निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1252, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ४६० ) १२अ० १पा० २ खं० वरेण्योऽनुप्रयाणमुषसो विराजति ॥” [ ऋ० सं० ४, ४, २४, २ । य०वा०सं० १२, ३ ] सर्वाणि प्रज्ञानानि प्रतिमुञ्चते मेधावी 'कविः' क्रान्तदर्शनो भवति । कवेर्वा । प्रसुवति भद्रं द्विपाद्भ्यश्च चतुष्पाद्भ्यश्च । व्यचिरुचपत् नाकं सविता वरणीयः । प्रयाणमनु उषसो विराजति । “अधो रामः सावित्रः”- इति पशुसमाम्नाये विज्ञायते । कस्मात् सामान्यात् ? इति, अध- स्तात् तद्वेलायां तमो भवति, एतस्मात् सामान्यात्। ‘अधस्ताद्रामः’ अधस्तात् कृष्णः । कस्मात् सा- मान्यात् ? इति । “अग्निं चित्वा न रामामुपे- यात्” ॥ रामा रमणाय उपेयते न धर्माय कृष्णजातीया। एतस्मात् सामान्यात् । “कृकवाकुः सावित्रः” इति पशुसमाम्नाये विज्ञायते कस्मात् सामान्यात् ? इति । कालानुवादं परीत्य कृकवाकोः पूर्वं शब्दानुकरणं वचेः उत्तरम् । ‘भगः’ व्याख्यातः । तस्य कालः प्राग्-उत्सर्पणात् । तस्य एषा भवति-॥ २ (१३) ॥