भारतकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 99, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 99

तृतीय उच्छ्वासः । ८१ अथ विमलदुकूलप्रान्तनिर्नारिताङ्गः परिहितसितवासाः स्वल्पमाङ्गल्यभूषः । शुचिरुचितविधिज्ञः स स्वयं स्वस्थचित्तः कुशकुसुमकरः सन्कर्म धर्म्यं चकार ॥ २१ ॥ अनन्तरमावर्तितानेकस्वर्णवल्लभो वल्लभो जनस्य भोजनस्य समये स मयेन निर्मिताया तया स्वधर्माणं धर्मसुतसभाया सभायागतजनजै- नितारम्भोडरं भोजनस्थानवेदीं जनस्थानवेदीं गतवान् ॥ क ॥ तस्यां च बहुविस्तीर्णस्वर्णभोजनपात्रपत्रशङ्खशुक्तिसनाथायामुपवि- ष्टस्यास्य क्रमेण परिकरमाबध्य गाढमाढौकन्त स्वस्य स्वस्यानुसारिणो- ऽन्नविशेषानादाय सूपकाराः सूपकाराङ्गनाश्च ॥ ख ॥ तथाहि । भक्तास्तस्य भक्तम्, मुद्गा मुद्रान्, मोदका मोदकान्, अशोकव- र्तिन्योऽशोकवर्तीः, समांसा मांसम्, नानाशाकाः शाकानि, व्यञ्जना व्यञ्जनम्, अपरास्तु काश्चिदक्षीरा अपि क्षीरम्, अघारिका अपि घारिकाः परिवेषयामासुः ॥ ग ॥ र्गलोकात् । कुं पृथ्वीम् । एत्यागत्य । याः स्युर्भवेयुः । तास्ताः स्त्रियः । तं कुम्भ- वारिणा कलशोदकेन स्नपितवत्यः ॥ २० ॥ अथेति ॥ निर्नारितं निर्जलीकृतमुद्गमितमित्यर्थः ॥ २१ ॥ अनन्तरमिति ॥ आवर्तिता येऽनेके स्वर्णस्य वल्लास्तौल्यमानविशेषास्तद्वद्भा यस्य । तथा वल्लभो दयितो लोकस्य भोजनस्य काले स राजा मयेन दैत्यवर्धकिना कृतयां तया प्रतीतया युधिष्ठिरस्य सभया सधर्माणं सदृशीं भोजनस्थानवेदीम् । सभयानामागतानां शरणं प्रपन्नानां जनानां जनितरक्षोपक्रमः । अरमत्यर्थं जनानां स्थानवेदी लोकस्योचितासनज्ञः प्राप्तवान् ॥ क ॥ तस्यां चेति ॥ सूपकारा औदनिका सृष्टूपकारकाश्च ॥ ख ॥ भक्ता इति ॥ भक्ताः प्रसादकाः । मुदं गच्छन्तीति मुद्गाः । मोदयन्तीति मोदकाः । न शोके वर्ततेऽभीक्ष्णमशोकवर्ता नीर्णायको येषां यासां च । समाँसो यासाम् । नाना अनेकप्रकारा आशा येषां यासां च । 'शेषाद्विभाषा' इति कप् । विशि- ष्टाङ्गनाः । अक्षीणि ईरयन्ति विभ्रमात्कम्पयन्ति । अघस्य पापस्य अरिकाः शत्रुरूपाः । भक्तमित्यादि कर्मपदानि भक्ष्यार्थानि । परिवेषणमत्र भोजनस्य भाजने क्षेपणम् ॥ ग ॥ १ 'स्वस्थचेताः'। २ 'कुसुमकुशः'। ३ 'जनितरक्षाऽऽरम्भोऽरम्'।