निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 269, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । १०३ आपः पणिनेव गावः” ‘पणिः’–वणिग् भवति । ‘पणिः’ पण्यात् । वणिक पण्यं नेनेक्ति । “अपां बिलमपिहितं यदासीद् ।” ‘बिलं’ भरं भवति । बिभर्तेः । “वृत्रं जघ्निवानपववार तद् ।” ‘वृत्रः’ वृणोते र्वा । वर्त्तते र्वा । वर्द्धते र्वा । “यद्-अवृ- णोत् तद् वृत्रस्य वृत्रत्वम्” इति विज्ञायते । “यद् अवर्त्तत तद् वृत्रस्य वृत्रत्वम्” इति विज्ञायते । “यद्-अवर्द्धत तद्वृत्रस्य वृत्रत्वम्-इति विज्ञायते ॥३॥ इति द्वितीयाध्यायस्य पञ्चमः पादः ॥ २, ५ ॥ अर्थः । “दासपत्नीः” दासाधिपत्याः “अहिगोपाः” अहिना ( मेघेन ) गुप्ताः “पणिना” वणिजा “गावः-इव” मेघोदरे “निरुद्धाः” “आपः” “अतिष्ठन् ।” “यदा” “अपां” “बिलम्” “अपिहितम्”मुद्रितम् “आसीत्” तदा इन्द्रः “वृत्रं” मेघम् “जघन्वान्” जघान “तत्” द्वारञ्च “अप-ववार” ‘अपावृत्तवान्’ तथा आपश्च वर्ष- भावेन प्रसस्यन्दिरे,-इत्यर्थः ॥ दास (कर्म करनेवाले) की रक्षा करनेवालीं, मेघसे रक्षित वणियेसे गोओंके समान मेघके भीतर रुकी हुई अप् (जल) ठहरी हुई थीं। जब जलोंके निकलनेका द्वार मुँदा हुआ था उस समय