निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1185, कुल 1282 में से
संदर्भ में पढ़ेंस्नाय के पाठ के अनुसार ही की जावेगी, जिसकी समाप्ति इस अध्यायके अन्तमें होगी। इसी विशेष अधिकारकी सूचना के लिये “अथातः” ये पद दिये हैं। “मध्यस्थानाः” ‘मध्यस्थान’ क्यों ? ‘मध्यम् आसां स्थानम्’ इनका मध्य [ अन्तरिक्ष ] स्थान है। वे कौन हैं ? अदिति आदि देवस्त्रियें हैं ॥ १ [२२] ॥ [ खं० २ ] निरु०- “दक्षस्य वाऽदिते जन्मनि व्रते राजा- ना मित्रावरुणाविवाससि । अतूर्त्त पन्थाःपुरुरथो अर्य्यमा सप्तहोता विषुरूपेषु जन्मसु॥ ” (ऋ०सं० ८, २, ५, ६ ] ॥ दक्षस्य वा अदिते ! जन्मनि व्रते कर्मणि राजा नौ मित्रावरुणौ परिचरसि । ‘विवासतिः’परिचर्या- याम् । “ हविष्मान् आविवासति”— ऋ०मं० १, २३, ३ ) इति-आशास्ते वा । ‘अतूर्तपन्थाः’ अत्वरमाणपन्थाः बहुरथः अर्यमा' आदित्यः। अरीन् नियच्छति । ‘सप्तहोता’ सप्त अस्मै रश्मयः रसान् अभिसन्नाम- यन्ति । सप्तएनम्-ऋषयः स्तुवन्ति-इति वा । विषु- रूपेषु जन्मसु कर्मसु उदयेषु । ‘आदित्यो’ दक्षः-इति-आहुः । आदित्यमध्ये च स्तुतः ॥