नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 86, कुल 258 में से
संदर्भ में पढ़ें६८ नलचम्पूः । मा भैषीः । प्रत्यूषसि मन्नियोगाद्दमनकनामा महामुनिरेष्यति स तेऽनुग्रहं करिष्यति' इत्यभिधाय स्वश्रवणशिखरान्तरादमन्दमकरन्दस्यं- न्दसुन्दरामोदमाद्यन्मधुकररवरमणीयां पारिजातमञ्जरीमदात् ॥ क ॥ सापि 'प्रसादोऽयम्' इत्यभिधाय स्वप्न एव प्रणामपर्यस्तमस्तका स्तुतिमकरोत् ॥ ख ॥ तुभ्यं नमो नमल्लोकशोकसंतापहारिणे । व्यर्थीकृतान्धकारातिदम्भारम्भाय शंभवे ॥ १ ॥ विभो विभूतिसंपन्न पन्नगेन्द्रविभूषण । नमो नमोघसंकल्प तुभ्यमभ्यन्तरात्मने ॥ २ ॥ अत्रान्तरे तरणिकोमलकान्तिभिन्न- भास्वत्सरोजदलदीर्घविलोचनायाः । तस्याः प्रबोधमकरोद्रजनीविराम- यामावसानमृदुमङ्गलतूर्यनादः ॥ ३ ॥ क्रमेण च प्राच्यां सिच्यमानायामिव वँहुलकुसुम्भाम्भःकुम्भैः ककुभि, प्रभवति तारकोच्छेदनाय सुकुमारे रश्मिजाले, पूर्वाचलस्थ- लीमधिरोहति जगत्प्रबोधप्रारम्भमङ्गलकलशेऽंशुमालिमण्डले, ताण्ड- वाडम्बरिणि पुण्डरीकखण्डे, हिण्डमानासु दीर्घिकामण्डनमण्डमा- लासु कारण्डवमण्डलीषु, विश्राम्यति श्रवणपुटेषु हृदयानन्दिनि वन्दि- वृन्दारकवृन्दवन्दनारम्भरवे, रणयत्सु वीणावेणुकोणान्वैणिकवैणवि- केषु, कण्ठकुहरप्रेङ्खोलनालंकारकुशले तारतरं गायति ग्रामरागं गाय- वाः पाथो यस्याः । अथवा सर्वं ददातीति सर्वदाः । आनूयन्त इत्यानवाः तथोक्ता वारोऽस्याः । एतेन कामुकत्वेन नर्मवचनादात्मजलानां खलुत्यलोक्तिः ॥ क ॥ तुभ्यमिति ॥ अन्धकारातीति कर्मधारयः ॥ १ ॥ विभो इति ॥ विभुः सर्वव्यापी । विशेषेण भूत्या भस्मना संपन्नः समृद्धः । यद्वा विभूत्या चतुर्दशभुवनाधिपत्यलक्षणया । तथा वासुकिभूषणः । मोघो निष्फलः संकल्पो ध्यानं यस्य । पश्चान्नञ्योगः । एतानि शिवसंबोधनानि ॥ २ ॥ क्रमेणेति ॥ यथा माहेन्द्र इन्द्रः, तथा सुकुमारः कुमारः । स हि तारकासु- रोच्छेदनाय प्राभवत् । सुकुमारं मृदु रश्मिजालं तु तारकाणां नक्षत्राणामुच्छि- त्तये । वैणिकवैणविकौ वीणावेणुवादकौ । अलंकाराश्च मुद्रितविवृत्तानुनासिकादयः । १ 'मन्नियोगाद्दमनकनामा महामुनिः प्रातरेष्यति'. २ 'विन्दुनिस्पन्द'. ३ 'प्रणामावनमितमस्तका'. ४ 'नमोऽस्त्वमोघ'. ५ 'तुरीययामा'. ६ 'क्रमेण प्राच्याम्'. ७ 'बहुलकुङ्कुमाम्भः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA