निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 105, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त। १०५
यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेन अन्वितौ स्यातां संविज्ज्ञातानि तानि । यथा-गौः, अश्वः, पुरुषः, हस्ती, इति । अथ चेत् सर्वाणि आख्यात- जानि नामानि स्युः,―'यः कश्च तत्कर्म कुर्यात्, सर्वं तत्सत्त्वं तथा आचक्षीरन् ?' 'यः कश्च अध्वान- मश्नुवीत अश्वः स वचनीयः स्यात् ?' 'यत्किञ्चित् तृन्द्यात् तृणं तत्' ? अथापि चेत् सर्वाणि आख्यात- जानि नामानि स्युः,---'यावद्भिर्भावैः संप्रयुज्येत ताव- द्भ्यो नामधेय-प्रतिलम्भः स्यात् ॥ १ ॥
( खं० २ )
अथापि य एषां न्यायवान् कार्मनामिकः संस्कारो यथा चापि प्रतीतार्थानि स्युः, तथा एनानि आचक्षी- रन्,―पुरुषं 'पुरिशय' इति आचक्षीरन् ? 'अष्टा' इति अश्वम् ? 'तर्दनम्' इति तृणम् ? । अथापि निष्पन्ने अभिव्याहारे अभिविचारयन्ति―प्रथनात् पृथिवी-इति इत्याहुः―'क एनामप्रथयिष्यत् ? किमा- धारश्च ? अथ अनन्वितेऽर्थे, अप्रादेशिके. विकारे पदेभ्यः पदेतरार्द्धान् सञ्चस्कार शाकटायनः,―एतेः कारितं च यकारादिञ्च अन्तःकरणम्, अस्तेः शुद्धञ्च सकारादिञ्च ? । अथापि 'सत्त्वपूर्वोभावः'―इत्याहुः, १४