भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 277, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 277

“रुशद्वत्सा” सूर्यवत्सा । : “रुशत्”-इति वर्णनाम । रोचते-र्ज्वलति कर्मणः । सूर्य्यमस्या वत्सञ्जाहुः । साहचर्य्याद् रसहर- णाद्-वा । “रुशती श्वेत्या गात् ।” “श्वेत्या” श्वेततेः । अरिचत् “कृष्णा” सदनानि अस्याः । कृष्णवर्णा रात्रिः । ‘कृष्ण’ कृष्यतेः निकृष्टो वर्णः । अथ-एने संस्तौति-“समानबन्धू” समानबन्धने “अमृते” अमरणाधर्माणौ ‘अनूची’-इति-इतरे- तरमभिप्रेत्य । “द्यावा वर्णं चरतः” ते एव । द्यावौ द्योतनात् । अपि वा “द्यावा चरतः” ‘तया चरतः’-इति स्यात् । “आमिनाने” अन्योन्यस्य अध्वात्मं कुर्वाणे । अहर्नामानि उत्तराणि द्वादश । अहः कस्मात् ? उपाहरन्ति अस्मिन् कर्माणि । तस्य-एष निपातो भवति, वैश्वानरीयायाम्-ऋचि ॥ ३ ॥ अर्थ । “रुशद्वत्सा” सूर्यवत्सा “रुशती” चात्मनाऽपि रोचनशीला “श्वेत्या” श्वेतवर्णा (उषाः) “आगात्” आगच्छति । “कृष्णा” कृष्णवर्णा रात्रिः च “अस्याः” सदनानि “आरैक्” आरेचयति जहातीत्यर्थः ।

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य) · पृष्ठ 277, कुल 1282 में से · BharatKosha