भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 1016, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 1016

हिन्दी निरुक्त ( २६० ) ६ अ० ३पा० ५ खं० स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥” (ऋ०सं० ८, ३, ६, ५ ) ॥ इमंमे गङ्गे! यमुने! सरस्वति! शुतुद्रि! परुष्णि! स्तोमम्, आसेवध्वम्, असिक्न्या चसह, मरुद्वृधे! वितस्तयाच, आर्जीकीये! आशृणुहि सुषोमया च, इतिसमस्तार्थः॥ अथ- एकपदनिरुक्तम्- 'गंगा' गमनात् । 'यमुना' प्रयुवती गच्छति- इति वा । प्रवियुतं गच्छति- इति वा । 'सरस्वती' 'सरः' इति उदकनाम। सर्त्तेः। तद्वती । 'शुतुद्री' शुद्राविणी = क्षिप्राविणी । आशुतुन्ना- इव द्रवति इति वा । 'इरावती ' = 'परुष्णी'- इत्याहुः । पर्ववती । भास्वती । कुटिलगामिनी । 'असिक्नी' अशुक्ला = असिता । 'सितम्'-इति वर्णनाम । तत्प्रतिषेधः असितम् । 'मरुद्वृधाः' सर्वा नद्यः । मरुतःएनाः वर्द्धयन्ति । 'वितस्ता' अविदग्धा । विवृद्धा । महाकूला । 'आर्जीकीयां' = 'विपाट्'- इत्याहुः । ऋजीक-