निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 293, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । १२७ नदीके लिये ही है, किन्तु देवताके लिये नहीं ।। यह यास्काचार्य- का अभिप्राय है। निगमोंके द्वारा शब्दोंके अर्थ इसी प्रकार- निर्धारित होते हैं। ॥ २ ॥ ( खण्ड ३ ) [ निरु० ] “रमध्वं मे वचसे सोम्याय ऋतावरी रुपमुहूर्त्त मेवैः । प्र सिन्धुमच्छा बृहती मनीषा वस्युरह्वे कुशिकस्य सूनुः ॥” [ ऋ० सं० ३, २, १२५ ] “उप” “रमध्वम्” “मे” “वचसे” “सोम्याय” सोमसम्पादिने । “ऋतावरीः” ऋतवत्यः । ‘ऋतम्’- इति उदक-नाम । प्रत्यृतं भवति । “मुहूर्त्तम्” “एवैः” । अयनैः, अवनैर्वा । “मुहूर्त्तः” मुहूर्त्तुः । ‘ऋतुः’ ऋतेर्गतिकर्मणः । ‘मुहुः’ मूढ इव कालः । यावत्-अभीक्ष्णञ्च-इति । ‘अभीक्ष्णम्’ अभिक्षणाद्- भवति । ‘क्षणः’ क्षणोतेः । प्रक्ष्णुतः कालः । ‘कालः’ कलयतेर्गतिकर्मणः । “प्र” अवगाहयामि “सिन्धुम्” । ‘बृहत्या’ महत्या । ‘मनीषया’ मनस ईषया । ‘स्तुत्या’ ‘प्रज्ञया वा’ । अवनाय “कुशिकस्य सूनुः” । कुशिको राजा बभूव । क्रोशतेः शब्दकर्मणः । क्रंशते र्वा स्यात् प्रकाशयतिकर्मणः । साधु विक्क्रोशयिता अर्थानाम् इति वा । नद्यः प्रत्यूचुः ॥ ३ ॥