भारतकोश
निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)

Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary

महर्षि यास्क मुनि द्वारा

DevanagariHindipublished1,282 पृष्ठ

पृष्ठ 293, कुल 1282 में से

संदर्भ में पढ़ें
पृष्ठ 293

हिन्दी निरुक्त । १२७ नदीके लिये ही है, किन्तु देवताके लिये नहीं ।। यह यास्काचार्य- का अभिप्राय है। निगमोंके द्वारा शब्दोंके अर्थ इसी प्रकार- निर्धारित होते हैं। ॥ २ ॥ ( खण्ड ३ ) [ निरु० ] “रमध्वं मे वचसे सोम्याय ऋतावरी रुपमुहूर्त्त मेवैः । प्र सिन्धुमच्छा बृहती मनीषा वस्युरह्वे कुशिकस्य सूनुः ॥” [ ऋ० सं० ३, २, १२५ ] “उप” “रमध्वम्” “मे” “वचसे” “सोम्याय” सोमसम्पादिने । “ऋतावरीः” ऋतवत्यः । ‘ऋतम्’- इति उदक-नाम । प्रत्यृतं भवति । “मुहूर्त्तम्” “एवैः” । अयनैः, अवनैर्वा । “मुहूर्त्तः” मुहूर्त्तुः । ‘ऋतुः’ ऋतेर्गतिकर्मणः । ‘मुहुः’ मूढ इव कालः । यावत्-अभीक्ष्णञ्च-इति । ‘अभीक्ष्णम्’ अभिक्षणाद्- भवति । ‘क्षणः’ क्षणोतेः । प्रक्ष्णुतः कालः । ‘कालः’ कलयतेर्गतिकर्मणः । “प्र” अवगाहयामि “सिन्धुम्” । ‘बृहत्या’ महत्या । ‘मनीषया’ मनस ईषया । ‘स्तुत्या’ ‘प्रज्ञया वा’ । अवनाय “कुशिकस्य सूनुः” । कुशिको राजा बभूव । क्रोशतेः शब्दकर्मणः । क्रंशते र्वा स्यात् प्रकाशयतिकर्मणः । साधु विक्क्रोशयिता अर्थानाम् इति वा । नद्यः प्रत्यूचुः ॥ ३ ॥