नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 97, कुल 258 में से
संदर्भ में पढ़ेंडागिरिसरितमवतार्यमाणेषु लीलामृगमिथुनेषु, पयोभिः पूर्यामाणासु पञ्जरपक्षिपयःपानपात्रीषु, उद्यानारघट्टतटीं टीकमानासु कोयष्टिमयू- रमण्डलीषु, क्रीडासरः सरत्सु संगीतश्रमखिन्नखिन्नकिंनरेषु, कूपकूल- कुलायकोणकूणितेष्ववातपातङ्काकुलकलविङ्केषु, भवनवनवापीपुलिनपा- लिपांसुपटलमुत्तप्तमपहाय शीतलशैवलावलिं श्रयति तरलितनक्रे, कें- कारयति क्रौञ्चचककोरचक्रवाकचक्रे, क्रीडाप्ररोपितप्राङ्गणप्रान्ततरुशि- खरमध्ये मध्याह्नबलिपिण्डाय पिण्डिते केंकारयति काकवयसां कर्ण- कटु कुटुम्बके, वकवलयवलक्षानिक्षपति दिक्षु दीप्रान्दीप्तिदण्डांश्चण्ड- रोचिषि, विसर्ज्य परिजनं राजा मज्जनभवनायोदचलत् ॥ क ॥ गत्वा च पृथिवीवलयमिव पयःपूर्णसमुद्रद्रोणीकम्, केदारोदरमिव सकलशालिस्थानम्, श्रोत्रियद्विजेजनभवनमिव सकलधौतपट्टम्, अ- तिरमणीयं मज्जनभवनमवतारिताभरणः स्नानपीठे निपसाद ॥ ख ॥ आसन्नस्थितश्चास्यावसरपाठकः पपाठ ॥ 'वररजनीकरकान्ते चित्राभरणे निशानभःसदृशे । तव नृप मज्जनभवने सवितानाभाति परमश्रीः ॥ १९ ॥ भिरेवातिवाह्य मध्याह्नस्नानसद्मने प्रतस्थे ॥ क ॥ गत्वा चेति ॥ मज्जनगृहं गत्वा स्नानपीठे निषण्णः । गृहं विशिष्यते । पयसा पूर्णा समुद्रा मुद्राङ्किता द्रोणी जलपात्री कुण्डिका यत्र । स्नानीयजलादिषु मुद्रा दीयत इति राजधर्मः । तथा कलशाः कुम्भास्तेषामालिः पङ्क्तिस्तया सह युक्तानि स्थानानि प्रदेशा यत्र । तथा कलधौतस्य हेम्नः पट्ट आसनं तेन सह । अन्यत्र पयःपूर्णः समुद्रो द्रोणी च यत्र । द्रोणी देशविशेषः । यद्विश्वः- 'द्रोणी स्यान्त्री- वृदन्तरे' । केदारोदरं तु समग्रशालिस्थानम् । तथा सकलाः सर्वे धौताः क्षालिताः पट्टा आसनानि यत्र ॥ ख ॥ वरेति ॥ नृप इति संबोधने । अधुना तद्विशेषणानि । वर श्रेष्ठ । रजनीकरस्य चन्द्रस्येव कान्तिर्यस्येति चन्द्रद्युते । रणे युद्धे चित्रो व्याघ्रस्तद्वदाभा अस्येति तथोक्त । तथा निशानैस्तेजस्विभिर्भातीति कृत्वा सुभटरम्य । अथवा निशानं निर्मलं बभस्ति शोभते । तथा सदृश इः कामो यस्येति कृत्वा कंदर्पप्रतिम । मज्ज- नसद्ने सविताना सोल्लोचा उत्कृष्टश्रीर्द्योतते । अथ च मज्जनभवने, सविता रविर्नाभाति । परं केवलम् । अश्रीनैष्प्रभ एवेत्युक्तिलेशः । यतो निशायां यन्नभ- स्तत्सदृशे । प्रद्योतनानुद्योते हेतुरयम् । तथा चित्राण्याभरणानि यत्र । नभःपक्षे चित्रा नक्षत्रम् । तथा वरा श्रेष्ठा रजनी हरिद्रा तां कुर्वन्ति सत्कुर्वन्तीति कृत्वा १ 'श्रमखिन्न'. २ 'क्रौञ्चचक्रवाक'. ३ 'द्विजभवनम्'.