भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 1174, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 1174

हिन्दी निरुक्त (४११) ११ अ० २ पा० ४ खं० [खं० ४] निरु० "विष्ट्वी शमी तरणित्वेन वाघतो मर्त्तासः सन्तो अमृतत्वमानशुः । सौधन्वना ऋभवसूर- चक्षमः संवत्सरे समपृच्यन्त धीतिभिः ॥" (ऋ० सं० १, ७, ३०, ४) ॥ कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो वा मर्त्तासःसन्तःअमृतत्वम् आनशिरे, सौधन्वनाः ऋभवः सूरख्याना वा, सूरप्रज्ञा वा,संवत्सरे सम- पृच्यन्त धीतिभिः कर्मभिः ॥ ऋभुः'विभ्वा,वाजः,-इति सुधन्वनः आङ्गिरस- स्य त्रयः पुत्रा बभूवुः, तेषां प्रथमोत्तमाभ्यां बहु- वत् निगमा भवन्ति,न मध्यमेन। तदेतदृक्भोश्च बहुवचनेन चमसस्य च संस्तवेन बहूनि दशतयीषु सूक्तानि भवन्ति । आदित्यरश्मयः अपि ऋभवः उच्यन्ते । "अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानुगच्छथ ।” [ऋ० सं० २, ३, ६, १] ॥ 'अगोह्यः'आदित्यः । आगूहनीयः । तस्य यद् अस्वपथ गृहे यावत् तत्र भवथ न तावद् इह भवथ इति ॥

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य) · पृष्ठ 1174, कुल 1282 में से · BharatKosha