निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 303, कुल 1282 में से
संदर्भ में पढ़ें१३८ २ अ० ३ पा० ६ खं० । अर्थ । [ खण्ड विषय-] 'दधिक्रा' शब्दकी अश्ववाचकतामें उदाहरण मन्त्र । 'ग्रीवा' शब्दका निर्वचन । 'आसन्' शब्दके पूर्व किये हुए निर्वचनका स्मरण । 'अनुसन्तवीत्वत्' पदकी प्रकृति । 'पथिन्' और 'अङ्क' शब्दका निर्वचन । 'अपनीफणत्' पदकी प्रकृति और वृत्ति । प्रयोजन सहित आदिष्टोपयोजन नामोंकी संख्या । ज्वलति- कर्मा धातुओं और ज्वलत्के नामोंकी संख्या ॥' “उतस्य वाजी-इति गोतमपुत्रस्य वामदेवस्य द्वयमार्षम् । जगती । वाजपेये वाजियुक्तं रथमारुह्य यजमानोऽनुवाकं जपति, तवैषा ।” “उतस्यः” अपि सः “वाजी” वेजनवान् ‘ओविजी’ भयचलनयोः ( रु० प० )-( तु० आ० ) भयवान् परेभ्यो भयदाता, “ग्रीवायां बद्धे आसनि” मुखे च “बद्धः अपि” “दधिक्राः” अश्वः “क्षिपणिं” कशा- घातम् अनु [ अनाहतोऽपिवा ] “तुरण्यति” तूर्ण म- श्नुते अध्वानम्, “ऋतुम्” आत्मीयं गमनं कर्म अथवा अश्वारोहस्य प्रज्ञाम् “अनुसन्तवीत्वत्” अनुसन्तनोति, “पथां” मार्गाणाम् “अङ्कांसि” कुटिलानि अनुलोमानि इव कुर्वन् “आपनीफणत्” आभिमुख्येन पुनः पुनः भृशं वा फणति गच्छति-इत्यर्थः ॥