निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 101, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । १०१ (५) दक्षिणा = दक्षतेः समर्द्धयत्यर्थस्य- अथवा-दक्षिणा दिक्-हस्तप्रकृतिः-प्राङ्मुखस्य प्रजा- पतेर्दक्षिणो हस्तो बभूव सा दक्षिण दिगभवत् । (६) दक्षिणोहस्तः = दक्षतेः उत्साहार्थस्य सहि उत्साहवान् भवति कर्मसु न तथा सव्यः । दाशतेर्वा स्यात् दानार्थस्य ( तेनैव प्रायेण दीयते ) , (७) हस्तः = हन्ते तेन हि हन्यते न अन्येनापि केनचिदङ्गेन । (८) प्राशुः = शीघ्रः (६) बृहत्-महतो नामधेयम्-परिवृढम्भवति । (१०) वीरः = (१) वीरयत्यमित्रान् नानाप्रकारम्मारय- तीत्यर्थः, (२) वेतेर्वास्थात्-गतिकर्मणः ( गत्यर्थे वर्त्तमानस्य ) गच्छत्येवासावभिमुखं शत्रून्, (३) वीरयतेर्वा-( विक्रमार्थस्य ) विक्रान्तो ह्यसौ भवति । (सीम्) (१) सुरुचः = आदित्यरश्मयः-सुरोचनादपि वा । (२) सीम = सीम्नः सीमतः सीमातः मर्यादातः सीमा (सीमा) मर्यादा विसीब्यति देशौ विगतसन्तानौ देशौ करोतीत्यर्थः । ( ३यः खण्डः ) (त्व) (१) त्वः = एक-अन्यः ।