निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 100, कुल 1282 में से
संदर्भ में पढ़ें१०० अ० १ पा० ३ ख० २ । हविर्निरूप्य मरुद्भ्यः [विचिकित्सा] सम्प्रदित्सांचकार सइन्द्र एत्य परिदेवयांचक्रे । (२) परिदेवना = मन्युपूर्वको विलापः । (३) द्युः = इति अह्नो नामधेयं द्योतते इति सतः, (द्योतते इति कर्तृकारकम् ) सतः-सदिति यत्र ब्रूयात् तत्रो- च्चारित एव कारकनियमो द्रष्टव्यः अन्यत्र यथेष्टं योज्यम् । (४) श्वः = उपशंसनीयः कालः । (५) ह्यः = ह्नो हीनः कालः । (६) अद्भुतम् = अभूतम्, अभूतमिवान्यस्य, शोणितवर्षादि, अभूतमिव कादाचित्कत्वात् । (७) अभिसञ्चरेण्यम् = अभिसञ्चारि । (८) अन्यः = (१) नानेयः—नानात्वेन व्यवस्थितस्य असत्कुलजस्यापत्यम्, ( २ ) अथवा न सतामानेयः । (९) चितम् = चेततेः । (१०) आधीतम् = आध्यातम् अभिप्रेतम् । २-यः खण्डः । (ख) (नूनम्)॰ (१) वरः = वरयितव्यो भवति । [ पदपूरणे ] (२) जरिता = गरिता इति स्तुत्यर्थस्य । (३) मघोनी = मघवती (धनवती) । (४) मघम् = धनम् ( मंहतेर्दानकर्मणः )