निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 320, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ११ “अङ्गादङ्गात्सम्भवसि हृदयादधि जायसे। आत्मा वै पुत्र नामासि स जीव शरदः शतम्” इति । [ गो० गृ० सू० २, ८, २१ ] “अविशेषेण पुत्राणां दायो भवति धर्मतः । मिथुनानां विसर्गादौ मनुः स्वायम्भुवोऽब्रवीत् ॥ ‘न दुहितरः’ इत्येके । तस्मात् ‘पुमान् दाया- दोऽदायादा स्त्री’-इति विज्ञायते । तस्मात् स्त्रियं जातां परास्यन्ति न पुमांसम्-इति च । स्त्रीणां दान विक्रयातिसर्गा विद्यन्ते न पुंसः । ‘पुंसोऽपि’ इत्येके । शौनः शेपे दर्शनात् । ‘अभ्रातृमती वादः’- इत्यपरम् । ( असूर्या यन्ति जामयः सर्वा लोहित- वाससः । ) अभ्रातर इव योषास्तिष्ठन्ति हतवर्त्मानः अभ्रातृका इव योषास्तिष्ठन्ति सन्तान कर्मणे पिण्ड दानाय हतवर्त्मानः इति । अभ्रातृकाया अनिर्वाहः औपमिकः । तस्य-उत्तरा भूयसे निर्वचनाय ॥ ४ ॥ अर्थः । “शासद्वह्नि” रिति एषा त्रिष्टुप् । ऐन्द्रं सूक्तं वैश्वामित्रम् । माध्यन्दिने सवने उक्थ पर्याये