निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 246, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ७६ आगे जो वर्षकाम—सूक्तकी ऋचा दी जाती है,—उसमें सन्दि- ग्ध ‘समुद्र’ पदके दोनों अर्थ मन्त्रार्थके सामर्थ्यसे ही स्पष्ट प्रतीत होते हैं ॥ १ ॥ [ खं० २ ] आर्ष्टिषेणोहोत्रमृषिर्निषीदन्देवापिर्देव सुमतिं चिकित्वा॒न् । उत्तरस्मा दधरं समुद्रमपो दि॑व्या अस्रजद्वर्ष्या अभि ॥” [ भा० ] “आर्ष्टिषेणः” ऋष्टिषेणस्य पुत्रः । इषितः षेणस्य इति वा । ‘सेना’ सेश्वरा । समान गतिर्वा । ‘पुत्र.’ पुरुत्रायते । निपरणाद् वा । ‘पु’ नरकं, ततः त्रायते इति वा । “होत्रम्—ऋषिः-निषीदन्” ।। ‘ऋषिः’ दर्श- नात् । ‘स्तोमान् ददर्श’-इति-औपमन्यवः । “तद्-यद्-एनान्—तपस्या मानान् ब्रह्म- स्वयम्भु—अभ्यानर्षत्, तद् ऋषीणाम्— ऋषित्वम्”—इति विज्ञायते । “देवापिः” देवानाम्-आप्त्या, स्तुत्याच प्रदानेन च । “देव सुमतिम्” देवानां कल्याणीं मतिम् । “चिकित्वा॒न्” चेतनावान् । “स उत्तर- स्माद्-अधरं समुद्रम्” । ‘उत्तरः’ उद्भूततरो