निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1077, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (३१२) १० अ० २धा० ३ खं०
“तस्य०” इस क्षेत्रपति की यह और दूसरी ऋचा है-[१५ • (खं० ३) निरु०- “क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृत मिव सुपूत- मूतस्य नः पतयो मृळयन्तु ॥” (ऋ०सं०३,८,९,२) । क्षेत्रस्य पते मधुमन्तम् ऊर्मिं धेनुः- इव पयः अस्मासु धुक्ष्व- इति मधुश्चुतं घृतम्- इव उदकं सुपूतम् ऋतस्य नः पातारो वा पालयितारो वा मृळयन्तु । ‘मृळयतिः’ उपदयाकर्मा पूजाकर्मा वा ॥ तद् यत्समान्याम्- ऋचि समानाभिव्याहारं भवति, तद् ‘जामि’ भवति,-इति-एकम् । “मधु- मन्तं” “मधुश्चुतम्”- इति यथा ॥ यदेव समाने पादे समानाभिव्याहारं भवति तद् ‘जामि’ भवति- इति- अपरम् । “हिरण्यरूपः स हिरण्यसंदृक्” इति यथा ॥ यथा कथा च विशेषः ‘अजामि’ भवति- इति अपरम् । “मण्डूका इवोदकान्मण्डूका उदका- दिव” इति यथा । ‘वास्तोष्पतिः’ ‘वास्तुः’ वसतेर्निवासकर्मणः । तस्य पाता वा पालयिता वा ।