निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 254, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ८७ चतुर्थः पादः । ( खण्ड १ ) ( निघ० ) स्वः ( १ ) । पृश्निः ( २ ) । नाकः (३) । गौः ( ४ ) । विष्टप् ( ५ ) । नभः ( ६ ) । इति षट् साधारणानि ॥ ४ ॥ ( निरु० ) साधारणानि-उत्तराणि षड्, दिवश्च आ- दित्यस्य च । यानि तु-अस्य प्राधान्येन- उपरिष्टात्-तानि व्याख्यास्यामः । आदित्यः कस्मात् ? आदत्ते रसान् । आदत्ते भासं ज्योतिषाम् । आदोप्तो भासा-इति वा । अदितेः पुत्रः-इति वा । अल्पप्रयोगं तु- अस्य-एतत्-ऋर्चाभ्नाये । सूक्तभाक् । “सूर्य॑ मा॑दि॒तेयम्” [ऋ० सं० ८, ४, १२, १] एवमन्यासामपि देवतानाम्-आदित्यप्रवादाः स्तु- तयो भवन्ति । तद् यथायतद्-मित्रस्य, वरुणस्य, अर्यम्णः, दक्षस्य, भगस्य, अंशस्य-इति । अथापि मित्रावरुणयो— “आदित्यः दानु॑नस्पती”[ऋ०सं०२, ८, ८, १]दानपती । अथापि मित्रस्य-एकस्य—