भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 254, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 254

हिन्दी निरुक्त । ८७ चतुर्थः पादः । ( खण्ड १ ) ( निघ० ) स्वः ( १ ) । पृश्निः ( २ ) । नाकः (३) । गौः ( ४ ) । विष्टप् ( ५ ) । नभः ( ६ ) । इति षट् साधारणानि ॥ ४ ॥ ( निरु० ) साधारणानि-उत्तराणि षड्, दिवश्च आ- दित्यस्य च । यानि तु-अस्य प्राधान्येन- उपरिष्टात्-तानि व्याख्यास्यामः । आदित्यः कस्मात् ? आदत्ते रसान् । आदत्ते भासं ज्योतिषाम् । आदोप्तो भासा-इति वा । अदितेः पुत्रः-इति वा । अल्पप्रयोगं तु- अस्य-एतत्-ऋर्चाभ्नाये । सूक्तभाक् । “सूर्य॑ मा॑दि॒तेयम्” [ऋ० सं० ८, ४, १२, १] एवमन्यासामपि देवतानाम्-आदित्यप्रवादाः स्तु- तयो भवन्ति । तद् यथायतद्-मित्रस्य, वरुणस्य, अर्यम्णः, दक्षस्य, भगस्य, अंशस्य-इति । अथापि मित्रावरुणयो— “आदित्यः दानु॑नस्पती”[ऋ०सं०२, ८, ८, १]दानपती । अथापि मित्रस्य-एकस्य—