निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 302, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । १३७
[ निरु० ] "उतस्य वाजी क्षिपणिं तुर्र्यति । ग्रीवायां बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनुसन्तवीत्वत् पथामङ्कांस्यन्वापनीफणत् ॥" [ ऋ० सं० ३, ७, ४, ४ ] "अपि" स "वाजी" वेजनवान् क्षेपणमनु तूर्ण म- श्नुते अध्वानम्, “ग्रीवायां बद्धः ।” 'ग्रीवा' गिरते र्वा । गृणाते र्वा । गृह्णते र्वा । "अपिकक्ष-आसनि" इति व्याख्यातम् । "क्रतुं दधिक्राः" कर्म वा प्रज्ञां वा । "अनुसन्तवीत्वत् ।” तनोतेः पूर्वया प्रकृत्या निगमः । "पथामङ्कांसि ।” पथां कुटिलानि । 'पन्थाः' पतते र्वा । पद्यते र्वा । पन्थते र्वा । 'अङ्कः'-अञ्चतेः । "अपनी फणत्"-इति फणतेः-चर्करीतवृत्तम् । दशं- उत्तराण्यादिष्टोपयोजनानि-इति-आचक्षते-साहचर्य- ज्ञानाय । ज्वलतिकर्माणः उत्तरे-धातवः-एकादश । तावन्ति- एव उत्तराणि ज्वलतो नामधेयानि नाम- धेयानि ॥ ६ ॥ ( इति षष्ठः खण्डः ) सप्तमः पादः । द्वितीयोऽध्यायः समाप्तः ॥ २ ॥ १८