निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 250, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त। ८३ [ खं० ३ ] “यद्देवापिः शन्तन्वे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पति- र्वा च मस्मै अयच्छत् ॥” [ भा० ] “शन्तनुः” शंतनो रस्त्वति वा । शम्- अस्मैतन्वस्त्विति वा । “पुरोहितः” पुरः एनं दधति । “होत्राय वृतः” कृपा- यमाणः-अन्वध्यायत् । “देवश्रुतं” देवा एनं शृण्वन्ति । वृष्टि याचितं “रराणः” रातिः- अभ्यस्तः । “बृहस्पतिः” ब्रह्मा आसीत्, सः “अस्मै” “वाचम्-अयच्छत्” । ‘बृहत्’- उपव्याख्यातम् ॥ ३ ॥ इति द्वितीयाध्यायस्य तृतीयः पादः ॥ २, ३ ॥ अन्वयार्थः-“यत्” यदा “देवापिः शन्तजवे” राज्ञे “होत्राय” वर्षार्थीय कर्मणि होतृकर्मणे “वृतः” सन् “कृपयन्” राज्ञः शन्तनोः कृपायमाणः “अदीधेत्” वृष्टिर्भवेत्-इति अन्वध्यायत्, तदा ‘वृष्टिवनि’ वृष्टियाचिनम् एनं “देवश्रुतं” देवापि “रराणो” ददत् “बृहस्पति“ ब्रह्मा आसीत् । ब्रह्मत्वे च