साटोपं सस्पन्दम् । प्रोज्ज्वलद्दीप्यमानम् । भस्म तु प्रकर्षेणोज्ज्वलम् । अधिगतं कङ्कालं शरीरास्थि अर्थात्खट्वाङ्गं येन । कंधरार्धेन तु कालेन सह कालकूटत्वात् । अधिकमिति क्रियाविशेषणम् । सालद्रुमतुल्यं प्रांशुत्वात् । पक्षे सालसे लीलामन्थरे दृशौ यस्याः । सर्वान्दानवान्वारयति । गङ्गा तु सर्वदा नित्यं नवा अविच्छाया


१ 'मञ्जीररव'। २ 'केंङ्कारयत्सु मधुररवभरितभुवनेषु चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्गेष्विव रौप्यघर्धरीझर्झररवसरसं सारसकुलेषु; केंङ्कारयति चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्ग इव भरितभुवने रौप्यघर्धरीघर्घररवसरसं सारसकुले'। ३ 'बहुल'. ४ 'भूत'. ५ 'कमलाधिवासिना. ६ 'विरचित'. ७ 'लोचनचन्द्रमसा'.